अक्षर आकार:

श्रीललिताहृदयस्तोत्रम्

shrI lalitAhRidaya stotraM

श्रीललिताहृदयस्तोत्रम्

अथश्रीललिताहृदयस्तोत्रं ॥ श्रीललिताम्बिकायै नमः । देव्युवाच । देवदेव महादेव सच्चिदानन्दविग्रहा । सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ १॥ ईश्वरौवाच । साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकं । रहस्यमपिवक्ष्यामि सावधानमनाःश‍ृणु ॥ २॥ श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीं । नमामिललितां नित्यां भक्तानामिष्टदायिनीं ॥ ३॥ बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितं । दशकोणद्वयोपेतं चतुर्द्दश समन्वितं ॥ ४॥ दलाष्टकेसरोपेतं दलषोडशकान्वितं । वृत्तत्रययान्वितम्भूमिसदनत्रयभूषितं ॥ ५॥ नमामि ललिताचक्रं भक्तानामिष्टदायकं । अमृताम्भोनिधिन्तत्र रत्नद्वीपं नमाम्यहं ॥ ६॥ नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकां । सन्तानवाटिकांवन्दे हरिचन्दनवाटिकां ॥ ७॥ मन्दारवाटिकां पारिजातवाटीं मुदा भजे । नमामितव देवेशि कदम्बवनवाटिकां ॥ ८॥ पुष्यरागमहारत्नप्राकारं प्रणमाम्यहं । पत्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ ९॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारम्प्रणमामि कुलेश्वरी ॥ १०॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहं । मुक्ताफलमहारत्नप्राकारम्प्रणमाम्यहं ॥ ११॥ मरताख्यमहारत्नप्राकाराय नमोनमः । विद्रुमाख्यमहारत्नप्राकारम्प्रणमाम्यहं ॥ १२॥ माणिक्यमण्डपं रत्नसहस्रस्तम्भमण्डपं । ललिते!तवदेवेशि भजाम्यमृतवापिकां ॥ १३॥ आनन्दवापिकां वन्देविमर्शवापिकां भजे । भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥ १४॥ महाश‍ृङ्गारपरिखां महापत्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहं ॥ १५॥ पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहं । दक्षिणांनायरूपन्तेदक्षिणद्वारमाश्रये ॥ १६॥ नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकं । वन्देहमुत्तरद्वारमुत्तराम्नायरूपकं ॥ १७॥ ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि । ललितेतव देवेशि महासिंहासनं भजे ॥ १८॥ ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहं । एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहं ॥ १९॥ एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहं । मञ्चपादंममाम्येकं तव देवीश्वरात्मकं ॥ २०॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभं । नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ २१॥ नमामिते हंसतूलमहोपाधानमुत्तमं । कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥ २२॥ महावितानिकां वन्दे महायविनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ २३॥ स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् । अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहं ॥ २४॥ मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहं । त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥ २५॥ वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै । शोषाणान्दाहनं चैव करोमि प्लावनं तथा ॥ २६॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहं । पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥ २७॥ करोम्यनेन मन्त्रेण तालत्रयमहं शिवे । नारायणोहम्ब्रह्माहं भैरवोहं शिवोस्म्यहं ॥ २८॥ देवोहं परमानन्दोस्म्यहं त्रिपुरसुन्दरि । ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहं ॥ २९॥ कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि! । मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥ ३०॥ महादेव्यासनायेति प्रकरोम्यासनं शिवे । चक्रासनंनमस्यामि सर्वमन्त्रासनं शिवे ॥ ३१॥ साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि । करोम्यस्मिञ्चक्रमन्त्रैर्देवतासनमुत्तमं ॥ ३२॥ करोम्यथ षडङ्गाख्यं मातृकां च कलां न्यसे । श्रीकण्टङ्केशवं चैव प्रपञ्चं योगमातृकां ॥ ३३॥ तत्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे । लघुषोढान्ततः कूर्व्वे शक्तिन्यासं महोत्तमं ॥ ३४॥ पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये । कुङ्कुमन्यासकञ्चैव चक्रन्यासमथाचरे ॥ ३५॥ चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयं । षोडशार्ण्णमहामन्त्रैरङ्गन्यासङ्करोम्यहं ॥ ३६॥ महाषोढां ततः कुर्व्वे शाम्भवं च महाप्रिये । ततोमूलम्प्रजप्त्वाथ पादुकाञ्च ततः परं ॥ ३७॥ गुरवे सम्यगर्च्याथ देवतां हृदिसम्भजे । करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥ ३८॥ पुष्पैरभ्यर्च्च्यसाधारं शङ्खं सम्पूजयामहं । अर्च्चयामिषडङ्गेन जलमापूरयाम्यहं ॥ ३९॥ ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितं । तजजलेनजगन्मातस्त्रिकोणं वृत्तसम्युतं ॥ ४०॥ षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहं । विद्ययापूजयामीह त्रिखण्डेन तु पूजनं ॥ ४१॥ बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये । तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥ ४२॥ धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा । ज्वालिनीञ्च नमस्यामि वन्देहं विस्पुलिङ्गिनीं ॥ ४३॥ सुश्रियं च सुरूपाञ्चकम्पिलां प्रणमाम्यहं । नौमिहव्यवहां नित्यां भजे कव्यवहां कलां ॥ ४४॥ सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकं । अर्घ्यपाद्यमहन्तत्र तपिनीं तापिनीं भजे ॥ ४५॥ धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे । सुषुम्नाम्भोगदां वन्दे भजे विश्वां च बोधिनीं ॥ ४६॥ धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे । आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकं ॥ ४७॥ अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहं । पुष्टिम्भजे महादेवि भजेऽहं च रतिं धृतिं ॥ ४८॥ रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे । नेऔमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृताम्भजे ॥ ४९॥ त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकं । हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करं ॥ ५०॥ वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहं । वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहं ॥ ५१॥ पुरतोग्न्यादिषल्ख़ोणं कखगेनार्च्चयाम्यहं । श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितं ॥ ५२॥ समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकं । ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतं ॥ ५३॥ चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहं । वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ ५४॥ आश्रये शोडषकलास्तत्र चन्द्रमसस्तदा । सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तीम् तथैव च ॥ ५५॥ लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् । एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥ ५६॥ शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकां । वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहं ॥ ५७॥ एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे । निद्रान्तन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियां ॥ ५८॥ उल्कारीं मृत्युरूपां च एता रुद्रकला भजे । नीलाम्पीतां भजे श्वेतां वन्देहमरुणां कलां ॥ ५९॥ अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे । निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहं ॥ ६०॥ रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे । परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ ६१॥ ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलां । आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहं ॥ ६२॥ कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहं । विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहं ॥ ६३॥ त्रैयम्बकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् । विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥ ६४॥ अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा । अखण्डैकरसानन्दकरेपरसुधात्मनि ॥ ६५॥ स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि । अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ ६६॥ अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि । तद्रूपाणेकरस्यत्वङ्कृत्वाह्येतत्स्वरूपिणि ॥ ६७॥ भूत्वा परामृताकारमयि चित् स्पुरणं कुरु । एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतं ॥ ६८॥ जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि । तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहं ॥ ६९॥ ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहं । हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुन्दरीं ॥ ७०॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीं । नासापुटात्परकलामथनिर्ग्गमयाम्यहं ॥ ७१॥ नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिं । जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहं ॥ ७२॥ सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव । अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहं ॥ ७३॥ महापत्मवनान्तस्थे कारणानन्तविग्रहे । सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ ७४॥ देवेशी भकतसुलभे सर्वाभरणभूषिते । यावत्वम्पूजयामीहतावत्त्वं सुस्थिराभव ॥ ७५॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहं । कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहं ॥ ७६॥ गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशं । कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनं ॥ ७७॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे । गृहाणोष्णादकस्नानङ्कल्पयाम्यभिषेचनं ॥ ७८॥ हेमकुम्भायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनं । कल्पयामिनमस्तुभ्यं धएऔतेन परिमार्ज्जनं ॥ ७९॥ बालभानु प्रतीकाशं दुकूलं परिधानकं । अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहं ॥ ८०॥ प्रवेशनं कल्पयामि सर्वाङ्गानि विलेपनं । नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनं ॥ ८१॥ अष्टगन्धैः कल्पयामि तवलेखनमम्बिके । कालागरुमहाधूपङ्कल्पयामि नमश्शिवे ॥ ८२॥ मल्लिकामालातीजाति चम्पकादि मनोरमैः । अर्च्चिताङ्कुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥ ८३॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपे । उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहं ॥ ८४॥ नवमाणिक्यमकुटं तत्रते कल्पयाम्यहं । शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥ ८५॥ तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव । कालाज्ञनङ्कल्पयामि पालीयुगलमुत्तमं ॥ ८६॥ मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी! । ताटङ्कयुगलन्देवि ललिते धारयाम्यहं ॥ ८७॥ अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमं । पदकन्ते कल्पयामि महापदकमुत्तमं ॥ ८८॥ मुक्तावलीं कल्पयामि चैकावलि समन्वितां । छन्नवीरञ्चकेयूरयुगलानां चतुष्टयं ॥ ८९॥ वलयावलिमालानीं चोर्मिकावलिमीश्वरि । काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥ ९०॥ त्रिपुरे पादकटकं कल्पये रत्ननूपुरं । पादाङ्गुलीयकन्तुभ्यं पाशमेकं करेतव ॥ ९१॥ अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव । अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥ ९२॥ तदावरण देवेशि महामञ्चादिरोहणं । कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमं ॥ ९३॥ सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमं । कर्प्पूरवीटिकान्तुभ्यं कल्पयामि नमः शिवे ॥ ९४॥ आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहं । मङ्गलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहं ॥ ९५॥ चामरं यूगलं देविदर्प्पणं कल्पयाम्यहं । तालव्रिन्तङ्कल्पयामिगन्धपुष्पाक्षतैरपि ॥ ९६॥ धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये । अथाहम्बैन्दवे चक्रे सर्वानन्दमयात्मके ॥ ९७॥ रत्नसिंहासने रम्ये समासीनां शिवप्रियां । उद्यद्भानुसहस्राभाञ्जपापुष्पसमप्रभां ॥ ९८॥ नवरत्नप्रभायुक्तमकुटेन विराजितां । चन्द्ररेखासमोपेताङ्कस्तूरितिलकाङ्कितां ॥ ९९॥ कामकोदण्डसौन्दर्यनिर्ज्जितभ्रऊलतायुतां । अञ्जनाञ्चितनेत्रान्तुपत्मपत्रनिभेषणां ॥ १००॥ मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजितां । ताम्बूलपूरितमुखींसुस्मितास्यविराजितां ॥ १०१॥ आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुतां । पदकेनसमोपेतां महापदकसंयुतां ॥ १०२॥ मुक्ताफलसमोपेतामेकावलिसमन्वितां । कौसुभाङ्गदसंयुक्तचतुर्Bआहुसमन्वितां ॥ १०३॥ अष्टगन्धसमोपेतां श्रीचन्दनविराजितां । हेमकुम्भोपमप्रख्यस्तनद्वन्दविराजितां ॥ १०४॥ रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुतां । सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ १०५॥ मुक्तामाणिक्यखचित काञ्चीयुतनितम्बनीं । सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥ १०६॥ कदलिस्तम्भसंराजदूरुद्वयविराजितां । कपालीकान्तिसङ्काशजङ्घायुगलशोभिताम् ॥ १०७॥ ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्वितां । ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जिताङ्घ्रिकाम् ॥ १०८॥ कान्त्या विराजितपदां भक्तत्राण परायणां । इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभां ॥ १०९॥ संवित्स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीं । प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ ११०॥ त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति । अग्नएऔमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ १११॥ इन्द्राशावारुणी भागे षडङ्गान्यर्च्चये क्रमात् । आद्याङ्कामेश्वरीं वन्दे नमामि भगमालिनीं ॥ ११२॥ नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहं । वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥ ११३॥ शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीं । नित्यान्नीलपताकाञ्च विजयां सर्वमङ्गलां ॥ ११४॥ ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे । प्रकाशानन्दनाथाख्याम्पराशक्तिनमाम्यहं ॥ ११५॥ शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीं । परशिवानन्दनाथाख्याम्पराशक्ति नमाम्यहं ॥ ११६॥ कौलेश्वरानन्दनाथं नौमि कामेश्वरीं सदा । भोगानन्दन्नमस्यामि सिद्धौघञ्च वरानने ॥ ११७॥ क्लिन्नानन्दं नमस्यामि समयानन्दमेवच । सहजानन्दनाथञ्चप्रणमामि मुर्म्मुहु ॥ ११८॥ मानवौघं नमस्यामि गगनानन्दगप्यहं । विश्वानन्दन्नमस्यामि विमलानन्दमेवच ॥ ११९॥ मदनानन्दनाथञ्च भुवनानन्दरूपिणीं । लीलानन्दन्नमस्यामि स्वात्मानन्दं महेश्वरि ॥ १२०॥ प्रणमामिप्रियानन्दं सर्वकामफलप्रदं । परमेष्टिगुरुंवन्दे परमङ्गुरुमाश्रये ॥ १२१॥ श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीं । श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥ १२२॥ अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि । अणिमांलखिमां वन्दे महिमां प्रणमाम्यहं ॥ १२३॥ ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहं । प्राकाम्यसिद्धिम्भुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥ १२४॥ सर्वकामप्रदां सर्वकामसिद्धिमहं भजे । मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ १२५॥ कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहं । माहेन्द्रीमपिचामुण्डाम्महालक्ष्मीमहं भजे ॥ १२६॥ तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे । सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥ १२७॥ मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे । भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहं ॥ १२८॥ बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीं । त्रैलोक्यमोहनञ्चक्रं नमामि ललिते तव ॥ १२९॥ नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदां । सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥ १३०॥ चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहं । सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥ १३१॥ अथाहं षोडशदले कामाकर्षिणिकां भजे । बुद्ध्याकर्षिणिकांवन्देहङ्काराकर्षिणिकां भजे ॥ १३२॥ शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे । रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥ १३३॥ गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे । धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥ १३४॥ नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे । आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥ १३५॥ शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि । सर्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥ १३६॥ गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यतां । पोताम्बुजासनन्तत्र नमामि ललिते तव ॥ १३७॥ त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदां । सर्वविद्राविणिमुद्रान्तत्राहं ते विचन्तये ॥ १३८॥ सिवे तवाष्टपत्रेहमनङ्गकुसुमां भजे । अनङ्गमेखलांवन्दे अनङ्गमदनां भजे ॥ १३९॥ नमोहं प्रणस्यामि अनङ्गमदनातुरां । अनङ्गरेखाङ्कलये भजेनङ्गां च वेगिनीं ॥ १४०॥ अनङ्गाकुशां वन्देह मनङ्गमालिनीं भजे । तत्राहम्प्रणस्यामि देव्या आसनमुत्तमं ॥ १४१॥ नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीं । सर्वाकर्षिणिकाम्मुद्रां तत्राह कलपयामिते ॥ १४२॥ भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे । सर्वविद्राविणींवन्दे सर्वकर्षिणिकां भजे ॥ १४३॥ सर्वह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे । सकलस्तम्भिनीं वन्दे कलये सर्वजृम्भिणीं ॥ १४४॥ वशङ्करीं नमस्यामि सर्वरज्ञिनिकां भजे । सकलोन्मदिनींवन्दे भजे सर्वार्त्थसाधके ॥ १४५॥ सम्पत्तिपुरिकां वन्दे सर्वमन्त्रमयीं भजे । भजाम्येवततश्शक्तिं सर्वद्वन्द्वक्ष्यङ्करीं ॥ १४६॥ तत्राहं कलये चक्रं सर्वसौभाग्यदायकं । नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिं ॥ १४७॥ नमामि परमेशानीं महात्रिपुरवासिनिं । कलयेहन्तव शिवे मुद्रां सर्वशङ्करीं ॥ १४८॥ बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे सर्वप्रियङ्करीं भजे ॥ १४९॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीं । सर्वकामप्रदांवन्दे सर्वदुःखविमोचिनिं ॥ १५०॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीं । सर्वाङ्गसुन्दरींवन्दे सर्वसौभाग्यदायिनीं ॥ १५१॥ सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये । तत्राहन्ते नमस्यामि कुलोत्तीर्णाख्य योगिनीं ॥ १५२॥ सर्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये । कलयामिततो मुद्रां सर्वोन्मादन कारिणीं ॥ १५३॥ अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहं । सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५४॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीं । सर्वाधारस्वरूपाञ्चसर्वपापहराम्भजे ॥ १५५॥ सर्वानन्दमयिं वन्दे सर्वरक्षास्वरूपिणीं । प्रणमामिमहादेवीं सर्वेप्सित फलप्रदां ॥ १५६॥ सर्वरक्षाकरं चक्रं सुन्दरीं कलये सदा । निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहं ॥ १५७॥ साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीं । कलयामिततो देवीं मुद्रां सर्वमहाङ्कुशां ॥ १५८॥ अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे । मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥ १५९॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहं । सर्वरोगहरञ्चक्रं तत्राहं कलये सदा ॥ १६०॥ नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीं । महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ १६१॥ नमामि जृम्भणाबाणं सर्वसम्मोहिनीं भजे । पाशञ्चापं भजे नित्यं भजे स्तम्भनमङ्कुशं ॥ १६२॥ त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे । महावज्रेश्वरींवन्दे महाश्रीभगमालिनीं ॥ १६३॥ महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदां । सर्वसिद्धिप्रदञ्चक्रं तवदेवि नमाम्यहं ॥ १६४॥ नमाम्यतिरहस्याख्यां योगिनीं तवकामदां । त्रिपुराम्बान्नमस्यामि बीजामुद्रामहाम्भजे ॥ १६५॥ मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहं । सर्वानन्दमयञ्चक्रं तवदेवि भजाम्यहं ॥ १६६॥ परां पररहस्याख्यां योगिनीं तत्रकामदां । महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥ १६७॥ धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहं । त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ १६८॥ शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तं । घृतसूपसमायुक्तन्दधिक्षीरसमन्वितं ॥ १६९॥ सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितं । निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७०॥ सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च । योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ १७१॥ एतत् कामकला रूपं भक्तानां सर्वकामदं । सर्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीं ॥ १७२॥ वामभागे महेशानि वृत्तं च चतुश्रकं । कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीं ॥ १७३॥ वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलं । जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितं ॥ १७४॥ तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमं । नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥ १७५॥ नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि । प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ १७६॥ तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि । प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ १७७॥ तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि । महादेविमहेशानि महाशिवमये प्रिये ॥ १७८॥ महानित्ये महासिद्धे त्वामहं शरणं शिवे । जयत्वन्त्रिपुरे देवि ललिते परमेश्वरि ॥ १७९॥ सदाशिव प्रियङ्करि पाहिमां करुणानिधे । जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ १८०॥ जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये । अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ १८१॥ गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि । जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥ १८२॥ विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि । ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ १८३॥ ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा । लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ १८४॥ भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि । त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहं ॥ १८५॥ ततश्च केतनां शक्तिं तर्पयामि महेश्वरि । तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहं ॥ १८६॥ त्वल्प्रीत्यर्त्थयं महादेवि ममाभीष्टार्त्थ सिद्धये । बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहं ॥ १८७॥ तिष्तमे हृदयेनित्यं त्रिपुरे परमेश्वरि । जगदम्महाराज्ञि महाशक्ति शिवप्रिये ॥ १८८॥ हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि । एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदं ॥ १८९॥ महारहस्यं सततं दुर्ल्लभं दैवतैरपि । साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमं ॥ १९०॥ यः पतेत् श्रद्धया नित्यं श‍ृणुयाद्वा समाहितः । नित्यपूजाफलन्देव्यास्सलभेन्नात्र संशयः ॥ १९१॥ पापैः समुच्यते सद्यः कायवाक्क् सित्तसम्भवैः । पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ १९२॥ सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलं । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ १९३॥ अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभां । साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ १९४॥ अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः । घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ १९५॥ श्रीमत्त्रिपुराम्बिकायै नमः । ॥ श्रीललिताहृदयस्तोत्रं सम्पूर्णं ॥ ॐ तत् सत् ॥