अक्षर आकार:

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्

shrIshivakAmasundarIsahasranamastotram from Rudrayamala

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्

॥ पूर्वपीठिका ॥ समाहूय परं कान्तं एकदा विजने मुदा । परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥ पार्वती उवाच श्रीमन्नाथ महानन्दकारणं ब्रूहि शङ्कर । योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ॥ २॥ कृपास्ति मयि चेत् शम्भो सुगोप्यमपि कथ्यताम् । शिवकामेश्वरीनामसाहस्रं वद मे प्रभो ॥ ३॥ श्रीशङ्कर उवाच निर्भरानन्दसन्दोहः शक्तिभावेन जायते । लावण्यसिन्धुस्तन्नापि सुन्दरी रसकन्धरा ॥ ४॥ तामेवानुक्षणं देवि चिन्तयामि ततः शिवे । तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ५॥ सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् । तामेव स्तुवता देवीं ध्यायतोऽनुक्षणं मम । सुखसन्दोहसम्भारभावनानन्दकारणम् ॥ ६॥ अस्य श्रीशिवकामसुन्दरीसहस्रनाम स्तोत्रमहामन्त्रस्य । सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीमच्छिवकामसुन्दरी देवता । वाग्भवस्वरूपं ऐं बीजम् । चिदानन्दात्मकं ह्रीं शक्तिः । कामराजात्मकं क्लीं कीलकम् । श्रीमच्छिवकामसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ षोडशार्णमूलेन न्यासः ॥ षोडशार्णध्यानमेव अत्रापि ध्यानम् । सिद्धसिद्धनवरत्नभूमिके कल्पवृक्षनववाटिसंवृते । रत्नसालवनसम्भृतेऽनिशं तत्र वापिशतकेन संवृते ॥ ७॥ रत्नवाटिमणिमण्डपेऽरुणे चपडभानुशतकोटिभासुरे । आदिशैवमणिमञ्चके परे शङ्कराङ्कमणिपीठकोपरि ॥ कादिहान्तमनुरूपिणीं शिवां संस्मरेच्च शिवकामसुन्दरीम् ॥ ८॥ लमित्यादि पञ्चपूजा ॥ शिवकामेश्वरीनामसाहस्रस्तोत्रमुत्तमम् । प्रोच्यते श्रद्धया देवि श‍ृणुष्वावहिता प्रिये ॥ ९॥ कामेशीनामसाहस्रे सदाशिव ऋषिः स्मृतः । छन्दोऽनुष्टुप् देवता च शिवकामेश्वरी स्मृता ॥ १०॥ ऐं बीजं कीलकं क्लीं च ह्रीं शक्तिः कथिता प्रिये । न्यासध्यानादिकं सर्वं षोडशार्णवदीरितम् ॥ ११॥ अनेन स्तोत्रराजेन सर्वाभीष्टं लभेत ना । ॥ अथ सहस्रनामस्तोत्रम् ॥ श्रीशिवा शिवकामी च सुन्दरी भुवनेश्वरी । आनन्दसिन्धुरानन्दानन्दमूर्तिर्विनोदिनी ॥ १॥ त्रैपुरी सुन्दरी प्रेमपाथोनिधिरनुत्तमा । रामोल्लासा परा भूतिः विभूतिश्शङ्करप्रिया ॥ २॥ श‍ृङ्गारमूर्तिर्विरता रसानुभवरोचना । परमानन्दलहरी रतिरङ्गवती सती ॥ ३॥ रङ्गमालानङ्गकलाकेलिः कैवल्यदा कला । रसकल्पा कल्पलता कुतूहलवती गतिः ॥ ४॥ विनोददुग्धा सुस्निग्धा मुग्धमूर्तिनोहरा । बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला ॥ ५॥ स्रवत्पीयूषदिग्धाङ्गी सङ्गीत नटिका शिवा । कुरङ्गनयना कान्ता सुखसन्ततिरिन्दिरा ॥ ६॥ मङ्गला मधुरापाङ्गा रञ्जनी रमणी रतिः । राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ७॥ प्रपञ्चगतिरीशानी सामरस्यपरायणा । हंसोल्लासा हंसगतिः शिञ्जत्कनकनूपुरा ॥ ८॥ मेरुमन्दरवक्षोजा सृणिपाशवरायुधा । शङ्खकोदण्डसस्ताब्जपाणिद्वयविराजिता ॥ ९॥ चन्द्रबिम्बानना चारुमकुटोत्तंसचन्द्रिका । सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ १०॥ मन्दारदाममुदिता रक्तपुष्पविभूषिता । सुवर्णाभरणप्रीता मुक्तादाममनोहरा ॥ ११॥ ताम्बूलपूरवदना मदनानन्दमानसा । सुखाराध्या तपस्सारा कृपावारिधिरीश्वरी ॥ १२॥ वक्षःस्थललसन्मग्ना प्रभा मधुरसोन्मुखा । बिन्दुनादात्मिका चारुरसिता तुर्यरूपिणी ॥ १३॥ कमनीयाकृतिः धन्या शङ्करप्रीतिमञ्जरी । कन्या कलावती माता गजेन्द्रगमना शुभा ॥ १४॥ कुमारी करभोरु श्रीः रूपलक्ष्मीः सुराजिता । सन्तोषसीमा सम्पत्तिः शातकुम्भप्रिया द्युतिः ॥ १५॥ परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी । सार्वभौमनृपश्रीश्च साम्राज्यगतिरासिका ॥ १६॥ सरोजाक्षी दीर्घदृष्टिः सौचक्षणविचक्षणा । रङ्गस्रवन्ती रसिका प्रधानरसरूपिणी ॥ १७॥ रससिन्धुः सुगात्री च युवतिः मैथुनोन्मुखी । निरन्तरा रसासक्ता शक्तिस्त्रिभुवनात्मिका ॥ कामाक्षी कामनिष्ठा च कामेशी भगमङ्गला । सुभगा भगिनी भोग्या भाग्यदा भयदा भगा । भगलिङ्गानन्दकला भगमध्यनिवासिनी ॥ १९॥ भगरूपा भगमयी भगयन्त्रा भगोत्तमा । योनिर्जया कामकला कुलामृतपरायणा ॥ २०॥ कुलकुण्डालया सूक्ष्मजीवस्फुलिङ्गरूपिणी । मूलस्थिता केलिरता वलयाकृतिरीडिता ॥ २१॥ सुषुम्ना कमलानन्दा चित्रा कूर्मगतिर्गिरिः । सितारुणा सिन्धुरूपा प्रवेगा निर्धनी क्षमा ॥ २२॥ धण्टाकोटिरसारावा रविबिम्बोत्थिताद्भूता । नादान्तलीना सम्पूर्णा प्रणवा बहुरूपिणी ॥ २३॥ भृङ्गारावा वशगतिः वागीशी मधुरध्वनिः । वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी ॥ २४॥ मणिपूरस्थिता स्निग्धा कूर्मचक्रपरायणा । मूलकेलिरता साध्वी स्वाधिष्ठाननिवासिनी ॥ २५॥ अनाहतगतिर्दीपा शिवानन्दमयद्युतिः । विरुद्धरुधा सम्बुद्धा जीवभोक्त्री स्थलीरता ॥ २६॥ आज्ञाचक्रोज्ज्वलस्फारस्फुरन्ती निर्गतद्विषा । चन्द्रिका चन्द्रकोटीशी सूर्यकोटिप्रभामयी ॥ २७॥ पद्मरागारुणच्छाया नित्याह्लादमयीप्रभा । महाशून्यालया चन्द्रमण्डलामृतनन्दिता ॥ २८॥ कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता । महाचन्द्रस्मितालिसा मृत्पात्रस्था सुधाद्युतिः ॥ २९॥ स्रवत्पीमूषसंसक्ता शश्वत्कुण्डालया भवा । श्रेयो द्युतिः प्रत्यगर्था सेवा फलवती मही ॥ ३०॥ शिवा शिवप्रिया शैवा शङ्करी शाम्भवी विभुः । स्वयम्भू स्वप्रिया स्वीया स्वकीया जनमातृका ॥ सुरामा स्वप्रिया श्रेयः स्वाधिकाराधिनायिका । मण्डला जननी मान्या सर्वमङ्गलसन्ततिः ॥ ३२॥ भद्रा भगवती भाव्या कलितार्धेन्दुभासुरा । कल्याणललिता काम्या कुकर्मकुमतिप्रदा ॥ ३३॥ कुरङ्गाक्षी क्षीरनेत्रा क्षीरा मधुरसोन्मदा । वारुणीपानमुदिता मदिरामुदिता स्थिरा ॥ ३४॥ कादम्बरीपानरुचिः विपाशा पशुभावना । मुदिता ललितापाङ्गा दरान्दोलितदीर्घदृक् ॥ ३५॥ दैत्याकुलानलशिखा मनोरथसुधाद्युतिः । सुवासिनी पीतगात्री पीनश्रोणिपयोधरा ॥ ३६॥ सुचारुकबरी दध्युदध्युत्थिमौक्तिका । बिम्बाधरद्युतिः मुग्धा प्रवालोत्तमदीधितिः ॥ ३७॥ तिलप्रसूननासाग्रा हेममौक्तिककोरका । निष्कलङ्केन्दुवदना बालेन्दुवदनोज्वला ॥ ३८॥ नृत्यन्त्यञ्जननेत्रान्ता प्रस्फुरत्कर्णशष्कुली । भालचन्द्रातपोन्नद्धा मणिसूर्यकिरीटिनी ॥ ३९॥ कचौघचम्पकश्रेणी मालिनीदाममण्डिता । हेममाणिक्य ताटङ्का मणिकाञ्चन कुण्डला ॥ ४०॥ सुचारुचुबुका कम्बुकण्ठी कुण्डावली रमा । गङ्गातरङ्गहारोर्मिः मत्तकोकिलनिस्वना ॥ ४१॥ मृणालविलसद्बाहुपाशाकुशधनुर्धरा । केयूरकङ्कणश्रेणी नानामणिमनोरमा ॥ ४२॥ ताम्रपङ्कजपाणिश्रीः नवरत्नप्रभावती । अङ्गुलीयमणिश्रेणी कान्तिमङ्गलसन्ततिः ॥ ४३॥ मन्दरद्वन्द्वसुकुचा रोमराजिभुजङ्गिका । गम्भीरनाभिस्त्रिवलीभङ्गुरा क्षणिमध्यमा ॥ ४४॥ रणत्काञ्चीगुणानद्धा पट्टांशुकनितम्बिका । मेरुसन्धिनितम्बाढ्या गजशुण्डोरुयुग्मयुक् ॥ ४५॥ सुजानुर्मदनानन्दमयजङ्घाद्वयान्विता । गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता ॥ ४६॥ पदद्वन्द्वजिताम्भोजा नखचन्द्रावलीप्रभा । सुसीमप्रपदा राजंहसमत्तेभमन्दगा ॥ ४७॥ योगिध्येयपदद्वद्वा सौन्दर्यामृतसारिणी । लावपयसिन्धुः सिन्दूरतिलका कुटिलालका ॥ ४८॥ साधुसीमन्तिनी सिद्धबुद्धवृन्दारकोदया । बालार्ककिरणश्रेणिशोणश्रीः प्रेमकामधुक् ॥ ४९॥ रसगम्भीरसरसी पद्मिनी रससारसा । प्रसन्नासन्नवरदा शारदा भुवि भाग्यदा ॥ ५०॥ नटराजप्रिया विश्वानाद्या नर्तकनर्तकी । चित्रयन्त्रा चित्रतन्त्रा चित्रविद्यावलीयतिः ॥ ५१॥ चित्रकूटा त्रिकूटा च पन्धकूटा च पञ्चमी । चतुष्ट्कूटा शम्भुविद्या षट्कूटा विष्णुपूजिता ॥ ५२॥ कूटषोडशसम्पन्ना तुरीया परमा कला । षोडशी मन्त्रयन्त्राणां ईश्वरी मेरुमण्डला ॥ ५३॥ षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी । वर्णातीता वर्णमता शब्दब्रह्ममयी सुखा ॥ ५४॥ सुखज्योत्स्नानन्दविद्युदन्तराकाशदेवता । चैतन्या विधिकूटात्मा कामेशी स्वप्नदर्शना ॥ ५५॥ स्वप्नरूपा बोधकरी जाग्रती जागराश्रया । स्वप्नाश्रया सुषुप्तिस्था तन्त्रमूर्तिश्च माधवी ॥ ५६॥ लोपामुद्रा कामराज्ञी माधवी मित्ररूपिणी । शाङ्करी नन्दिविद्या च भास्वन्मण्डलमध्यगा ॥ ५७॥ माहेन्द्रस्वर्गसम्पत्तिः दूर्वासस्सेविता श्रुतिः । साधकेन्द्रगतिस्साध्वी सुलिप्ता सिद्धिकन्धरा ॥ ५८॥ पुरत्रयेशी पुरकृत् षष्ठी च परदेवता । विघ्नदूरी भूरिगुणा पुष्टिः पूजितकामधुक् ॥ ५९॥ हेरम्बमाता गणपा गुहाम्बाऽऽर्या नितम्बिनी । एषा सीमन्तिनी मोक्षदक्षा दीक्षितमातृका ॥ ६०॥ साधकाम्बा सिद्धमाता साधकेन्द्रमनोरमा । यौवनोन्मादिनी तुङ्गस्तनी सुश्रोणिमण्डिता ॥ ६१॥ पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना । रक्तमाल्यरुचिर्दक्षा शिखण्डिन्यतिसुन्दरी ॥ ६२॥ शिखण्डिनृत्यसन्तुष्टा शिखण्डिकुलपालिनी । वसुन्धरा च सुरभिः कमनीयतनुश्शुभा ॥ ६३॥ नन्दिनी त्रीक्षणवती वसिष्ठालयदेवता । गोलकेशी च लोकेन्द्रा नृलोकपरिपालिका ॥ ६४॥ हविर्धात्री देवमाता वृन्दारकपरात्मयुक् । रुद्रमाता रुद्रपत्नी मदोद्गारभरा क्षितिः ॥ ६५॥ दक्षिणा यज्ञसम्पत्तिः स्वबला धीरनन्दिता । क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६६॥ रमा तुङ्गा सदासेव्या सुरसङ्घदया उमा । सुचरित्रा चित्रवरा सुस्तनी वत्सवत्सला ॥ ६७॥ रजस्वला रजोयुक्ता रञ्जिता रङ्गमालिका । रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६८॥ रजश्शुक्लाक्षिका निष्ठा ऋतुस्नाता रतिप्रिया । भाव्यभाव्या कामकेलिः स्मरभूः स्मरजीविका ॥ ६९॥ समाधिकुसुमानन्दा स्वयम्भुकुसुमप्रिया । स्वयम्भुप्रेमसन्तुष्टा स्वयम्भूनिन्दकान्तका ॥ ७०॥ स्वयम्भुस्था शक्तिपुटा रविः सर्वस्वपेटिका । अत्यन्तरसिका दूतिः विदग्धा प्रीतिपूजिता ॥ ७१॥ तूलिकायन्त्रनिलया योगपीठनिवासिनी । सुलक्षणा दृश्यरूपा सर्व लक्षणलक्षिता ॥ ७२॥ नानालङ्कारसुभगा पञ्चकामशरार्चिता । ऊर्ध्वत्रिकोणयन्त्रस्था बाला कामेश्वरी तथा ॥ ७३॥ गुणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती । वसन्तमदनोत्तुङ्ग स्तनी कुचभरोन्नता ॥ ७४॥ कलाधरमुखी मूर्धपाथोधिश्च कलावती । दक्षपादादिशीर्षान्तषोडशस्वरसंयुता ॥ ७५॥ श्रद्धा पूर्तिः रतिश्चैव भूतिः कान्तिर्मनोरमा । विमला योगिनी घोरा मदनोन्मादिनी मदा ॥ ७६॥ मोदिनी दीपिनी चैव शोषिणी च वशङ्करी । रजन्यन्ता कामकला लसत्कमलधारिणी ॥ ७७॥ वाममूर्धादिपादान्तषोडशस्वरसंयुता । पूषरूपा सुमनसां सेव्या प्रीतिः द्युतिस्तथा ॥ ७८॥ ऋद्धिः सौदामिनी चिच्च हंसमालावृता तथा । शशिनी चैव च स्वस्था सम्पूर्णमण्डलोदया ॥ ७९॥ पुष्टिश्चामृतपूर्णा च भगमालास्वरूपिणी । भगयन्त्राश्रया शम्भुरूपा संयोगयोगिनी ॥ ८०॥ द्राविणी बीजरूपा च ह्यक्षुब्धा साधकप्रिया । रजः पीठमयी नाद्या सुखदा वाञ्छितप्रदा ॥ ८१॥ रजस्सवित् रजश्शक्तिः शुक्लबिन्दुस्वरूपिणी । सर्वसाक्षी सामरस्या शिवशक्तिमयी प्रभा ॥ ८२॥ संयोगानन्दनिलया संयोगप्रीतिमातृका । संयोगकुसुमानन्दा संयोगयोगपद्धतिः ॥ ८३॥ संयोगसुखदावस्था चिदानन्दार्ध्यसेविता । अर्घ्यपूज्या च सम्पत्तिः अर्ध्यदाभिन्नरूपिणी ॥ ८४॥ सामरस्यपरा प्रीता प्रियसङ्गमरङ्गिणी । ज्ञानदूती ज्ञानगम्या ज्ञानयोनिश्शिवालया ॥ ८५॥ चित्कला सत्कला ज्ञानकला संवित्कलात्मिका । कलाचतुष्टयी पद्मवासिनी सूक्ष्मरूपिणी ॥ ८६॥ हंसकेलिस्थलस्वस्था हंसद्वयविकासिनी । विरागिता मोक्षकला परमात्मकलावती ॥ ८७॥ विद्याकलान्तरात्मस्था चतुष्टयकलावती । विद्यासन्तोषणा तृप्ति परब्रह्मप्रकाशिनी ॥ ८८॥ परमात्मपरा वस्तुलीना शक्तिचतुष्टयी । शान्तिर्बोधकला व्याप्तिः परज्ञानात्मिका कला ॥ ८९॥ पश्यन्ती परमात्मस्था चान्तरात्मकला शिवा । मध्यमा वैखरी चात्म कलाऽऽनन्दकलावती ॥ ९०॥ तरुणी तारका तारा शिवलिङ्गालयात्मवित् । परस्परस्वभावा च ब्रह्मज्ञानविनोदिनी ॥ ९१॥ रामोल्लासा च दुर्धर्षा परमार्घ्यप्रिया रमा । जात्यादिरहिता योगिन्यानन्दमात्रपद्धतिः ॥ ९२॥ कान्ता शान्ता दान्तयातिः कलिता होमपद्धतिः । दिव्यभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ९३॥ पशुदेहा वीरगतिः वीरहंसमनोदया । मूर्धाभिषिक्ता राजश्रीः क्षत्रियोत्तममातृका ॥ ९४॥ शस्त्रास्त्रकुशला शोभा रथस्था युद्धजीविका । अश्वारूढा गजारूढा भूतोक्तिः सुरसुश्रया ॥ ९५॥ राजनीतिश्शान्तिकर्त्री चतुरङ्गबलाश्रया । पोषिणी शरणा पद्मपालिका जयपालिका ॥ ९६॥ विजया योगिनी यात्रा परसैन्यविमर्दिनी । पूर्णवित्ता वित्तगम्या वित्तसञ्चय शालिनी ॥ ९७॥ महेशी राज्यभोगा च गणिकागणभोगभृत् । उकारिणी रमा योग्या मन्दसेव्या पदात्मिका ॥ सैन्यश्रेणी शौर्यरता पताकाध्वजमालिनी । सुच्छत्र चामरश्रेणिः युवराजविवर्धिनी ॥ ९९॥ पूजा सर्वस्वसम्भारा पूजापालनलालसा । पूजाभिपूजनीया च राजकार्यपरायणा ॥ १००॥ ब्रह्मक्षत्रमयी सोमसूर्यवह्निस्वरूपिणी । पौरोहित्यप्रिया साध्वी ब्रह्माणी यन्त्रसन्ततिः ॥ सोमपानजनाप्रीता योजनाध्वगतिक्षमा । प्रीतिग्रहा परा दात्री श्रेष्ठजातिः सताङ्गतिः ॥ १०२॥ गायत्री वेदविद्ध्येया दीक्षा सन्तोषतर्पणा । रत्नदीधितिविद्युत्सहसना वैश्यजीविका ॥ १०३॥ कृषिर्वाणिज्यभूतिश्च वृद्धिदा वृद्धसेविता । तुलाधारा स्वप्नकामा मानोन्मानपरायणा ॥ १०४॥ श्रद्धा विप्रगतिः कर्मकरी कौतुकपूजिता । नानाभिचारचतुरा वारस्त्रीश्रीः कलामयी ॥ सुकर्णधारा नौपारा सर्वाशा रतिमोहिनी । दुर्गा विन्ध्यवनस्था च कालदर्पनिषूदिनी ॥ भूमारशमनी कृष्णा रक्षोराक्षससाहसा । विविधोत्पातशमनी समया सुरसेविता ॥ १०७॥ पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका । सिद्धिसन्दोहसंसिद्धयोगिनीवृन्दसेविता ॥ १०८॥ नित्या षोडशिकारूपा कामेशी भगमालिनी । नित्यक्लिन्ना निराधारा वह्निमण्डलवासिनी ॥ १०९॥ महावज्रेश्वरी नित्यशिवदूतीति विश्रुता । त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी ॥ ११०॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामाला विचित्रा च महात्रिपुरसुन्दरी ॥ १११॥ गुरुवृन्दा परगुरुः प्रकाशानन्ददायिनी । शिवानन्दा नादरूपा शक्रानन्दस्वरूपिणी ॥ ११२॥ देव्यानन्दा नादमयी कौलेशानन्दनाथिनी । शुक्लदेव्यानन्दनाथा कुलेशानन्ददायिनी ॥ ११३॥ दिव्यौघसेविता दिव्यभोगदानपरायणा । क्रीडानन्दा क्रीडमाना समयानन्ददायिनी ॥ ११४॥ वेदानन्दा पार्वती च सहजानन्ददायिनी । सिद्धौघगुरुरूपा चाप्यपरा गुरुरूपिणी ॥ ११५॥ गगनानन्दनाथा च विश्वाद्यानन्ददायिनी । विमलानन्दनाथा च मदनानन्ददायिनी ॥ ११६॥ भुवनानन्दनाथा च लीलोद्यानप्रिया गतिः । स्वात्मान्दविनोदा च प्रियाद्यानन्दनाथिनी ॥ ११७॥ मानवाद्या गुरुश्रेष्ठा परमेष्ठि गुरुप्रभा । परमाद्या गुरुश्शक्तिः किर्तनप्रिया ॥ ११८॥ त्रैलोक्यमोहनाख्या च सर्वाशापरिपूरका । सर्वसङ्क्षोभिणी पूर्वाम्नाया चक्रत्रयालया ॥ ११९॥ सर्वसौभाग्यदात्री च सर्वार्थसाधकप्रिया । सर्वरक्षाकरी साधुर्दक्षिणाम्नायदेवता ॥ १२०॥ मध्यचक्रैकनिलया पश्चिमाम्नायदेवता । नवचक्रकृतावासा कौबेराम्नायदेवता ॥ १२१॥ बिन्दुचक्रकृतायासा मध्यसिंहासनेश्वरी । श्रीविद्या नवदुर्गा च महिषासुरमर्दिनी ॥ १२२॥ सर्वसाम्राज्यलक्ष्मीश्च अष्टलक्ष्मीश्च संश्रुता । शैलेन्द्रतनया ज्योतिः निष्कला शाम्भवी उमा ॥ १२३॥ अजपा मातृका चेति शुक्लवर्णा षडानना । पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणदा ॥ ११४॥ पञ्चकल्पलता चैव त्र्यक्षरी मूलपीठिका । सुधाश्रीरमृतेशानी ह्यन्नपूर्णा च कामधुक् ॥ १२५॥ पाशहस्ता सिद्धलक्ष्मीः मातङ्गी भुवनेश्वरी । वाराही नवरत्नानामीश्वरी च प्रकीर्तिदा ॥ १२६॥ परं ज्योतिः कोशरूपा सैन्धवी शिवदर्शना । परापरा स्वामिनी च शाक्तदर्शनविश्रुता ॥ १२७॥ ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी । विष्णुदर्शनरूपा च स्रष्टॄदर्शनरूपिणी ॥ १२८॥ सौरदर्शनरूपा च स्थितिचक्रकृताश्रया । बौद्धदर्शनरूपा च तुरीया बहुरूपिणी ॥ १२९॥ तत्वमुद्रास्वरूपा च प्रसन्ना ज्ञानमातृका । सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता ॥ १३०॥ शिखास्थिता वर्ममयी नेत्रत्रयविलासिनी । अस्त्रस्था चतुरस्रस्था द्वारस्था द्वारदेवता ॥ १३१॥ अणिमा पश्चिमस्था च दक्षिणद्वारदेवता । वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १३२॥ महिमापूर्वनाथा च लघिमोत्तरदेवता । अग्निकोणस्थगरिमा प्राप्तिर्नैऋतिवासिनी ॥ १३३॥ ईशित्वसिद्धिसुरथा सर्वकामोर्ध्ववासिनी । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १३४॥ वाराह्यैन्द्री च चामुण्डा वामा ज्येष्ठा सरस्वती । क्षोभिणी द्राविणी रौद्री काल्युन्मादनकारिणी ॥ १३५॥ खेचरा कालकरणी च बलानां विकरणी तथा । मनोन्मनी सर्वभूतदमनी सर्वसिद्धिदा ॥ १३६॥ बलप्रमथिनी शक्तिः बुद्ध्याकर्षणरूपिणी । अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ १३७॥ स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी । रसाकर्षणरूपा च प्लधाकर्षणरूपिणी ॥ १३८॥ चित्राकर्षणरूपा च धैर्याकर्षणरूपिणी । स्मृत्याकर्षणरूपा च नामाकर्षणस्त्वपिणी ॥ १३९॥ बीजाकर्षणरूपा च ह्यात्माकर्षणरूपिणी । अमृताकर्षिणी चैव शरीराकर्षणी तथा ॥ १४०॥ षोडशस्वरसम्पन्ना स्रवत्पीयूषमण्डिता । त्रिपुरेशी सिद्धिदात्री कलादर्शनवासिनी ॥ १४१॥ सर्वसङ्क्षोभचक्रेशी शक्तिर्गुह्यतराभिधा । अनङ्गकुसुमाशक्तिः तथैवानङ्गमेखला ॥ १४२॥ अनङ्गमदनाऽनङ्गमदनातुररूपिणी । अनङ्गरेखा चानङ्गवेगानङ्गाकुशाभिधा ॥ १४३॥ अनङ्गमालिनी चैव ह्यष्टवर्गाधिगामिनी । वस्वष्टककृतावासा श्रीमत्त्रिपुरसुन्दरी ॥ १४४॥ सर्वसाम्राज्यसुभगा सर्वभाग्यप्रदेश्वरी । सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा ॥ १४५॥ सर्वविद्रावणी सर्वाकर्षिणीरूपकारिणी । सर्वाह्लादनशक्तिश्च सर्वसम्मोहिनी तथा ॥ १४६॥ सर्वस्तम्भनशक्तिश्च सर्वजृम्भणकारिणी । सर्ववश्यकशक्तिश्च तथा सर्वानुरञ्जनी ॥ १४७॥ सर्वोन्मादनशक्तिश्च तथा सर्वार्थसाधिका । सर्वसम्पत्तिदा चैव सर्वमातृमयी तथा ॥ १४८॥ सर्वद्वन्द्वक्षयकरी सिद्धिस्त्रिपुरवसिनी । चतुर्दशारचक्रेशी कुलयोगसमन्वया ॥ १४९॥ सर्वसिद्धिप्रदा चैव सर्वसम्पत्प्रदा तथा । सर्वप्रियकरी चैव सर्वमङ्गलकारिणी ॥ १५०॥ सर्वकामप्रपूर्णा च सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी सर्व विघ्नविनाशिनी ॥ १५१॥ सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी । त्रिपुरा श्रीश्च सर्वार्थसाधिका दशकोणगा ॥ १५॥ सर्वरक्षाकरी चैव ईश्वरी योगिनी तथा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १५३॥ सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५४॥ सर्वानन्दमयी चैव सर्वरक्षास्वरूपिणी । तथैव च महाशक्तिः सर्वेप्सितफलप्रदा ॥ १५५॥ अन्तर्दशारचक्रस्था तथा त्रिपुरमालिनी । सर्वरोगहरा चैव रहस्ययोगिनी तथा ॥ १५६॥ वाग्देवी वशिनी चैव तथा कामेश्वरी तथा । मोदिनी विमला चैव ह्यरुणा जयिनी तथा ॥ १५॥ शिवकामप्रदा देवी शिवकामस्य सुन्दरी । ललिता ललिताध्यानफलदा शुभकारिणी ॥ १५॥ सर्वेश्वरी कौलिनी च वसुवंशाभिवर्द्धिनी । सर्वकामप्रदा चैव परापररहस्यवित् ॥ १५९॥ त्रिकोणचतुरश्रस्थ कामेश्वर्यायुधात्मिका । कामेश्वरीबाणरूपा कामेशी चापरूपिणी ॥ १६०॥ कामेशी पाशहस्ता च कामेश्यङ्कुशरूपिणी । कामेश्वरी रुद्रशक्तिः अग्निचक्रकृतालया ॥ १६१॥ कामाभिन्त्रा कामदोग्ध्री कामदा च त्रिकोणगा । दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धरालया ॥ १६२॥ सूर्यचक्रालया वामकोणगा सोमचक्रगा । भगमाला बृहच्छक्ति पूर्णा पूर्वास्ररागिणी ॥ १६३॥ श्रीमत्त्रिकोणभुवना त्रिपुराख्या महेश्वरी । सर्वानन्दमयीशानी बिन्दुगातिरहस्यगा ॥ १६४॥ परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी । सर्वचक्रान्तरस्था च सर्वचक्राधिदेवता ॥ १६५॥ सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा । सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६६॥ सर्वयोगेश्वरी सर्वपीठेश्वर्यखिलेश्वरी । सर्वकामेश्वरी सर्वतत्वेश्वर्यागमेश्वरी ॥ १६७॥ शक्तिः शक्तिभृदुल्लासा निर्द्वन्द्वाद्वैतगर्भिणी । निष्प्रपञ्चा प्रपञ्चाभा महामाया प्रपञ्चसूः ॥ १६८॥ सर्वविश्वोत्पत्तिधात्री परमानन्दकारणा । लावण्यसिन्धुलहरी सुन्दरीतोषमन्दिरा ॥ १६९॥ शिवकामसुन्दरी देवी सर्वमङ्गलदायिनी । इतिनाम्नां सहस्रं च गदितं इष्टदायकम् ॥ १७०॥ ॥ उत्तरपीतिका ॥ सहस्रनाम मन्त्राणां सारमाकृष्य पार्वति । रचितं हि मया चैतत् सिद्धिदं परमोक्षदम् ॥ १॥ अनेन स्तुवतो नित्यं अर्धरात्रे निशामुखे । प्रातः काले च पूजायां पठनं सर्वकामदम् ॥ २॥ सर्वसाम्राज्यसुखदा सुन्दरी परितुष्यति । रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ ३॥ मनोरथरथस्थानि ददाति परमेश्वरी । पुत्रपौत्राश्च वर्धन्ते सन्ततिस्सार्वकालिका ॥ ४॥ शत्रवस्तस्य नश्यन्ति वर्धन्ते च बलानि च । व्याधयस्तस्य नश्यन्ति लभते चौषधानि च ॥ ५॥ मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा । कृषिः फलवती तस्य भूमिः कामाखिलप्रदा ॥ ६॥ स्थिरं जनपदं तस्य राज्यं तस्य निरङ्गुशम् । मातङ्गास्तुरगास्तुङ्गाः सिञ्चिन्तो मदवारिभिः ॥ ७॥ सैनिकाश्च विराजन्ते तुष्टाः पुष्टास्तुरङ्गमाः । पूजाः शश्वत् विवर्धन्ते निर्विवादाश्च मन्त्रिणः ॥ ८॥ ज्ञातयस्तस्य तुष्यन्ति बान्धवाः विगतज्वराः । भृत्यास्तस्य वशे नित्यं वर्तन्तेऽस्य मनोनुगाः ॥ ९॥ गद्यपद्यमयी वाणी वाक्त्वातुर्यसुसम्भृता । समग्र सुखसम्पत्ति शालिनी लास्यमालिनी ॥ १०॥ नानापदमयी वाणी तस्य गङ्गाप्रवाहवत् । अदृष्टान्यपि च शास्त्राणि प्रकाशन्ते निरन्तरम् ॥ ११॥ निग्रहः परवाक्यानां सभायां तस्य जायते । स्तुवन्ति कृतिनस्तं वै राजानो दासवत्तथा ॥ १२॥ शस्त्राण्यस्त्राणि तद्गात्रे जनयन्ति रुजो नहि । मातङ्गाः तस्य वशगाः सर्पवर्या भवन्ति च ॥ १३॥ विषं निर्विषतां याति पानीयममृतं भवेत् । परसेनास्तम्भनं च प्रतिवादिविजृम्भणम् ॥ १४॥ नवरात्रेण जायन्ते सततन्यासयोगतः । अहोरात्रं पठेद्यस्तु स्तोत्रं संयतमानसः ॥ १५॥ वशाः तस्योपजायन्ते सर्वे लोकाः सुनिश्चितम् । षण्मासाभ्यासयोगेन देवा यक्षाश्च किन्नराः ॥ १६॥ सिद्धा महोरगास्सर्वे वशमायान्ति निश्चयम् । नित्यं कामकलां न्यस्यन् यः पतेत् स्तोत्रमुत्तमम् ॥ १७॥ मदनोन्मादिनी लीलापुरस्त्री तद्वशानुगा । लावण्यमदना साक्षात् विदग्धमुखचन्द्रिका ॥ १८॥ प्रेमपूर्णाश्रुनयना सुन्दरी वशगा भवेत् । भूर्जपत्रे रोचनेन कुङ्कुमेन वरानने ॥ १९॥ धातुरागेण वा देवी मूलमन्त्रं विलिख्य च । रक्षार्थं भस्म विन्यस्य पुटीकृत्य समन्त्रकम् ॥ २०॥ सुवर्णरौप्यखचिते सुषिरे स्थाप्य यत्नतः । सम्पूज्य तत्र देवेशीं पुनरादाय भक्तितः ॥ २१॥ धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि । नाभौ च विद्युतं धन्यं जयदं सर्वकामदम् ॥ २२॥ रक्षाकरं नान्यदस्मात् विद्यते भुवनत्रये । ज्वररोगनृपाविष्टभयहृत् भूतिवर्धनम् ॥ २३॥ बलवीर्यकरं चाथ भूतशत्रुविनाशनम् । पुत्रपौत्रगुणश्रेयोवर्धकं धनधान्यकृत् ॥ २४॥ य इदं पठति स्तोत्रं स सर्वं लभते नरः । यद्गृहे लिखितं स्तोत्रं तिष्ठेदेतद् वरानने ॥ २५॥ तत्र तिष्ठाम्यहं नित्यं हरिश्च कमलासनः । वसन्ति सर्वतीर्थानि गौरी लक्ष्मीस्सरस्वती ॥ २६॥ शिवकामेश्वरीं ध्यात्वा पठेन्नामसहस्रकम् । असकृत् ध्यानपाठेन साधकः सिद्धिमाप्नुयात् ॥ २७॥ शुक्रवारे पौर्णमास्यां पठन्नामसहस्रकम् । पूजां यः कुरुते भक्त्या वाञ्छितं लभते धुवम् ॥ २८॥ शिवकामेश्वरीमन्त्रः मन्त्रराजः प्रकीर्तितः । तदभ्यासात्साधकश्च सिद्धिमाप्नोत्यनुत्तमाम् ॥ २९॥ नासाधकाय दातव्यमश्रद्धाय शठाय च । भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ ३०॥ अलसायायत्नवतेऽशिवभक्ताय सुन्दरि । विष्णुभक्तिविहीनाय न दातव्यं कदाचन ॥ ३१॥ देयं भक्तवरायैतत्भुक्तिमुक्यिकरं शुभम् । सिद्धिदं भवरोगघ्नं स्तोत्रमेतद्वरानने ॥ ३२॥ लतायोगे पठेद्यस्तु तस्य क्षिप्रं फलं भवेत् । सैव कल्पलता तस्य वाञ्छाफलकरी स्मृता ॥ ३३॥ पुष्पितां यां लतां सम्यक् दृष्ट्वा श्रीललितां स्मरन् । अक्षुब्धः प्रपठेद्यस्तु स यज्ञक्रतुपुण्यभाक् ॥ ३४॥ विकल्परहितो यो हि निर्विकल्पः स्वयं शिवः । नैतत्प्रकाशयेद्भक्तः कुशिष्यायाल्पमेधसे ॥ ३५॥ अनेकजन्मपुण्येन दीक्षितो जायते नरः । तत्राप्यनेकभाग्येन शैवो विष्णु परायणः ॥ ३६॥ तत्राप्यनेकपुण्येन शक्तिभावः प्रजायते । महोदयेन तत्रापि सुन्दरीभावभाग्भवेत् ॥ ३७॥ सहस्रनाम्नां तत्रापि कीर्तनं च सुदुर्लभम् । यत्र जन्मनि सा नित्यं पूर्वपुण्यवशाद्भवेत् ॥ ३८॥ जीवन्मुक्तो भवेत्तस्य कर्तव्यं नावशिष्यते । अवधूतत्वमेव स्यात् न वर्णाश्रमकल्पना ॥ ३९॥ ब्रह्मादयोऽपि देवेशीं प्रार्थयन्ते तदव्ययाम् । हंसत्वं भक्तिभावेन परमानन्दकारणम् ॥ ४०॥ देवोऽसौ सर्वदा शक्ति भावयन्नेव संस्थितः । स्वयं शिवस्तु विज्ञेयः सुन्दरीभावलम्पटः ॥ ४१॥ ब्रह्मानन्दमयीं ज्योत्स्नां सदाशिवपरायणाम् । शिवकामेश्वरीं देवीं भावयन् सिद्धिमाप्नुयात् ॥ ४२॥ आह्लादः सुन्दरीध्यानात् सुन्दरीनामकीर्तनात् । सुन्दरीदर्शनाच्चैव सदानन्दः प्रजायते ॥ ४३॥ ॥ इति श्रीरुद्रयामले उमामहेशसंवादे श्रीशिवकामसुन्दर्याः श्रीमत्त्रिपुरसुन्दर्याः षोडशार्णायाः तुरीयसहस्रनामस्तोत्रं सम्पूर्णम् ॥