अक्षर आकार:

श्रीदेवी अथवा पार्वतिसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

Shri Devi or Paravti SahasranAmastotram

श्रीदेवी अथवा पार्वतिसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

अथ देवीमाहात्म्यम् । सूत उवाच इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १२।१॥ ऋषयः ऊचुः कैषा भगवती देवी शंकरार्द्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १२।२॥ तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १२।३॥ श्रीकूर्म उवाच पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभने । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १२।४॥ सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ १२।५॥ या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ १२।६॥ शिवा सर्वगताऽनान्ता गुणातीतातिनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ १२।७॥ अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ १२।८॥ एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १२।९॥ सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ १२।१०॥ चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श‍ृणुध्वं मुनिपुंगवाः ॥ १२।११॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ १२।१२॥ अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२।१३॥ अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ १२।१४॥ सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १२।१५॥ तत्र सर्वमिदं प्रोतमोतंचैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १२।१६॥ कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १२।१७॥ प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १२।१८॥ तस्य सर्वजगन्मूर्तिः शक्तिर्मायेति विश्रुता । तदेयं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १२।१९॥ सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ १२।२०॥ अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ १२।२१॥ सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनश्वराः ॥ १२।२२॥ सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ १२।२३॥ करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ १२।२४॥ लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ १२।२५॥ प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ १२।२६॥ एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ १२।२७॥ शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदंचानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२।२८॥ शक्तयो गिरजा देवी शक्तिमानथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ १२।२९॥ भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ १२।३०॥ मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ १२।३१॥ इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ १२।३२॥ एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवीदेषु निश्चितं ब्रह्मवादिभिः ॥ १२।३३॥ एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२।३४॥ आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२।३५॥ परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ १२।३६॥ शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ १२।३७॥ सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ १२।३८॥ तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ १२।३९॥ लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ १२।४०॥ तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ १२।४१॥ मेनोवाच पश्य बालामिमां राजन्राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ १२।४२॥ सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्रां त्रिनेत्रामतिलालसाम् ॥ १२।४३॥ अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ १२।४४॥ प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ १२।४५॥ हिमवानुवाच का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ १२।४६॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ १२।४७॥ देव्युवाच मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् ॥ १२।४८॥ अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः । अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ॥ १२।४९॥ शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका । अनन्ताऽनन्तमहिमा संसारार्णवतारिणी ॥ १२।५०॥ दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् । एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ १२।५१॥ स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् । कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ॥ १२।५२॥ ज्वालामालासहस्राढ्यं कालानलशतोपमम् । दंष्ट्राकरालं दुर्द्धर्षं जटामणडलमण्डितम् ॥ १२।५३॥ किरीटिनं गदाहस्तं शङ्कचक्रधरं तथा । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १२।५४॥ प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १२।५५॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १२।५६॥ शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १२।५७॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १२।५८॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १२।५९॥ दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १२।६०॥ आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ १२।६१॥ हिमवानुवाच शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १२।६२॥ अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ १२।६३॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १२।६४॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ १२।६५॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ १२।६६॥ अनादिनिधनाऽमोघा कारणात्माकुलाकुला । स्वतः प्रथमजानाभिरमृतस्यात्मसंश्रया ॥ १२।६७॥ प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १२।६८॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ॥ १२।६९॥ सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ १२।७०॥ संसारपोता दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगनीपरमा कला ॥ १२।७१॥ महविभूतिदुर्दर्षा मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परमाद्यापकर्षिणी ॥ १२।७२॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्यादुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ १२।७३॥ अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १२।७४॥ महामाया सुदुष्पारा मूलप्रकृतिरीश्वरी प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १२।७५॥ पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ १२।७६॥ जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ १२।७७॥ क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिग्रहा ॥ १२।७८॥ महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ १२।७९॥ अकार्या कार्यजननी नित्यं प्रसवधर्मिणी । सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ १२।