अक्षर आकार:

श्रीदेवीसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

Shri Devi SahasranAmastotram

श्रीदेवीसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

ऋषयः ऊचुः -- कैषा भगवती देवी शंकरार्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १॥ तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ २॥ श्रीकूर्म उवाच -- पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ ३॥ सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ ४॥ या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ ५॥ शिवा सर्वगताऽनन्ता गुणातीता सुनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ ६॥ अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ ७॥ एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ ८॥ सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ ९॥ चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श‍ृणुध्वं मुनिपुङ्गवाः ॥ १०॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ ११॥ अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२॥ अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्तायाः रुद्रेण परमात्मना ॥ १३॥ सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १४॥ तत्र सर्वमिदं प्रोतमोत चैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १५॥ कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १६॥ प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १७॥ तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १८॥ सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ १९॥ अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ २०॥ सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनन्तयाः ॥ २१॥ सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ २२॥ करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ २३॥ लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ २४॥ प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ २५॥ एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ २६॥ शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ २७॥ शक्तयो गिरिजा देवी शक्तिमन्तोऽथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ २८॥ भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ २९॥ मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ३०॥ इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ३१॥ एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ३२॥ एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३३॥ आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३४॥ परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ ३५॥ शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ ३६॥ सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ ३७॥ तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ ३८॥ लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ ३९॥ तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ४०॥ मेनोवाच -- पश्य बालामिमां राजन् राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसाऽऽवयोः ॥ ४१॥ सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ४२॥ अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ ४३॥ प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ४४॥ हिमवानुवाच -- का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ ४५॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ ४६॥ देव्युवाच -- मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ४७॥ अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ४८॥ अनन्ताऽनन्तमहिमा संसारार्णवतारिणी । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ४९॥ एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् । स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ५०॥ कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् । ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ५१॥ दंष्ट्राकरालं दुर्धर्षं जटामणडलमण्डितम् । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ५२॥ प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ५३॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ५४॥ शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ५५॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ५६॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ५७॥ दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ५८॥ आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ५९॥ हिमवानुवाच -- शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ६०॥ अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ ६१॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ६२॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ ६३॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ ६४॥ अनादिनिधनाऽमोघा कारणात्मा कुलाकुला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ६५॥ प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ६६॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । सर्वशक्तिकलाकारा ज्योत्स्ना धौर्महिमास्पदा ॥ ६७॥ सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ६८॥ संसारपारा दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ ६९॥ महाविभूतिदुर्घर्षा मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ७०॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ७१॥ अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ७२॥ महामाया सुदुष्पारा मूलप्रकृतिरीश्वरी । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ७३॥ पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ७४॥ जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ ७५॥ क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ॥ ७६॥ महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ ७७॥ अकार्या कार्यजननी नित्यं प्रसवधर्मिणी । सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ ७८॥ ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ ७९॥ सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ ८०॥ महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवा । महाविमानमध्यस्था महानिद्रात्महेतुका ॥ ८१॥ सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ ८२॥ अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ॥ ८३॥ ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ८४॥ वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ ८५॥ ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ ८६॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ ८७॥ ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ ८८॥ सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ८९॥ गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ ९०॥ सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ९१॥ वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ९२॥ गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ९३॥ नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी ॥ ९४॥ शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ९५॥ महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ ९६॥ कान्ता चित्राम्बरधरा दिव्याबरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ९८॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ९९॥ वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ १००॥ विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरूपा विभावरी ॥ १०१॥ विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १०२॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १०३॥ निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १०४॥ दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १०५॥ सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १०६॥ कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १०७॥ ज्वालामालासहस्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १०८॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १०९॥ दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामाया महीयसी ॥ ११०॥ संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १११॥ ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी । विकृतिः शाङ्करी शास्त्री गणगन्धर्वसेविता ॥ ११२॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥ ११३॥ इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ ११४॥ हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ ११७॥ तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ११८॥ संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥ ११९॥ हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२०॥ उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२१॥ सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ॥ १२२॥ निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२३॥ परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२४॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२५॥ क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२६॥ व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोका शोकनाशिनी ॥ १२७॥ अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२८॥ वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२९॥ व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १३०॥ अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १३१॥ भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ॥ १३२॥ प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १३३॥ पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १३४॥ पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १३५॥ मनोहरा मनोरक्षा तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १३६॥ योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १३७॥ किन्नरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १३८॥ सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ॥ १३९॥ कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १४०॥ सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १४१॥ आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ॥ १४२॥ दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १४३॥ मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १४४॥ पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १४५॥ महेन्द्रभगिनी मान्या वरेण्या वरदायिका । कल्याणी कमला रामा पञ्चभूता वरप्रदा ॥ १४६॥ वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १४७॥ भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा नामभेदा महामदा ॥ १४८॥ यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १४९॥ चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १५०॥ खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १५१॥ जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १५२॥ कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १५३॥ विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १५४॥ अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १५५॥ संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १५६॥ सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १५७॥ महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभा । १५८॥ सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १५९॥ विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १६०॥ अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १६१॥ अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १६२॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १६३॥ सत्यमात्रा सत्यसन्ध्या त्रिसन्ध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १६४॥ असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १६५॥ विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १६६॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १६७॥ शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १६८॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १६९॥ कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १७०॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १७१॥ अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १७२॥ हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १७३॥ महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १७४॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १७५॥ सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १७६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १७७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १७८॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १७९॥ वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १८०॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १८१॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १८२॥ सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १८३॥ वसुप्रदा वसुमती वसोर्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥ १८४॥ श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १८५॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १८६॥ सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १८७॥ नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १८८॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १८९॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १९०॥ युगन्धरा युगावर्त्ता त्रिसंध्या हर्षवर्धिनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १९१॥ शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १९२॥ शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ॥ १९३॥ समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १९४॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १९५॥ धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥ १९६॥ कापाली सकलामूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १९७॥ सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्मा ज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १९८॥ सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १९९॥ भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ २००॥ भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ २०१॥ संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ २०२॥ द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ २०३॥ श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ २०४॥ दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ २०५॥ प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ २०६॥ नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ २०७॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ २०८॥ अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ २०९॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ २१०॥ सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ २११॥ प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ २१२॥ जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ २१३॥ सम्पूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ २१४॥ तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापापनोदार्थं देव्या नाम सहस्रकम् ॥ २१५॥ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे श्रीदेवीसहस्रनामस्तोत्रम् ॥ From sa.wikisource.org Kurmapurana. Book number 3472 with vyAkhyA available at Chaukhamba Sanskrit Pustakalay, Varanasi (It was condensed from Kurmapurana removing Himavana stuti.)