अक्षर आकार:

श्रीशिवकामसुन्दरीत्रिशतीनामावलिः

Shri Shivakamasundari Trishati Namavalih

श्रीशिवकामसुन्दरीत्रिशतीनामावलिः

ॐ ओतप्रोताण्डनिवहायै नमः । ओजस्वत्यै नमः । ओघपूजितायै नमः । ओङ्कारगृहकर्पूरदीपिकायै नमः । ओदनप्रियायै नमः । ओङ्कारपञ्जरशुक्यै नमः । ओङ्कारमनुवादिन्यै नमः । ओङ्कारमध्यनिलयायै नमः । ओजोनाथसमर्चितायै नमः । ओङ्कारवाच्यायै नमः । ओङ्कारमुख्यायै नमः । ओङ्काररूपिण्येनमः । ओङ्कारशुक्तिकामुक्तामणये नमः । ओङ्कारशब्दितायै नमः । चक्रहस्तायै नमः । चतुर्वेदवेद्यायै नमः । चामीकरासनायै नमः । चक्रायितसखीवृन्दायै नमः । चन्द्रमण्डलमध्यगायै नमः । चञ्च्वग्रजितबिम्बाभशुकसङ्गीतमोदिन्यै नमः । २० ॐ चण्डकोदण्डनिर्मुक्तबाणच्छन्नदिगन्तरायै नमः । चण्डकोपारुणमुख्यै नमः । चण्डभैरवमोहिन्यै नमः । चण्डताण्डवपाण्डित्यप्रकाशनपटीयस्यै नमः । चण्डनागपरीताङ्ग्यै नमः । चण्डदैत्यशिरोहरायै नमः । चण्डमार्ताण्डधिक्कारिचन्द्रहासकराम्बुजायै नमः । चण्डरावशिवाबृन्दनिर्जिताम्भोधिनिस्वनायै नमः । चतुराननसम्पूज्यायै नमः । चतुरायै नमः । चतुरार्चितायै नमः । चन्द्रिकासितदंष्ट्राग्रायै नमः । चन्दनद्रवभूषितायै नमः । चम्पकाशोकपुन्नागपुष्पमालालसत्कचायै नमः । चराचरोद्भवायै नमः । चारुहासायै नमः । चर्माम्बरप्रियायै नमः । चापबाणगदाखड्गशङ्खचक्रलसत्करायै नमः । चामरग्राहिणीवाणीरमेन्द्राणीसमावृतायै नमः । चामुण्डायै नमः । ४० ॐ चण्डिकायै नमः । चण्डमुण्डासुरविनाशिन्यै नमः । चारुहीरमणी भास्वत्किरीटायै नमः । चक्रवर्तिन्यै नमः । चित्रलेखायै नमः । चित्ररथायै नमः । चित्रलेखापितॄ(पती)डितायै नमः । चित्रसेनस्तुतायै नमः । चित्रयुद्धनिर्जितदानवायै नमः । चित्रांशुकायै नमः । चित्रकर्मणे नमः । चित्रानक्षत्रपूजितायै नमः । चिदानन्दप्रदायै नमः । चित्रायै नमः । चित्रनृत्तपरायणायै नमः । चिन्ताधिकप्रदायै नमः । चिन्त्यायै नमः । चिदम्बरनिवासिन्यै नमः । चिरञ्जीविसमाराध्यायै नमः । चिन्मय्यै नमः । ६० ॐ चिद्विलासिन्यै नमः । चिरन्तन्यै नमः । चिदाकाशमध्यगायै नमः । चित्स्वरूपिण्यै नमः । चिं बीजायै नमः । चणकप्रीतायै नमः । चणन्नूपुरपादुकायै नमः । डाकिन्यै नमः । डमरुस्वानभीषणायै नमः । डाकिनीश्वर्यै नमः । डाडिमीकुसुमप्रीतायै नमः । डाडिमीमधुलम्पटायै नमः । डामर्यै नमः । डामरीतन्त्ररूपायै नमः । डुण्डिसमर्चितायै नमः । डामरीमुख्यशक्त्यौघपरिष्कृतनिकेतनायै नमः । डम्बाडम्बमनोहार्यै नमः । डिम्बोन्मत्तविनाशिन्यै नमः । ढक्काध्वनिसमुत्पन्नशब्दसर्वस्वतन्त्रिण्यै नमः । ढक्कानिनदसम्मुह्यद्देवराजाभयङ्कर्यै नमः । ८० ॐ नकुलीध्वस्तनागालये नमः । नकुल्यै नमः । नकुलेश्वर्यै नमः । नखाग्रविलसद्विष्णुदशाकारायै नमः । नटेश्वर्यै नमः । नटराजाङ्गनायै नमः । नाट्यकोविदायै नमः । नागरार्चितायै नमः । नम्रदिक्पालवनितायै नमः । नमदानन्ददायिन्यै नमः । नरकत्राणनोद्युक्तायै नमः । नन्द्यावर्तसुमप्रियायै नमः । नरसिंहगलोन्मुक्तरुधिरास्वादनप्रियायै नमः । नागकन्यापरिवृतायै नमः । नागासुरविमर्दिन्यै नमः । नागाननसुतायै नमः । नागवाहायै नमः । नटशवासनायै नमः । नादब्रह्ममय्यै नमः । नित्यनिर्वाणसुखदायिन्यै नमः ॥ १०० ॐ नाममन्त्रजपप्रीतिकारिण्यै नमः । नागभूषणायै नमः । नामरूपधरायै नमः । नानावेदशास्रार्थदर्शिन्यै नमः । नारायण्यै नमः । नामरूपवर्जितायै नमः । नरवाहनायै नमः । नार्यै नमः । नरेन्द्रसम्पूज्यायै नमः । नगराजनिकेतनायै नमः । नालीकलोचनायै नमः । नन्दिविद्यायै नमः । नगसुतायै नमः । नट्यै नमः । नासास्तब्धमरुच्चण्डवेगायै नमः । नगरपालिन्यै नमः । निर्मलायै नमः । निरहङ्कारायै नमः । निजभक्ताखिलेष्टदायै नमः । निस्सारायै नमः । १२० ॐ नियत्यै नमः । नित्यायै नमः । निर्लोभायै नमः । निरवग्रहायै नमः । नौकारूढायै नमः । नीतसुधावार्धिभक्तजनप्रियायै नमः । बृन्दानाथशिरोहर्त्र्यै नमः । बृन्दामोहितमाधवायै नमः । बृन्दारकवधू बृन्दसेनास्तिमिततापसायै नमः । बृन्दारकारिदर्पघ्न्यै नमः । बृहत्सेनासमावृतायै नमः । बृन्दारकेशविलसद्वेणुनादकृतादरायै नमः । बृहच्छूलशिरः प्रोतशुम्भदैत्यभयङ्कर्यै नमः । बृहतीक्कणनोद्युक्तनारदर्षिसमर्चितायै नमः । बृहन्मद्दलभृच्चक्रपाणिसन्नुतवैभवायै नमः । बृहस्पतिसमाराध्यायै नमः । ब्राह्म्यै नमः । ब्रह्मैक्यरूपिण्यै नमः । ब्रह्मजायै नमः । बृहदैश्वर्यदायिन्यै नमः । १४० ॐ ब्रूम्मनुप्रियायै नमः । ब्रह्मजायायै नमः । ब्रह्मबीजायै नमः । ब्रह्माण्यै नमः । ब्रह्मवादिन्यै नमः । ब्रह्मज्ञायै नमः । ब्रह्मजनन्यै नमः । ब्रह्मज्ञानप्रदायिन्यै नमः । ब्रह्मदेवलयासक्तताण्डवोद्दण्डपण्डितायै नमः । ब्रह्मपञ्चकसंरूढायै नमः । ब्रह्माण्डान्तकराम्बुजायै नमः । ब्रह्ममायायै नमः । ब्रह्मशीर्षमालामण्डलमण्डितायै नमः । ब्रह्मयज्ञपराधीनहृदयायै नमः । ब्रह्मवित्प्रियायै नमः । ब्रह्मविद्यायै नमः । बृहद्रूपायै नमः । बृहत्यै नमः । ब्राह्मणप्रियायै नमः । ब्रह्मविष्णुमुखोद्गीतवैभवायै नमः । १६० ॐ ब्राह्मणार्चितायै नमः । ब्रह्मशीर्षहरायै नमः । ब्रह्मकपालवरधारिण्यै नमः । ब्रह्महीनमखासक्तदक्षमुख्यविनाकृतायै नमः । ब्रह्माण्डनिवहोद्भेदताण्डवेश्वरवादिन्यै नमः । ब्रह्माण्डसाक्षिण्येनमः । ब्रह्ममोदिन्यै नमः । ब्रह्मणे नमः । ब्राह्म्यै नमः । माहेश्वरीमुख्यशक्तिव्याप्तसभाङ्गणायै नमः । मदिरास्वादरसिकायै नमः । मधुरायै नमः । मधुवैरिण्यै नमः । मनोतिगायै नमः । मनोगम्यायै नमः । मतङ्गतनयायै नमः । मधवे नमः । मनोवागपरिच्छिन्नायै नमः । महात्रिपुरसुन्दर्यै नमः । मन्त्रिण्यै नमः । १८० ॐ मन्त्रतन्त्रज्ञायै नमः । महागायत्रिरूपिण्यै नमः । महत्यै नमः । मदनानन्दकारिण्यै नमः । मनुपूजितायै नमः । महनीयायै नमः । मह्यै नमः । मन्दगमनायै नमः । मधुरस्वनायै नमः । महर्षिगणसम्पूज्यायै नमः । महाराज्ञ्यै नमः । मनोन्मन्यै नमः । महाकाल्यै नमः । महालक्ष्म्यै नमः । महावाण्यै नमः । महाकृत्यै नमः । महादेवाङ्कपर्यङ्कायै नमः । महावाक्यार्थ गोचरायै नमः । महादेव्यै नमः । महोत्साहायै नमः । २०० ॐ मरालीगतिदेशिकायै नमः । महामणिघटाकारकिरीटायै नमः । मञ्जुभाषिण्यै नमः । महामायायै नमः । महाघोरस्वप्नवाराहिरूपिण्यै नमः । महामार्यै नमः । महातिल्ववनमध्यनिकेतनायै नमः । महाश्मशाननटनरसिकायै नमः । मधुपायिन्यै नमः । महिमालब्धसिद्धीन्द्रमुख्यादृष्टस्वरूपिण्यै नमः । माणिक्यवीणासंलापायै नमः । मारान्तकविमोहिन्यै नमः । माणिभद्रस्तुतायै नमः । मान्यायै नमः । मानिन्यै नमः । मानवर्जितायै नमः । माध्यन्दिनफणीशानजैमिनिस्तुतनर्तनायै नमः । मार्यै नमः । मातङ्गिन्यै नमः । मात्रे नमः । २२० ॐ महाशैलशरीरजायै नमः । मांसपूजापरायै नमः । मांसभक्षिण्यै नमः । माषलम्पटायै नमः । माहेन्द्रजालचतुरायै नमः । महादुर्गायै नमः । महेश्वर्यै नमः । मीनाक्ष्यै नमः । मिथुनाकारायै नमः । मदन्यै नमः । मादिपञ्चकायै नमः । मुकुन्दसहजायै नमः । मुद्रामुख्यायै नमः । मूकत्वनाशिन्यै नमः । मुक्ताहारलसद्ग्रीवायै नमः । मुचुकुन्दनृपार्चितायै नमः । मुदितायै नमः । मुण्डशयन्यै नमः । मुक्तिदायै नमः । मुरशासनायै नमः । २४० ॐ मूर्तायै नमः । मूर्खत्वशमन्यै नमः । मूलविद्यास्वरूपिण्यै नमः । मूलाधारादिषट्चक्रनिलयायै नमः । मूलमन्त्रविदे नमः । मूम्बीजायै नमः । मूर्धसम्बद्धपुष्पमालाविराजितायै नमः । मृडान्यै नमः । मृगयासक्तायै नमः । मृगेन्द्रार्द्राजिनच्छदायै नमः । मोहान्धकारमार्ताण्डायै नमः । मोक्षदानपरायणायै नमः । मोदिनीपृष्टवाग्देवताष्टकस्तुतवैभवायै नमः । शिवकामसुन्दरीदेव्यै नमः । शिवदायै नमः । शिववामगायै नमः । हयाननमुखोद्भूतपुराणमहिमोज्ज्वलायै नमः । हयारूढादिसंसेव्यायै नमः । हीरदंष्ट्रायै नमः । हलायुधायै नमः । २६० ॐ हरमानससम्मोहश‍ृङ्गाररसवारिधये नमः । हरलीलाविनोदज्ञायै नमः । हारिण्यै नम । हरिणेक्षणायै नमः । हराग्निदग्धकन्दर्पजीवनापाङ्गलोचनायै नमः । हरार्धाङ्गहरायै नमः । हेयदेयोपादेयवर्जितायै नमः । हराङ्कनिलयायै नमः । हृद्यायै नमः । हृदयाकाशमध्यगायै नमः । हरिणाङ्कधरायै नमः । हादिविद्यायै नमः । हरिसहोदर्यै नमः । हरिद्राचूर्णसम्पूर्णचरणायै नमः । ह्रीम्मनुप्रियायै नम । हरिनाभिसरोजोद्यद्ब्रह्मसंस्तुतयोगिन्यै नमः । हरिब्रह्मादिमकुटनीराजितपदाम्बुजायै नमः । हरिब्रह्मेन्द्रविनुतायै नमः । हेलानिर्जितदानवायै नमः । हरिशङ्करसम्मुह्यद्दारुकारण्यतापसायै नमः । २८० ॐ हरेन्द्वमृतसञ्जीवद्ब्रह्मशीर्षालिगायकायै नमः । हर्यक्षवाहनारूढायै नमः । हेलाकलितविग्रहायै नमः । हाकिन्यै नमः । हलिकृष्णेड्यायै नमः । हंसमन्त्रस्वरूपिण्यै नमः । हारायितफणीरत्नप्रभाजितहिमांशुकायै नमः । हालाहलाग्निसन्तप्तदेवत्राणामृतेश्वर्यै नमः । हासोद्यत्कालिकाभुक्तरक्तबीजासुरायै नमः । हरायै नमः । हाहाकाररवाक्रन्दन्महिषासुरमर्दिन्यै नमः । हिमाद्रितनयायै नमः । हंसवाहायै नमः । हानिविवर्जितायै नमः । हेमघण्टालिझङ्कारजितकल्पाशनिध्वन्यै नमः । हेमपद्मधरायै नमः । हस्तचतुरायै नमः । हेमकञ्चुक्यै नमः । हेमाद्रितुङ्गश‍ृङ्गाग्रमणिमण्डपमध्यगायै नमः । ह्रीं बीजायै नमः । ३०० इति श्रीशिवकामसुन्दरीत्रिशतीनामावलिः समाप्ता ॥