८०॥ ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ १२।८१॥ सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ १२।८२॥ महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवा महाविमानमध्यस्था महानिद्रात्महेतुका ॥ १२।८३॥ सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ १२।८४॥ अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ॥ १२।८५॥ ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ १२।८६॥ वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १२।८७॥ ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १२।८८॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १२।८९॥ ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ १२।९०॥ सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १२।९१॥ गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १२।९२॥ सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १२।९३॥ वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १२।९४॥ गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १२।९५॥ नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी ॥ १२।९६॥ शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १२।९७॥ महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १२।९८॥ कान्ता चित्राम्बरधरा दिव्याबरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ १२।९९॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहना ॥ १२।१००॥ वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्रा पद्मगर्भा विवाहना ॥ १२।१०१॥ विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरुपा विभावरी ॥ १२।१०२॥ विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १२।१०३॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १२।१०४॥ निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १२।१०५॥ दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १२।१०६॥ सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२।१०७॥ कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रिया ॥ १२।१०८॥ ज्वालामालासहस्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १२।१०९॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२।११०॥ दक्षिणा दहना माया सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामोहा महीयसी ॥ १२।१११॥ संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२।११२॥ ख्यातिः प्रज्ञा चितिः संच्चिन्महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्तिर्गणगन्धर्वसेविता ॥ १२।११३॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवामन्दा शची दुःस्वप्ननाशिनी ॥ १२।११४॥ इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । तपस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता ॥ १२।११५॥ गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता । हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ॥ १२।११६॥ जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ १२।११७॥ तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ॥ १२।११८॥ संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥ १२।११९॥ हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२।१२०॥ उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२।१२१॥ सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश् ॥ १२।१२२॥ निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२।१२३॥ परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२।१२४॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२।१२५॥ क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२।१२६॥ व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ॥ १२।१२७॥ अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२।१२८॥ वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२।१२९॥ व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १२।१३०॥ अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १२।१३१॥ भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ॥ १२।१३२॥ प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १२।१३३॥ पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १२।१३४॥ पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १२।१३५॥ मनोहरा मनोरस्था तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १२।१३६॥ योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १२।१३७॥ किंनरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १२।१३८॥ सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा १२।१३९॥ कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १२।१४०॥ सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १२।१४१॥ आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुदिर्नित्यपुष्टा निरन्तरा ॥ १२।१४२॥ दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १२।१४३॥ मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १२।१४४॥ पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १२।१४५॥ महेन्द्रभगिनी मान्या वरेण्या वरदयिका । कल्याणी कमलावासा पञ्चचूडा वरप्रदा ॥ १२।१४६॥ वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १२।१४७॥ भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा कामभेदाऽमहामदा ॥ १२।१४८॥ यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १२।१४९॥ चैत्रा संवत्सरारूढा जगत्सम्पूरणीध्वजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १२।१५०॥ खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १२।१५१॥ जयन्ती हृद्गुहा गम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १२।१५२॥ कलिकल्पविहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १२।१५३॥ विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १२।१५४॥ अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १२।१५५॥ संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १२।१५६॥ सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १२।१५७॥ महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभ१२।१५८॥ सर्वशक्त्यासनारूढा सर्वधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १२।१५९॥ विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १२।१६०॥ अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १२।१६१॥ अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १२।१६२॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १२।१६३॥ सत्यमाता सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १२।१६४॥ असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १२।१६५॥ पिषङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १२।१६६॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १२।१६७॥ शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १२।