अक्षर आकार:

श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम्

shrIbhuvaneshvarI pa~nchakam or prAtaHsmaraNam

श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम्

प्रातः स्मरामि भुवना-सुविशालभालं माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥ प्रातः स्मरामि भुवना-गलशोभि मालां वक्षःश्रियं ललिततुङ्ग-पयोधरालीम् । संवित् घटञ्च दधतीं कमलं कराभ्यां कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ २॥ प्रातः स्मरामि भुवना-पदपारिजातं रत्नोउघनिर्मित-घटे घटितास्पदञ्च । योगञ्च भोगममितं निजसेवकेभ्यो वाञ्चाऽधिकं किलददानमनन्तपारम् ॥ ३॥ प्रातः स्तुवे भुवनपालनकेलिलोलां ब्रह्मेन्द्रदेवगण-वन्दित-पादपीठम् । बालार्कबिम्बसम-शोणित-शोभिताङ्गीं विन्द्वात्मिकां कलितकामकलाविलासाम् ॥ ४॥ प्रातर्भजामि भुवने तव नाम रूपं भक्तार्तिनाशनपरं परमामृतञ्च । ह्रीङ्कारमन्त्र-मननी जननी भवानी भद्रा विभा भयहरी भुवनेश्वरीति ॥ ५॥ यः श्लोकपञ्चकमिदं स्मरति प्रभाते भूतिप्रदं भयहरं भुवनाम्बिकायाः । तस्मै ददाति भुवना सुतरां प्रसन्ना सिद्धं मनोः स्वपदपद्म-समाश्रयञ्च ॥ इति श्रीदत्तात्रेयानन्दनाथ-विरचितं श्रीभुवनेश्वरी-पञ्चकम् एवम् श्रीभुवनेश्वरी प्रातःस्मरणम् सम्पूर्णम् ।