अक्षर आकार:

श्रीस्तवः

shrIstavaH

श्रीस्तवः

ॐ श्रीदेवी महावक्त्रा चतुर्वर्णा चतुर्भुजा । प्रज्ञावीर्यसार (रस)ज्ञेया चिन्तामणिकुरु स्मृता ॥ १॥ श्रीशालिकान्तरूपा त्वं स्निग्धगात्रं च तण्डुलम् । ददासि मे सदा चित्रं सौभाग्यं लोकपूजितम् ॥ २॥ श्रीताण्डुली महादेवी श्रीमल्(त्) कमलशोभिता । ददासि मे महाभोग्यं सर्वद्रव्यहितं धनम् ॥ ३॥ श्रीव्रीहिमुक्ताजीवा त्वं सर्वभूप(सु) नन्दिनी । ददासि मे सुखं नित्यं जीवितं धातुकाञ्चनम् ॥ ४॥ श्रीधन (धान्य) देविका रम्या सर्वरूपवती तथा । सर्वज्ञानमणिश्चैव श्रीश्रीदेवी नमोऽस्तु ते ॥ ५॥ ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । शिवाङ्गमिति तत्सर्वं मां रक्षतु नमोऽस्तु ते । श्रीदेवी सततं मूर्ध्ना त्वां नमामि च शक्तितः ॥ ६॥ ॥ ॐ तत्सत्॥ The text is found in inscriptions in the Far East lands of Java and Cambodia.