१६८॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १२।१६९॥ कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १२।१७०॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १२।१७१॥ अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १२।१७२॥ हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १२।१७३॥ महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १२।१७४॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १२।१७५॥ सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १२।१७६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १२।१७७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १२।१७८॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १२।१७९॥ वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १२।१८०॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १२।१८१॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १२।१८२॥ सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगांका मानदायिनी ॥ १२।१८३॥ वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥ १२।१८४॥ श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥ १२।१८५॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १२।१८६॥ सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १२।१८७॥ नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १२।१८८॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १२।१८९॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १२।१९०॥ युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवा परा ॥ १२।१९१॥ शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १२।१९२॥ शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १२।१९३॥ समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १२।१९४॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १२।१९५॥ धर्मान्तरा धर्ममयी धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १२।१९६॥ कापाली शकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १२।१९७॥ सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्माज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १२।१९८॥ सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १२।१९९॥ भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ १२।२००॥ भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ १२।२०१॥ संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ १२।२०२॥ द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ १२।२०३॥ श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ १२।२०४॥ दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ १२।२०५॥ प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ १२।२०६॥ भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् । हिमवानुवाच अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १२।२०७॥ यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा । त्वया सृष्टं जगत् सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ १२।२०८॥ त्वय्येव लीयते देवि त्वमेव च परा गतिः । वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ॥ १२।२०९॥ अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् । त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ १२।२१०॥ अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् । त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ १२।२११॥ सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया । त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ १२।२१२॥ प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च । त्वयैव संगतो देवः स्वमानन्दं समश्नुते ॥ १२।२१३॥ त्वमेव परमानन्दस्त्वमेवानन्ददायिनी । त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ १२।२१४॥ शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ १२।२१५॥ वायुर्बलवतां देवि योगिनां त्वं कुमारकः । ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १२।२१६॥ सांख्यानां कपिलो देवो रुद्राणामसि शंकरः । आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ १२।२१७॥ वेदानां सामवेदस्त्वं गायत्री छन्दसामसि । अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२।२१८॥ माया त्वं सर्वशक्तीनां कालः कलयतामसि । ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ॥ १२।२१९॥ आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः । पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १२।२२०॥ सर्वोपनिषदां देवि गुह्योपनिषदुच्यते । ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १२।२२१॥ आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती । त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १२।२२२॥ अरुन्धती सतीनां त्वं सुपर्णः पततामसि । सूक्तानां पौरुषं सूक्तं साम ज्येष्टं च सामसु ॥ १२।२२३॥ सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् । पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १२।२२४॥ सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १२।२२५॥ रूपं तवाशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ १२।२२६॥ यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ १२।२२७॥ अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १२।२२८॥ आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ १२।२२९॥ सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ १२।२३०॥ आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ १२।२३१॥ द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १२।२३१॥ अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ १२।२३२॥ सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १२।२३३॥ दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ १२।२३४॥ फणासहस्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १२।२३५॥ अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १२।२३६॥ प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ १२।२३७॥ ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ १२।२३८॥ त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १२।२३९॥ मया नास्ति समो लोके देवो वा दानवोऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १२।२४०॥ एषा तवाम्बिका देवि किलाभूत्पितृकन्यका । मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ १२।२४१॥ पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १२।२४२॥ अहो मे सुमहद् भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शंकरि ॥ १२।२४३॥ एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १२।२४४॥ अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १२।२४६॥ देव्युवाच श‍ृणुष्व चैतत् प्रथमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ १२।२४७॥ यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ १२।