अक्षर आकार:

श्रीभुवनेश्वरीमन्त्रगर्भनामसहस्रकम्

Shri Bhuwaneshwari Mantra Garbha Sahasranamastotram

श्रीभुवनेश्वरीमन्त्रगर्भनामसहस्रकम्

श्रीभैरव उवाच देवि ! तुष्टोऽस्मि सेवाभिस्तवद्रूपेण च भाषया । मनोऽभिलषितं किञ्चिद् वरं वरय सुव्रते ॥ १॥ श्रीदेव्युवाच तुष्टोऽसि यदि मे देव ! वरयोग्याऽस्म्यहं यदि । वद मे भुवनेश्वर्याः मन्त्रं नामसहस्रकम् ॥ २॥ श्रीभैरव उवाच तव भक्त्या ब्रवीम्यद्य देव्या नामसहस्रकम् । मन्त्रगर्भ चतुर्वर्गफलदं मन्त्रिणां कलौ ॥ ३॥ गोपनीयं सदा भक्त्या साधकैश्च सुसिद्धये । सर्वरोगप्रशमनं सर्वशत्रुभयावहम् ॥ ४॥ सर्वोत्पातप्रशमनं सर्वदारिद्रयनाशनम् । यशस्करं श्रीकरं च पुत्रपौत्रविवर्द्धनम् । देवेशि ! वेत्सि त्वद् भक्त्या गोपनीयं प्रयत्नतः ॥ ५॥ अस्य नाम्नां सहस्रस्य ऋषिः भैरव उच्यते । पङ्क्तिश्छन्दः समाख्याता देवता भुवनेश्वरी ॥ ६॥ ह्रीं बीजं श्रीं च शक्तिः स्यात् क्लीं कीलकमुदाहृतम् । मनोऽभिलाषसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ७॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरवऋषये नमः शिरसि । पङ्क्तिश्छन्दसे नमः मुखे । श्रीभुवनेश्वरीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । श्रीं शक्त्ये नमः नाभौ । क्लीं कीलकाय नमः पादयोः । मनोऽभिलाषयसिद्धयर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥ ॐ ह्रीं श्रीं जगदीशानी ह्रीं श्रीं बीजा जगत्प्रिया। ॐ श्रीं जयप्रदा ॐ ह्रीं जया ह्रीं जयवर्द्धिनी ॥ ८॥ ॐ ह्रीं श्रीं वां जगन्माता श्रीं क्लीं जगद्वरप्रदा । ॐ ह्रीं श्रीं जूं जटिनी ह्रीं क्लीं जयदा श्रीं जगन्धरा ॥ ९॥ ॐ क्लीं ज्योतिष्मती ॐ जूं जननी श्रीं जरातुरा। ॐ स्त्रीं जूं जगती ह्रीं श्रीं जप्या ॐ जगदाश्रया ॥ १०॥ ॐ श्रीं जूं सः जगन्माता ॐ जूं जगत् क्षयंङ्करी । ॐ श्रीं क्लीं जानकी स्वाहा श्रीं क्लीं ह्रीं जातरूपिणी ॥ ११॥ ॐ श्रीं क्लीं जाप्यफलदा ॐ जूं सः जनवल्ल्भा । ॐ श्रीं क्लीं जननीतिज्ञा ॐ श्रीं जनत्रयेष्टदा ॥ १२॥ ॐ क्लीं कमलपत्राक्षी ॐ श्रीं क्लीं ह्रीं च कामिनी । ॐ गूं घोररवा ॐ श्रीं घोररूपा हसौः गतिः ॥ १३॥ ॐ गं गणेश्वरी ॐ श्रीं शिववामाङ्गवासिनी । ॐ श्रीं शिवेष्टदा स्वाहा ॐ श्रीं शीतातप्रिया ॥ १४॥ ॐ श्रीं गूं गणमाता च ॐ श्रीं क्लीं गुणरागिणी ॥ ॐ श्रीं गणेशमाता च ॐ श्रीं शङ्करवल्लभा ॥ १५॥ ॐ श्रीं क्लीं शीतलाङ्गी श्रीं शीतला श्रीं शिवेश्वरी । ॐ श्रीं क्लीं ग्लौं गजराजस्था ॐ श्रीं गीं गौतमी तथा ॥ १६॥ ॐ घां घुरघुरनादा च ॐ गीं गीतप्रिया हसौः । ॐ घां घरिणी घटान्तःस्था ॐ गीं गन्धर्वसेविता ॥१७॥ ॐ गौं श्रीं गोपति स्वाहा ॐ गीं गौं गणप्रिया । ॐ गीं गोष्ठी हसौः गोप्या ॐ गीं धर्माञ्सुलोचना ॥ १८॥ ॐ श्रीं गन्त्रीं हसौः घण्टा ॐ घं घण्टारवाकुला । ॐ घ्रीं श्रीं घोररूपा च ॐ गीं श्रीं गरुडी हसौः ॥ १९॥ ॐ गीं गणया हसौः गुर्वी ॐ श्रीं घोरद्युतिस्तथा । ॐ श्रीं गीं गणगन्धर्वसेवताङ्गी गरीयसी ॥ २०॥ ॐ श्रीं गाथ हसौः गोप्त्री ॐ गीं गणसेविता ॥ ॐ श्रीं गुणमति स्वाहा श्रीं क्लीं गौरी हसौः गदा ॥ २१॥ ॐ श्रीं गीं गौररूपा च ॐ गीं गौरस्वरा तथा । ॐ श्रीं गीं क्लीं गदाहस्ता ॐ गीं गोन्दा हसौः पयः ॥ २२॥ ॐ श्रीं गीं क्लीं गम्यरूपा च ॐ अगम्या हसौः वनम् ॥ ॐ श्रीं घोरवदना घोराकारा हसौः पयः ॥ २३॥ ॐ ह्रीं श्रीं क्लीं कोमलाङ्गी च ॐ क्रीं कालभयङ्करी । ऊ क्रीं कर्पतहस्ता च क्रीं ह्रूं कादम्बरी हसौः ॥ २४॥ क्रीं श्रीं कनकवर्णा च ॐ क्रीं कनकभूषणा । ॐ क्रीं काली हसौः कान्ता क्रीं ह्रूं कारुण्यरूपिणी ॥ २५॥ ॐ क्रीं श्रीं कूटप्रिया क्रीं ह्रूं त्रिकुता क्रीं कुलेश्वरी । ॐ क्रीं कम्बलवस्त्रा च क्रीं पीताम्बरसेविता ॥ २६॥ क्रीं श्रीं कुल्या हसौः कीर्तिः क्रीं श्रीं क्लीं क्लेशहारिणी । ॐ क्रीं कूटालया क्रीं ह्रीं कूटकर्त्री हसौः कुटीः ॥ २७॥ ॐ श्रीं क्लीं कामकमला क्लीं शीं कमला क्रीं च कौरवी । ॐ क्लीं श्रीं कुरुरवा ह्रीं श्रीं हाटकेश्वरपूजिता ॥ २८॥ ॐ ह्रां रां रम्यरूपा च ॐ श्रीं क्लीं काञ्चनाङ्गदा । ॐ क्रीईं श्रीं कुण्डली क्रीं हूँ काराबन्धनमोक्षदा ॥ २९॥ ॐ क्रीं कुर हसौः क्लऊ ब्लू ॐ क्रीं कौरवमर्दिनी । ॐ श्रीं कटु हसौः कुण्टी ॐ श्रीं कुष्ठक्षयङ्करी ॥ ३०॥ ॐ श्रीं चकोरकी कान्ता क्रीं श्रीं कापालिनी परा । ॐ श्रीं क्लीं कालिका कामा ॐ श्रीं ह्रीं क्लीं कलङ्किता॥ ३१॥ क्रीं श्रीं क्लीं क्रीं कठोराङ्गी ॐ श्रीं कपटरूपिणी । ॐ क्रीं कामवती क्रीं श्रीं कन्या क्रीं कालिका हसौः ॥ ३२॥ ॐ श्मशानकालिका श्रीं क्लीं ॐ क्रीं श्रीं कुटिलालका । ॐ क्रीं श्रीं कुटिलभ्रूश्च क्रीं ह्रूं कुटिलरूपिणी ॥ ३३॥ ॐ क्रीं कमलहस्ता च क्रीं कुण्टी ॐ क्रीं कौलिनी । ॐ श्रीं क्लीं कण्ठमध्यस्था क्लीं कान्तिस्वरुपिणी ॥ ३४॥ ॐ क्रीं कार्तस्वरूपा च ॐ क्रीं कात्यायनी हसौः । ॐ क्रीं कलावती हसौः काम्या क्रीं कलानिधीशेश्वरी ॥ ३५॥ ॐ क्रीं श्रीं सर्वमध्यस्था ॐ क्रीं सर्वेश्वरी पयः । ॐ क्रीं ह्रूं चक्रमध्यस्था ॐ क्रीं श्रीं चक्ररूपिणी ॥ ३६॥ ॐ क्रीं हूँ चं चकोराक्षी ॐ चं चन्दनशीतला । ॐ चं चर्माम्बरा ह्रूं क्रीं चारुहासा हसौः च्युता ॥ ३७॥ ॐ श्रीं चौरप्रिया हूँ च चार्वङ्गी श्रीं चलाऽचला । ॐ श्रीं हूँ कामराज्येष्टा कुलिनी क्रीं हसौः कुहू ॥ ३८॥ ॐ क्रीं क्रिया कुलाचारा क्रीं क्रीं कमलवासिनी । ॐ क्रीं हेलाः हसौः लीलाः ॐ क्रीं कालवासिनी ॥ ३९॥ ॐ क्रीं कालप्रिया ह्रूं क्रीं कालरात्रि हसौः बला । ॐ क्रीं श्रीं शशिमध्यस्था क्रीं श्रीं कन्दर्पलोचना ॥ ४०॥ ॐ क्रीं शीताञ्शुमुकुटा क्रीं श्रीं सर्ववरप्रदा । ॐ श्रीं श्याम्बरा स्वाहा ॐ श्रीं श्यामलरूपिणी ॥ ४१॥ ॐ श्रीं क्रीं श्रीं सती स्वाहा ॐ क्रीं श्रीधरसेविता । ॐ श्रीं रूक्षा हसौः रम्भा ॐ क्रीं रसवर्तिपथा ॥ ४२॥ ॐ कुण्डगोलप्रियकरी ह्रीं श्रीं ॐ क्लीं कुरूपिणी । ॐ श्रीं सर्वा हसौः तॄप्तिः ॐ श्रीं तारा हसौः त्रपा ॥ ४३॥ ॐ श्रीं तारुण्यरूपा च ॐ क्रीं त्रिनयना पयः । ॐ श्रीं ताम्बूलरक्तास्या ॐ क्रीं उग्रप्रभा तथा ॥ ४४॥ ॐ श्रीं उग्रेश्वरी स्वाहा ॐ श्रीं उग्ररवाकुला । ॐ क्रीं च सर्वभूषाढ्या ॐ श्रीं चम्पकमालिनी ॥ ४५॥ ॐ श्रीं चम्पकवल्ली च ॐ श्रीं च च्युतालया । ॐ श्रीं द्युतिमति स्वाहा ॐ श्रीं देवप्रसूः पयः ॥ ४६॥ ॐ श्रीं दैत्यारिपूजा च ॐ क्रीं दैत्यविमर्दिनी । ॐ श्रीं द्युमणिनेत्रा च ॐ श्रीं दम्भविवर्जिता ॥ ४७॥ ॐ श्रीं दारिद्रयराशिध्नी ॐ श्रीं दामोदरप्रिया । ॐ क्लीं दर्पापहा स्वाहा ॐ क्रीं कन्दर्पलालसा ॥ ४८॥ ॐ क्रीं करीरवॄक्षस्था ॐ क्रीं हूँङ्कारिगामिनी । ॐ क्रीं शुकात्मिका स्वाहा ॐ क्रीं शुककरा तथा ॥ ४९॥ ॐ श्रीं शुकश्रुतिः श्रीं क्लीं श्रीं ह्रीं शुककवित्वदा । ॐ क्रीं शुकप्रसू स्वाहा ॐ श्रीं क्रीं शवगामिनी ॥ ५०॥ ॐ रक्ताम्बरा स्वाहा ॐ क्रीं पीताम्बरार्चिता । ॐ श्रीं क्रीं स्मितसंयुक्ता ॐ श्रीं सौः स्मरा पुरा ॥ ५१॥ ॐ श्रीं क्रीं हूँ च स्मेरास्या ॐ श्रीं स्मरविवद्धिनी । ॐ श्री सर्पाकुला स्वाहा ॐ श्रीं सर्वोपवेशिनी ॥ ५२॥ ॐ क्रीं सौः सर्पकन्या च ॐ क्रीं सर्पासनप्रिया । सौः सौः क्लीं सर्वकुटिला ॐ श्रीं सुरसुरार्चिता ॥ ५३॥ ॐ श्रीं सुरारिमथिनी ॐ श्रीं सुरिजनप्रिया । ऐं सौः सूर्येन्दुनयना ऐं क्लीं सूर्यायुतप्रभा ॥ ५४॥ ऐं श्रीं क्लीं सुरदेव्या च ॐ श्रीं सर्वेश्वरी तथा । ॐ श्रीं क्षेमकरी स्वाहा ॐ क्रीं हूँ भद्रकालिका ॥ ५५॥ ॐ श्रीं श्यामा हसौः स्वाहा ॐ श्रीं ह्रीं शर्वरीस्वाहा । ॐ श्रीं क्लीं शर्वरी तथा ॐ श्रीं क्लीं शान्तरूपिणी ॥ ५६॥ ॐ क्रीं श्रीं श्रीधरेशानी ॐ श्रीं क्लीं शासिनी तथा । ॐ क्लीं शितिर्हसौः शौरी ॐ श्रीं क्लीं शारदा तथा ॥ ५७॥ ॐ श्रीं ह्रीं शारिका स्वाहा ॐ श्रीं शाकम्भरी तथा । ॐ श्रीं क्लीं शिवरूपा च ॐ श्रीं क्लीं कामचारिणी ॥ ५८॥ ॐ यं यज्ञेश्वरी स्वाहा ॐ श्रीं यज्ञप्रिया सदा । ॐ ऐं क्लीं यं यज्ञरूपा च ॐ श्रीं यं यज्ञदक्षिणा ॥ ५९॥ ॐ श्रीं यज्ञार्चिता स्वाहा ॐ यं याज्ञिकपूजिता । श्रीं ह्रीं यं यजमानस्त्री ॐ यज्वा हसौः वधूः ॥ ६०॥ श्रीं वां बटुकपूजिता ॐ श्रीं वरूथिनी स्वाहा ॥ ॐ क्रीं वार्ता हसौः ॐ श्रीं वरदायिनी स्वाहा॥ ६१॥ ॐ श्रीं क्लीं ऐं च वाराही ॐ श्रीं क्लीं वरवर्णिनी । ॐ ऐं सौः वार्तदा स्वाहा ॐ श्रीं वाराङ्गना तथा॥ ६२॥ ॐ श्रीं वैकुण्ठपूजा च वां श्रीं ऐं क्लीं च वैष्णवी । ॐ श्रीं ब्रां ब्राह्मणी स्वाहा ॐ क्रीं ब्राह्मणपूजिता ॥ ६३॥ ॐ श्रीं ऐं क्लीं च इन्द्राणी ॐ क्लीं इन्द्रपूजिता । ॐ श्रीं क्लीं ऐन्द्रि ऐं स्वाहा ॐ श्रीं क्लीं इन्दुशेखरा ॥ ६४॥ ॐ ऐं इन्द्रसमानाभा ॐ ऐं क्लीं इन्द्रवल्लभा । ॐ श्रीं इडा हसौः नाभिः ॐ श्रीं ईश्वरपूजिता ॥ ६५॥ ॐ ब्रां ब्राह्मी क्लीं रुं रुद्राणी ॐ ऐं द्रीं श्रीं रमा तथा । ॐ ऐं क्लीं स्थाणुप्रिया स्वाहा ॐ गीं पदक्षयकरी ॥ ६६॥ ॐ गीं गीं श्रीं गुरस्था च ऐं क्लीं गुदविवर्द्धिनी । ॐ श्रीं क्रीं क्रूं कुलीरस्था ॐ क्रीं श्रीं कूर्मपृष्ठगा ॥ ६७॥ ॐ श्रीं धूं तोतला स्वाहा ॐ त्रौं त्रिभुवनार्चिता । ॐ प्रीं प्रीतिर्हसौः प्रीतां प्रीं प्रभा प्रीं पुरेश्वरी ॥ ६८॥ ॐ प्रीं पर्वतपुत्री च ॐ प्रीं पर्वतवासिनी । ॐ श्रीं प्रीतिप्रदा स्वाहा ॐ ऐं सत्त्वगुणाश्रिता ॥ ६९॥ ॐ क्लीं सत्यप्रिया स्वाहा ऐं सौं क्लीं सत्यसङ्गरा । ॐ श्रीं सनातनी स्वाहा ॐ श्रीं सागरशायिनी ॥ ७०॥ ॐ क्लीं चं चन्द्रिका ऐं सौं चन्द्रमण्डलमध्यगा । ॐ श्रीं चारुप्रभा स्वाहा ॐ क्रीं प्रें प्रेतशायिनी ॥ ७१॥ ॐ श्रीं श्रीं मथुरा ऐं क्रीं काशी श्रीं श्रीं मनोरमा । ॐ श्रीं मन्त्रमयी स्वाहा ॐ चं चन्द्रकशीतला ॥ ७२॥ ॐ श्रीं शाङ्करी स्वाहा ॐ श्रीं सर्वाङ्गवासिनी । ॐ श्रीं सर्वप्रिया स्वाहा ॐ श्रीं क्लीं सत्यभामिनी ॥ ७३॥ ॐ क्लीं सत्यात्मिका स्वाहा ॐ क्लीं ऐं सौः च सात्त्विकी । ॐ श्रीं रां राजसी स्वाहा ॐ क्रीं रम्भोपमा तथा ॥ ७४॥ ॐ श्रीं राघवसेव्या च ॐ श्रीं रावणघातिनी । ॐ निशुम्भोहन्त्री ह्रीं श्रीं क्लीं ॐ क्रीं शुम्भमदापहा ॥ ७५॥ ॐ श्रीं रक्तप्रिया हरा ॐ श्रीं क्रीं रक्तबीजक्षयङ्करी । ॐ श्रीं माहिषपृष्टस्था ॐ श्रीं महिषघातिनी ॥ ७६॥ ॐ श्रीं माहिषे स्वाहा ॐ श्रीं श्रीं मानवेष्टदा । ॐ श्रीं मतिप्रदा स्वाहा ॐ श्रीं मनुमयी तथा ॥ ७७॥ ॐ श्रीं मनोहराङ्गी च ॐ श्रीं माधवसेविता । ॐ श्रीं माधवस्तुत्या च ॐ श्रीं वन्दीस्तुता सदा ॥ ७८॥ ॐ श्रीं मानप्रदा स्वाहा ॐ श्रीं मान्या हसौः मतिः । ॐ श्रीं श्रीं भामिनी स्वाहा ॐ श्रीं मानक्षयङ्करी ॥ ७९॥ ॐ श्रीं मार्जारगम्या च ॐ श्रीं श्रीं मृगलोचना । ॐ श्रीं मरालमतिः ॐ श्रीं मुकुरा प्रीं च पूतना ॥ ८०॥ ॐ श्रीं परापरा च ॐ श्रीं परिवारसमुद्भवा । ॐ श्रीं पद्मवरा ऐं सौः पद्मोद्भवक्षयङ्करी ॥ ८१॥ ॐ प्रीं पद्मा हसौः पुण्यै ॐ प्रीं पुराङ्गना तथा । ॐ प्रीं पयोदृशदृशी ॐ प्रीं परावतेश्वरी ॥ ८२॥ ॐ पयोधरनम्रङ्गी ॐ ध्रीं धाराधरप्रिया । ॐ धृति ऐं दया स्वाहा ॐ ॐ श्रीं क्रीं श्रीं दयावती ॥ ८३॥ ॐ श्रीं द्रुतगतिः स्वाहा ॐ द्रीं द्रं वनघातिनी । ॐ चं चर्माम्बरेशानी ॐ चं चण्डालरूपिणी ॥ ८४॥ ॐ चामुण्डाहसौः चण्डी ॐ चं क्रीं चण्डिकापयः । ॐ क्रीं चण्डप्रभा स्वाहा ॐ चं क्रीं चारुहासिनी ॥ ८५॥ ॐ क्रीं श्रीं अच्युतेष्टा ह्रीं चण्डमुण्डक्षयकरी । ॐ त्रीं श्रीं त्रितये स्वाहा ॐ श्रीं त्रिपुरभैरवी ॥ ८६॥ ॐ ऐं सौः त्रिपुरानन्दा ॐ ऐं त्रिपुरसूदिना । ॐ ऐं क्लीं सौः त्रिपुरध्यक्षा ऐं त्रौं श्रीं त्रिपुराऽऽश्रया ॥ ८७॥ ॐ श्रीं त्रिनयने स्वाहा ॐ श्रीं तारा वरकुला । ॐ श्रीं तुम्बुरुहस्ता च ॐ श्रीं मन्दभाषिणी ॥ ८८॥ ॐ श्रीं महेश्वरी स्वाहा ॐ श्रीं मोदकभक्षिणी । ॐ श्रीं मन्दोदरी स्वाहा ॐ श्रीं मधुरभाषिणी ॥ ८९॥ ॐ म्रीं श्रीं मधुरलापा ॐ श्रीं मोहितभाषिणी । ॐ श्रीं मातामही स्वाहा ॐ मान्या म्रीं मदालसा ॥ ९०॥ ॐ म्रीं मदोद्धता स्वाहा ॐ म्रीं मन्दिरवासिनी । ॐ श्रीं क्लीं षोडशारस्था ॐ म्रीं द्वादशरूपिणी ॥ ९१॥ ॐ श्रीं द्वादशपत्रस्था ॐ श्रीं अं अष्टकोणगा । ॐ म्रीं मातङ्गी हसौः श्रीं क्लीं मत्तमातङ्गगामिनी ॥ ९२॥ ॐ म्रीं मालापहा स्वाहा ॐ म्रीं माता हसौः सुधा । ॐ श्रीं सुधाकला स्वाहा ॐ श्रीं म्रीं मांसिनी स्वाहा ॥ ९३॥ ॐ म्रीं माला करी तथा ॐ म्रीं मालाभूषिता । ॐ म्रीं माध्वी रसापूर्णा ॐ श्रीं सूर्या हसौः सती ॥ ९४॥ ॐ ऐं सौः क्लीं सत्यरूपा ॐ श्रीं दीक्षाहसौः दरी । ॐ द्रीं दातॄप्रिया ह्रीं श्रीं दक्षयज्ञविनाशिनी ॥ ९५॥ ॐ दातृप्रसू स्वाहा ॐ श्रीं दाता हसौः पयः ॐ श्रीं ऐं सौः च सुमुखी ॐ ऐं सौः सत्यवारुणी ॥ ९६॥ ॐ श्रीं साडम्बरा स्वाहा ॐ श्रीं ऐं सौः सदागतिः । ॐ श्रीं सीता हसौः सत्या ॐ ऐं सन्तानशायिनी ॥ ९७॥ ॐ ऐं सौः सर्वदृष्टिश्च ॐ क्रीं कल्पान्तकारिणी । ॐ श्रीं चन्द्रकल्लधरा ॐ ऐं श्रीं पशुपालिनी ॥ ९८॥ ॐ श्रींशिशुप्रिया ऐं सौः शिशूत्सङ्गनिवेशिता । ॐ ऐं सौः तारिणी स्वाहा ॐ ऐं क्लीं तामसी तथा॥ ९९॥ ॐ म्रीं मोहान्धकारघ्नी ॐ म्रीं मत्तमनास्तथा । ॐ म्रीं श्रीं माननीया च ॐ प्रीं पूजाफलदा ॥ १००॥ ॐ श्रीं श्रीं श्रीफला स्वाहा ॐ श्रीं क्लीं सत्यरूपिणी । ॐ श्रीं नारायणी स्वाहा ॐ श्रीं नूपुराकिला ॥ १०१॥ ॐ म्रीं श्रीं नारसिंही च ॐ म्रीं नारायाणप्रिया । ॐ म्रीं हंसगतिः स्वाहा ॐ श्रीं हंसौ हसौः पयः ।१०२॥ ॐ श्रीं क्रीं करवालेष्टा ॐ क्रीं कोटरवासिनी ॥ ॐ क्रीं काञ्चनभूषाढ्या ॐ क्रीं श्रीं कुरीपयः ॥ १०३॥ ॐ क्रीं शशिरूपा च श्रीं सः सूर्यरूपिणी । ॐ श्रीं वामप्रिया स्वाहा ॐ वीं वरुणपूजिता ॥ १०४॥ ॐ वीं वटेश्वरी स्वाहा ॐ वीं वामनरूपिणी । ॐ रं व्रीं श्रीं खेचरी स्वाहा ॐ रं व्रीं श्रीं साररूपिणी ॥ १०५॥ ॐ रं ब्रीं खड्गधारिणी स्वाहा ॐ रं ब्रीं खप्परधारिणी । ॐ रं ब्रीं खर्परयात्रा च ॐ प्रीं प्रेतालया तथा ॥ १०६॥ ॐ श्रीं क्लीं प्रीं च दूतात्मा ॐ प्रीं पुष्पवर्द्धिनी । ॐ श्रीं श्रीं सान्तिदा स्वाहा ॐ प्रीं पातालचारिणी ॥ १०७॥ ॐ म्रीं मूकेश्वरी स्वाहा ॐ श्रीं श्रीं मन्त्रसागरा । ॐ श्रीं क्रीं क्रयदा स्वाहा ॐ क्रीं विक्रयकारिणी ॥ १०८॥ ॐ क्रीं क्रयात्मिका स्वाहा ॐ क्रीं श्रीं क्लीं कृपावती । ॐ क्रीं श्रीं ब्रां विचित्राङ्गी ॐ श्रींक्लीं वीं विभावरी ॥ १०९॥ ॐ वीं श्रीं विभावसुनेत्रा ॐ वीं श्रीं वामकेश्वरी । ॐ श्रीं वसुप्रदा स्वाहा ॐ श्रीं वैश्रवणार्चिता ॥ ११०॥ ॐ भैं श्रीं भाग्यदा स्वाहा ॐ भैं भैं भगमालिनी । ॐ भैं श्रीं भगोदरा स्वाहा ॐ भैं क्लीं वैन्दवेश्वरी ॥ १११॥ ॐ भैं श्रीं भवमध्यस्था ऐं क्लीं त्रिपुरसुन्दरी । ॐ श्रीं क्रीं भीतिहर्त्री च ॐ भैं भूतभयङ्करी ॥ ११२॥ ॐ भैं भयप्रदा भैं श्रीं भगिनी भैं भयापहा । ॐ ह्रीं श्रीं भोगदा स्वाहा श्रीं क्लीं ह्रीं भुवनेश्वरी ॥ ११३॥ इति श्रीदेवदेवेशि ! नाम्ना साहस्रकोत्तमः । मन्त्रगर्भं परं रम्यं गोप्यं श्रीदं शिवात्मकम् ॥ ११४॥ माङ्गल्यं भद्रद सेव्यं सर्वरोगक्षयङ्करम् । सर्वदारिद्रयराशिघ्नं सर्वामरप्रपूजितम् ॥ ११५॥ रहस्यं सर्वदेवानां रहस्यं सर्वदेहिनाम् । दिव्यं स्तोत्रमिदं नाम्नां सहस्रमनुभिर्युतम् ॥ ११६॥ परापरं मनुमयं परापररहस्यकम् । इदं नाम्नां सहस्राख्यं स्तवं मन्त्रमयं परम् ॥ ११७॥ पठनीयं सदा देवि ! शून्यागारे चतुष्पथे । निशीथे चैव मध्याह्ने लिखेद् यत्नेन देशिकः ॥ ११८॥ गन्धैश्च कुसुमैश्चैव कर्पूरेण च वासितैः । कस्तूरीचन्दनैर्देवि ! दूर्वया च महेश्वरी ! ॥ ११९॥ रजस्वलाया रक्तेन लिखेन्नाम्नां सहस्रकम् । लिखित्वा धारयेन्मूर्ध्नि साधकः सुभवाञ्छकः ॥ १२०॥ यं यं कामयते कामं तं तं प्राप्नोति लीलया । अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् ॥ १२१॥ कन्यार्थी लभते कन्यां विद्यार्थी शास्त्रपारगः । वन्ध्या पुत्रयुता देवि ! मृतवत्सा तथैव च ॥ १२२॥ पुरुषो दक्षिणे बाहौ योषिद् वामकरे तथा । धृत्वा नाम्नां सहस्रं तु सर्वसिद्धिर्भवेद् ध्रुवम् ॥ १२३॥ नात्र सिद्धाद्यपेक्षाऽस्ति न वा मित्रारिदूषणम् । सर्वसिद्धिकृतं चैतत् सर्वाभीष्टफलप्रदम् ॥ १२४॥ मोहान्धकारापहरं महामन्त्रमयं परं । इदं नाम्नां सहस्रं तु पठित्वा त्रिविधं दिनम् ॥ १२५॥ रात्रौ वारत्रयं चैव तथा मासत्रयं शिवे ! । बलिं दद्याद् यथाशक्त्या साधकः सिद्धिवाञ्छकः ॥ १२६॥ सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा। पञ्चम्यां च नवम्यां च चतुर्दश्यां विशेषतः ॥ १२७॥ पठित्वा साधको दद्याद् बलिं मन्त्रविधानवित् । कर्मणा मनसा वाचा साधको भैरवो भवेत् ॥ १२८॥ अस्य नाम्नां सहस्रस्य महिमानं सुरेश्वरि !। वक्तुं न शक्यते देवि ! कल्पकोटिशतैरपि ॥ १२९॥ मारीभये चौरभये रणे राजभये तथा । अग्निजे वायुजे चैव तथा कालभये शिवे !॥ १३०॥ वनेऽरण्ये श्मशाने च महोत्पाते चतुष्पथे । दुर्भिक्षे ग्रहपीडायां पठेन्नाम्नां सहस्रकम् ॥ १३१॥ तत् सद्यः प्रशमं याति हिमवद्भास्करोदये । एकवारं पठेत् पात्रः तस्य शत्रुर्न जायते ॥ १३२॥ त्रिवारं सुपठेद् यस्तु स तु पूजाफलं लभेत् । दशावर्तं पठेत् यस्तु देवीदर्शनमाप्नुयात् ॥ १३३॥ शतावतं पठेद् यस्तु स सद्यो भैरवोपमः । इदं रहस्यं परमं तव प्रीत्या मया स्मॄतम् ॥ १३४॥ गोपनीयं प्रयत्नेन चेत्याज्ञा परमेश्वरि ! । नाभक्तेभ्यस्तु दातव्यो गोपनीयं महेश्वरि ॥ १३५॥ ॥ इति श्रीभुवनेश्वरीरहस्ये श्रीभुवनेश्वरीमन्त्रगर्भसहस्रनामकं सम्पूर्णम् ॥