अक्षर आकार:

श्रीशिवकामसुन्दरीत्रिशतीनामस्तोत्रम्

Shri Shivakamasundari Trishati Nama Stotram

श्रीशिवकामसुन्दरीत्रिशतीनामस्तोत्रम्

पूर्वपीठिका कैलासमध्यश‍ृङ्गाग्रे कल्पवृक्षादिसङ्कुले । नानामृगगणाकीर्णे मन्दमारुतवीजिते ॥ १॥ पक्षिबृन्दरवोद्भूतमदनाधिक्यवैभवे । श‍ृङ्गारविपिने यासा पद्माकरसरस्तटे ॥ २॥ चिन्तामणिशिलाक्लृप्तहर्म्यप्राकारशोभिते । मणिमण्डपमध्ये च दिव्यसिंहासने शुभे ॥ ३॥ आसीनं लीलया जातु महादेवं स्मिताननम् । प्रणिपत्य मुदा गौरी प्रोवाच वचनं मधु ॥ ४॥ श्रीगौर्युवाच देवदेव महादेव नाथ सर्वज्ञ सर्वग । लोके व्याधिदरिद्राद्यैः पिशाचाद्यैश्च पीडिताः ॥ ५॥ सर्वे जनाः कथं तेभ्यो मुच्येरन् परमेश्वर । तदुपायं वदेशान लोकान् उद्धर्तुं आदरात् ॥ ६॥ इति पृष्टो गिरिजया शिवः सङ्कल्पवर्जितः । भद्रे साधु त्वया पृष्टं सर्वलोकहिताय माम् ॥ ७॥ वक्ष्याम्युपायं दारिद्र्यभयव्याधिविनाशनम् । धनधान्यायुरारोग्य-धर्मकामार्थमोक्षदम् ॥ ८॥ विद्याकीर्तिकरं नॄणां पठनादस्य सिद्धिदम् । नाम्नां त्रिशतसङ्ख्याकं स्तोत्रं मन्त्राक्षराङ्कितम् ॥ ९॥ शिवकामसुन्दरीदेव्याः शिवायाः परमेश्वरि । कथयामि तव स्नेहान्न प्रकाश्यं कदाचन ॥ १०॥ गोपनीयं प्रयत्नेन मर्मस्थलवदीश्वरि । शिरोऽपि दातुं युक्तं हि न तद्दातुं प्रयत्नतः ॥ ११॥ ऋषिर्ब्रह्माऽस्य गायत्रीच्छन्दः श्रीसुन्दरी शिवा । सहस्रनामवत्सर्वं कराङ्गन्यासकौ चरेत् ॥ १२॥ देवता कथिता चास्य स्तोत्रस्य हि वरानने । जितेन्द्रियो जितक्रोधश्चिन्तयेत् सुन्दरीं हृदि ॥ १३॥ ॥ ध्यानम् ॥ उद्यद्भास्करसन्निभां द्विनयनां हेमानानाब्जां चतु- र्हस्तैरम्बुजस्रक्शुकं कटिकरं सम्बिभ्रतीं शूलिनः । नृत्ताडम्बरधूर्वहां शिवमयीं पद्मासनाध्यासिनीं ध्यायेऽहं परमेश्वरीं हृदि सदा श्रीब्रह्यजायां शिवाम् ॥ १४॥ शिवकामसुन्दरीं श्यामां शिवां शिवकरीं शुभाम् । शिवकामकोष्ठनिलयां ध्यायेऽहं शिवमोहिनीम् ॥ १५॥ चिन्तितार्थफलदायिनीमुमां चित्तरङ्गतलनित्यवासिनीम् । चित्सभेश महिषीं सदाशिवां चिन्तयामि शिवकामसुन्दरीम् ॥ १६॥ इति ध्यात्वा महादेवीं मनसाभ्यर्च्य साधकः । लमित्यादिमवर्णैश्च पञ्च पूजाः ततः परम् ॥ ततः पठेत्स्तोत्रराजं सर्वसौभाग्यवर्धकम् ॥ १७॥ अथ त्रिशतनामस्तोत्रम् । ओतप्रोताण्डनिवहाऽप्योजस्वत्योघपूजिता । ओङ्कारगृहकर्पूरदीपिका चौदनप्रिया ॥ १॥ ओङ्कारपञ्जरशुकी चोङ्कारमनुवादिनी । ओङ्कारमध्यनिलयाऽप्योजोनाथसमर्चिता ॥ २॥ ओङ्कारवाच्या चोङ्कारमुख्या चोङ्काररूपिणी । ओङ्कारशुक्तिकामुक्तामणिश्चोङ्कारशब्दिता ॥ ३॥ चक्रहस्ता चतुर्वेदवेद्या चामीकरासना । चक्रायितसखीवृन्दा चन्द्रमण्डलमध्यगा ॥ ४॥ चञ्च्वग्रजितबिम्बाभशुकसङ्गीतमोदिनी । चण्डकोदण्डनिर्मुक्तबाणच्छन्नदिगन्तरा ॥ ५॥ चण्डकोपारुणमुखी चण्डभैरवमोहिनी । चण्डताण्डवपाण्डित्यप्रकाशनपटीयसी ॥ ६॥ चण्डनागपरीताङ्गी चण्डदैत्यशिरोहरा । चण्डमार्त्ताण्डधिक्कारिचन्द्रहासकराम्बुजा ॥ ७॥ चण्डरावशिवाबृन्दनिर्जिताम्भोधिनिस्स्वना । चतुराननसम्पूज्या चतुरा चतुरार्चिता ॥ ८॥ चन्द्रिकासितदंष्ट्राग्रा चन्दनद्रवभूषिता । चम्पकाशोकपुन्नागपुष्पमालालसत्कचा ॥ ९॥ चराचरोद्भवा चारुहासा चर्माम्बरप्रिया । चापबाणगदाखड्गशङ्खचक्रलसत्करा ॥ १०॥ चामरग्राहिणीवाणीरमेन्द्राणीसमावृता । चामुण्डा चण्डिका चण्डमुण्डासुरविनाशिनी ॥ ११॥ चारुहीरमणीभास्वत्किरीटा चक्रवर्तिनी । चित्रलेखा चित्ररथा चित्रलेखापितॄ(पती)डिता ॥ १२॥ चित्रसेनस्तुता चित्रयुद्धनिर्जितदानवा । चित्रांशुका चित्रकर्मा चित्रानक्षत्रपूजिता ॥ १३॥ चिदानन्दप्रदा चित्रा चित्रनृत्तपरायणा । चिन्ताधिकप्रदा चिन्त्या चिदम्बरनिवासिनी ॥ १४॥ चिरञ्जीविसमाराध्या चिन्मयी चिद्विलासिनी । चिरन्तनी चिदाकाशमध्यगा चित्स्वरूपिणी ॥ १५॥ चिम्बीजा चणकप्रीता चणन्नूपुरपादुका । डाकिनी डमरुस्वानभीषणा डाकिनीश्वरी ॥ १६॥ डाडिमीकुसुमप्रीता डाडिमीमधुलम्पटा । डामरी डामरीतन्त्ररूपा डुण्डिसमर्चिता ॥ १७॥ डामरीमुख्यशक्त्यौघपरिष्कृतनिकेतना । डम्बाडम्बमनोहारी डिम्बोन्मत्तविनाशिनी ॥ १८॥ ढक्काध्वनिसमुत्पन्नशब्दसर्वस्वतन्त्रिणी । ढक्कानिनदसम्मुह्यद्देवराजाभयङ्करी ॥ १९॥ नकुलीध्वस्तनागालिर्नकुली नकुलेश्वरी । नखाग्रविलसद्विष्णुदशाकारा नटेश्वरी ॥ २०॥ नटराजाङ्गना नाट्यकोविदा नागरार्चिता । नम्रदिक्पालवनिता नमदानन्ददायिनी ॥ २१॥ नरकत्राणनोद्युक्ता नन्द्यावर्तसुमप्रिया । नरसिंहगलोन्मुक्तरुधिरास्वादनप्रिया ॥ २२॥ नागकन्यापरिवृता नागासुरविमर्दिनी । नागाननसुता नागवाहा नरशवासना ॥ २३॥ नाद ब्रह्ममयी नित्यनिर्वाणसुखदायिनी । नाममन्त्रजपप्रीतिकारिणी नागभूषणा ॥ २४॥ नामरूपधरा नानावेदशास्रार्थदर्शिनी । नारायणी नामरूपवर्जिता नरवाहना ॥ २५॥ नारी नरेन्द्रसम्पूज्या नगराजनिकेतना । नालीकलोचना नन्दिविद्या नगसुता नटी ॥ २६॥ नासास्तब्धमरुच्चण्डवेगा नगरपालिनी । निर्मला निरहङ्कारा निजभक्ताखिलेष्टदा ॥ २७॥ निस्सारा नियतिर्नित्या निर्लोभा निरवग्रहा । नौकारूढा नीतसुधावार्धिभक्तजनप्रिया ॥ २८॥ बृन्दानाथशिरोहर्त्री बृन्दामोहितमाधवा । बृन्दारकवधूबृन्दसेनास्तिमिततापसा ॥ २९॥ बृन्दारकारिदर्पघ्नी बृहत्सेनासमावृता । बृन्दारकेशविलसद्वेणुनादकृतादरा ॥ ३०॥ बृहच्छूलशिरः प्रोतशुम्भदैत्यभयङ्करी । बृहतीक्कणनोद्युक्तनारदर्षिसमर्चिता ॥ ३१॥ बृहन्मद्दलभृच्चक्रपाणिसन्नुतवैभवा । बृहस्पतिसमाराध्या ब्राह्मी ब्रह्मैक्यरूपिणी ॥ ३२॥ ब्रह्मजा बृहदैश्वर्यदायिनी ब्रूम्मनुप्रिया । ब्रह्मजाया ब्रह्मबीजा ब्रह्माणी ब्रह्मवादिनी ॥ ३३॥ ब्रह्मज्ञा ब्रह्मजननी ब्रह्मज्ञानप्रदायिनी । ब्रह्मदेवलयासक्तताण्डवोद्दण्डपण्डिता ॥ ३४॥ ब्रह्मपञ्चकसंरूढा ब्रह्माण्डान्तकराम्बुजा । ब्रह्ममाया ब्रह्मशीर्षमालामण्डनमण्डिता ॥ ३५॥ ब्रह्मयज्ञपराधीनहृदया ब्रह्मवित्प्रिया । ब्रह्मविद्या बृहद्रूपा बृहती ब्राह्मणप्रिया ॥ ३६॥ ब्रह्मविष्णुमुखोद्गीतवैभवा ब्राह्मणार्चिता । ब्रह्मशीर्षहरा ब्रह्मकपालवरधारिणी ॥ ३७॥ ब्रह्महीनमखासक्तदक्षमुख्यविनाकृता । ब्रह्माण्डनिवहोद्भेदताण्डवेश्वरवादिनी ॥ ३८॥ ब्रह्माण्डसाक्षिणी ब्रह्ममोदिनी ब्रह्म एव च । ब्राह्मी माहेश्वरीमुख्यशक्तिव्याप्त सभाङ्गणा ॥ ३९॥ मदिरास्वादरसिका मधुरा मधुवैरिणी । मनोतिगा मनोगम्या मतङ्गतनया मधुः ॥ ४०॥ मनोवागपरिच्छिन्ना महात्रिपुरसुन्दरी । मन्त्रिणी मन्त्रतन्त्रज्ञा महागायत्रिरूपिणी ॥ ४१॥ महती मदनानन्दकारिणी मनुपूजिता । महनीया मही मन्दगमना मधुरस्वना ॥ ४२॥ महर्षिगणसम्पूज्या महाराज्ञी मनोन्मनी । महाकाली महालक्ष्मीः महावाणी महाकृतिः ॥ ४३॥ महादेवाङ्कपर्यङ्का महावाक्यार्थगोचरा । महादेवी महोत्साहा मरालीगतिदेशिका ॥ ४४॥ महामणिघटाकारकिरीटा मञ्जुभाषिणी । महामाया महाघोरस्वप्नवाराहिरूपिणी ॥ ४५॥ महामारी महातिल्ववनमध्यनिकेतना । महाश्मशाननटनरसिका मधुपायिनी ॥ ४६॥ महिमालब्धसिद्धीन्द्रमुख्यादृष्टस्वरूपिणी । माणिक्यवीणासंलापा मारान्तकविमोहिनी ॥ ४७॥ माणिभद्रस्तुता मान्या मानिनी मानवर्जिता । माध्यन्दिनफणीशानजैमिनिस्तुतनर्तना ॥ ४८॥ मारी मातङ्गिनी माता महाशैलशरीरजा । मांसपूजापरा मांसभक्षिणी माषलम्पटा ॥ ४९॥ माहेन्द्रजालचतुरा महादुर्गा महेश्वरी । मीनाक्षी मिथुनाकारा मदनी मादिपञ्चका ॥ ५०॥ मुकुन्दसहजा मुद्रामुख्या मूकत्वनाशिनी । मुक्ताहारलसद्ग्रीवा मुचुकुन्दनृपार्चिता ॥ ५१॥ मुदिता मुण्डशयनी मुक्तिदा मुरशासना । मूर्ता मूर्खत्वशमनी मूलविद्यास्वरूपिणी ॥ ५२॥ मूलाधारादिषट्चक्रनिलया मूलमन्त्रवित् । मूम्बीजा मूर्धसम्बद्धपुष्पमालाविराजिता ॥ ५३॥ मृडानी मृगयासक्ता मृगेन्द्रार्द्राजिनच्छदा । मोहान्धकारमार्ताण्डा मोक्षदानपरायणा ॥ ५४॥ मोदिनीपृष्टवाग्देवताष्टकस्तुतवैभवा । शिवकामसुन्दरी देवी शिवदा शिववामगा ॥ ५५॥ हयाननमुखोद्भूतपुराणमहिमोज्ज्वला । हयारूढादिसंसेव्या हीरदंष्ट्रा हलायुधा ॥ ५६॥ हरमानससम्मोहश‍ृङ्गाररसवारिधिः । हरलीलाविनोदज्ञा हारिणी हरिणेक्षणा ॥ ५७॥ हराग्निदग्धकन्दर्पजीवनापाङ्गलोचना । हरार्धाङ्गहरा हेयदेयोपादेयवर्जिता ॥ ५८॥ हराङ्कनिलया हृद्या हृदयाकाशमध्यगा । हरिणाङ्कधरा हादिविद्या हरिसहोदरी ॥ ५९॥ हरिद्राचूर्णसम्पूर्णचरणा ह्रीम्मनुप्रिया । हरिनाभिसरोजोद्यत्पद्म संस्तुतयोगिनी ॥ ६०॥ हरिब्रह्मादिमकुटनीराजितपदाम्बुजा । हरिब्रह्मेन्द्रविनुता हेलानिर्जितदानवा ॥ ६१॥ हरिशङ्करसम्मुह्यद्दारुकारण्यतापसा । हरेन्द्वमृतसञ्जीवद्ब्रह्मशीर्षालिगायका ॥ ६२॥ हर्यक्षवाहनारूढा हेलाकलितविग्रहा । हाकिनी हलिकृष्णेड्या हंसमन्त्रस्वरूपिणी ॥ ६३॥ हारायितफणीरत्नन प्रभाजितहिमांशुका । हालाहलाग्रिसन्तप्तदेवत्राणामृतेश्वरी ॥ ६४॥ हासोद्यत्कालिकाभुक्तरक्तबीजासुरा हरा । हाहाकाररवाक्रन्दन्महिषासुरमर्दिनी ॥ ६५॥ हिमाद्रितनया हंसवाहा हानिविवर्जिता । हेमघण्टालिझङ्कारजितकल्पाशनिध्वनिः ॥ ६६॥ हेमपद्मधरा हस्तचतुरा हेमकञ्चुकी । हेमाद्रितुङ्गश‍ृङ्गाग्रमणिमण्डपमध्यगा ॥ ह्रीम्बीजेत्यन्तनाम्नां च त्रिशतं कथितं तव ॥ ६७॥ उत्तरपीठिका शिवकामसुन्दरीनामान्येतानि शुभदानि हि । सर्वसौभाग्यदं पुण्यं विघ्नध्वान्तनभोमणिम् ॥ ६८॥ आयुष्करं कीर्तिकरं तुष्टिदं पुष्टिदं प्रिये । विद्याबुद्धिप्रदं नृणां सकृत्स्मरणमात्रतः ॥ ६९॥ यो जपित्वा महामन्त्रं शिवकाम्याः सहस्रकम् । त्रिशतं वा यथाशक्ति पठेत्सर्वार्थदायकम् ॥ ७०॥ यदिष्टं सा ददात्येव सद्य एव न संशयः । शुक्रवारे तथा भौमवारे पर्वणि वा प्रिये ॥ ७१॥ कृष्णाङ्गारचतुर्दश्यामष्टम्यां च विशेषतः । पद्मैर्वाऽन्यसुमैर्बिल्वैर्हरिद्राकुङ्कुमैः प्रिये ॥ ७२॥ एभिः समर्चयेद्देवीं नामभिः साधकोत्तमः । मूर्तौ वा यन्त्रराजे वा घटे वाऽऽवाह्य सुन्दरीम् ॥ ७३॥ अचिरादेव विन्देत वागीशत्वं सुलोचने । श्रीशत्वं सर्वसिद्धीनां नायकत्वं लभेद् धुवम् ॥ ७४॥ भूतप्रेतपिशाचानां स्मरणाद् भीतिकारणम् । यो विप्रश्शान्तहृदयो नित्यं निष्कामनायुतः ॥ ७५॥ आवर्तयेदिदं स्तोत्रं तस्य श्रीमत्कृपाबलात् । इह भुक्त्वाऽखिलान् भोगान् सोऽन्ते जन्मादिवर्जितम् ॥ ७६॥ जीवब्रह्मैक्यचिद्रूपपदं प्राप्नोत्यसंशयः । एतत्स्तोत्रोपमं स्तोत्रं नान्यदस्ति हि सुव्रते ॥ ७७॥ मयापि तत्फलं वक्तुं न शक्यं केन वा शिवे । तस्मादिदं गोपनीयं च प्रकाश्यं प्रयत्नतः । किं भूयश्श्रोतुकामासि श‍ृङ्गाराब्धिसुधाकरे ॥ ७८॥ इति भृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्री शिवकामसुन्दरीत्रिशतनामस्तोत्रं सम्पूर्णम् ॥