२४८॥ शान्तः समाहितमना दम्भाहंकारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ १२।२४९॥ भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्च्चय सर्वदा ॥ १२।२५०॥ तदेव मनसा पश्य तद् ध्यायस्व यजस्व च । ममोपदेशात्संसारं नाशयामि तवानघ ॥ १२।२५१॥ अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ १२।२५२॥ ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याऽहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ १२।२५३॥ श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ १२।२५४॥ धर्मात्संजायते भक्तिर्भक्त्या सम्प्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ १२।२५५॥ नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थी मद्रूपं वेदमाश्रयेत् ॥ १२।२५६॥ ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्त्तते ॥ १२।२५७॥ तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ १२।२५८॥ ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मिताः । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ १२।२५९॥ न च वेदादृते किञ्चिच्छास्त्रं धर्माभिधायकम् । योऽन्यत्ररमतेसोऽसौ न संभाष्यो द्विजातिभिः ॥ १२।२६०॥ यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ १२।२६१॥ कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ १२।२६२॥ ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ १२।२६३॥ वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत्प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ १२।२६४॥ वर्णानामनुकम्पार्थं मन्नियोगाद्विराट् स्वयम् । स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवान् ॥ १२।२६५॥ श्रुत्वा चान्येऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ १२।२६६॥ तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात्तानि करिष्यन्ति युगे युगे ॥ १२।२६७॥ अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ १२।२६८॥ अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगेऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ १२।२६९॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ १२।२७०॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ १२।२७१॥ एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद् यावदाभूतसम्प्लवम् ॥ १२।२७२॥ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ १२।२७३॥ तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ १२।२७४॥ ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ १२।२७५॥ सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ १२।२७६॥ मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ १२।२७७॥ तेषां नित्याभियुक्तानां मायातत्त्वं समुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपेन मा चिरात् ॥ १२।२७८॥ ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ १२।२७९॥ तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मनसा शरणं गतः ॥ १२।२८०॥ अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ १२।२८१॥ यद्यत् स्वरूपं मे तात मनसो गोचरं तव । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ १२।२८२॥ यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ १२।२८३॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ १२।२८४॥ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १२।२८५॥ मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२।२८६॥ एकत्वेन पृथक्त्वेन तथा चोभयथापि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ १२।२८७॥ मामनाश्रित्य तत्तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२।२८८॥ तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ १२।२८९॥ कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ १२।२९०॥ न वै पश्यन्ति तत्तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ १२।२९१॥ सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ १२।२९२॥ अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम् ॥ १२।२९३॥ सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ १२।२९४॥ भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये ॥ १२।२९५॥ अहंकारं च मात्सर्यं कामं क्रोधपरिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ १२।२९६॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ १२।२९७॥ ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ १२।२९८॥ वीक्षते तत्परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ १२।२९९॥ ब्रह्मणो हि प्रतिष्ठाऽयं परस्य परमः शिवः । अनन्यश्चाव्ययस्चैकश्चात्माधारो महेश्वरः ॥ १२।३००॥ ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं शरणं व्रज ॥ १२।३०१॥ एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्त्तुमर्हसि ॥ १२।३०२॥ अहं वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ १२।३०३॥ धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ १२।३०४॥ स त्वं नियोगाद्देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ १२।३०५॥ तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शंकरः ॥ १२।३०६॥ तस्मात्सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । सम्पूज्य देवमीशानं शरण्यं शरणं व्रज ॥ १२।३०७॥ स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १२।३०८॥ विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं वै चात्मनो योगं साधनानि प्रचक्ष्व मे ॥ १२।३०९॥ तस्यैतत् परमं ज्ञानमात्मयोगमुत्तमम् । यथावद् व्याजहारेशासाधनानिच विस्तरात् ॥ १२।३१०॥ निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तोऽभवत्पुनः ॥ १२।३११॥ प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद्ब्रह्मणः साध्वीं देवानां चैव संनिधौ ॥ १२।३१२॥ य इमं पठतेऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः ॥ १२।३१३॥ सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकं देव्याः स्थानमवाप्नुयात् ॥ १२।३१४॥ यश्चैतत् पठति स्तोत्रं ब्राह्मणानां समीपतः । समाहितमनाः सोऽपि सर्वपापैः प्रमुच्यते ॥ १२।३१५॥ नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ १२।३१६॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ १२।३१७॥ अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ १२।३१८॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ १२।३१९॥ सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ १२।३२०॥ प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ १२।३२१॥ जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ १२।३२२॥ सम्पूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ १२।३२३॥ तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापापनोदार्थं देव्या नाम सहस्रकम् ॥ १२।३२४॥ प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ १२।३२५॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशोऽध्यायः ॥१२॥ From sa.wikisource.org. The text is different than found in Sansknet encoding.