अक्षर आकार:

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

shrIshivakAmasundarIsahasranamastotram

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

॥ पूर्वपीठिका ॥ यस्यास्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशान्यै तस्यै कारुण्यमूर्तये ॥ कैलासाद्रौ सुखासीनं शिवं वेदान्तगोचरम् । सर्वविद्येश्वरं भूतिरुद्राक्षालङ्कृतं परम् ॥ १॥ सर्वलक्षणसम्पन्नं सनकादिमुनीडितम् । संसारारण्यदावाग्निं योगिराजं यतेन्द्रियम् ॥ २॥ मुकुटेन्दुसुधापूरलब्धजीवकशीर्षकम् । व्याघ्रचर्माम्बरधरं नीलकण्ठं कपर्दिनम् ॥ ३॥ सव्यहस्ते वह्निधरं मन्दस्मितमुखाम्बुजम् । ढक्कां च दक्षिणे हस्ते वहन्तं च त्रिलोचनम् ॥ ४॥ अभयं दक्षहस्तेन दर्शयन्तं मनोहरम् । डोलहस्तेन वामेन दर्शयन्तं पदाम्बुजम् ॥ ५॥ कुचितं दक्षपादेन तिष्ठन्तं मुसलोपरि । ब्रह्मविष्ण्वादिविनुतं वेदवेद्यं नटेश्वरम् ॥ ६॥ प्रणम्य पार्वती गौरी पप्रच्छ मुदितानना । सर्वलक्षणसम्पन्ना सर्वदा सर्वदा नृणाम् ॥ ७॥ पार्वत्युवाच - शिव! शङ्कर! विश्वेश! महादेव! दयानिधे! सर्वासां चैव देवीनां नामसाहस्रमुत्तमम् ॥ ८॥ पुरा प्रोक्तं सदानन्द ! मह्यं श्रीपतिपूजित ! । शिवकामसुन्दरीनाम्नां सहस्रं वद सुन्दर! ॥ ९॥ सद्यस्सम्पत्करं पुण्यं सर्वपापप्रणाशनम् । इत्युक्त्वा पार्वती देवी तुष्टाव नटनेश्वरम् ॥ १०॥ सत्यप्रबोधसुखसन्ततिरूप विश्व - मायेन्द्रजालिकवरेण्य समस्तसाक्षिन् । सृष्टिस्थितिप्रलयहेतुकविष्णुरुद्र श्रीमन्नटेश मम देहि करावलम्बम् ॥ ११॥ भूवारिवह्निपवनाम्बरचन्द्रसूर्य - यज्वाष्टमूर्तिविमलीकृतविग्रहेदश । स्वाङ्घ्र्यम्बुजद्वयनिषस्तहृदां प्रसन्न ! श्रीमन्नटेश मम देहि करावलम्बम् ॥ १२॥ लिङ्गाकृते पशुपते गिरिजापते त्वं नारायणेश गिरिवास विधीश शम्भो फालाक्ष शङ्कर! महेश्वर मन्मथारे श्रीमन्नटेश मम देहि करावलम्बम् ॥ १३॥ श्रीनीलकण्ठ शमनान्तक पञ्चवक्त्र पञ्चाक्षरप्रिय परात्पर! विश्ववन्द्य । श्रीचन्द्रचूड गजवक्त्रपितः परेश श्रीमन्नटेश मम देहि करावलम्बम् ॥ १४॥ गङ्गाधर प्रमथनाथ सदाशिवार्या - जाने! जलन्धररिपो जगतामधीश । शर्वोग्र भर्ग मृड शाश्वत! शूलपाणे श्रीमन्नटेश मम देहि करावलम्बम् ॥ १५॥ स्थाणो त्रिणेत्र शिपिविष्ट! महेश! तात नारायणप्रिय कुमारगुरो कपर्दिन् । शम्भो! गिरीश! शिव लोकपते! पिनाकिन् श्रीमन्नटेश मम देहि करावलम्बम् ॥ १६॥ खङ्गाङ्गिन् अन्धकरिपो भव भीम रुद्र देवेश! खण्डपरशो! करुणाम्बुराशे । भस्माङ्गराग परमेश्वर! विश्वमूर्ते श्रीमन्नटेश देहि करावलम्बम् ॥ १७॥ विश्वेश्वरात्मक विवेकसुखाभिराम श्रीवीरभद्र! मखहन्तरुमासहाय । वीरेश्वरैणकर शुभ्रवृषाधिरूढ श्रीमन्नटेश मम देहि करावलम्बम् ॥ १८॥ एवं स्तुत्वा महादेवी पञ्चाङ्गं प्रणनाम ह । ततस्तुष्टो नटेशश्च प्रोवाच वचनं शुभम् ॥ १९॥ एवमेव पुरा देवी महालक्ष्मीः पतिव्रता । शङ्खचक्रगदापाणिः सर्वलोकहितावहः ॥ २०॥ धर्मसंस्थापनार्थायावतारान्युगे युगे । करिष्यति महा विष्णुः मम भर्ता दश श‍ृणु ॥ २१॥ मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो दाशरथिश्चैव रामः परशुधारकः ॥ २२॥ हलभृत् बलरामश्च कृष्णः कल्किः दश स्मृताः । अवतारेषु दशसु मद्भर्तुर्नाशशङ्कया ॥ २३॥ प्राप्ता भवन्त शरणं भवानेव परा गतिः । इत्युक्त्वा च महालक्ष्मीर्भस्तानामिष्टदायकम् ॥ २४॥ वेदपादस्तवं चारु मधुरं मधुराक्षरम् । उक्त्वा तुष्टाव मुदिता नटेशानं महेश्वरम् ॥ २५॥ विघ्नेश्वरं वीतविरागसेवितम् विधीन्द्रविष्ण्वादिनताङ्घ्रिपङ्कजम् । सभासदामाशु सुखार्थसिद्धिदं गणानां त्वां गणपतिं हवामहे ॥ २६॥ नगेन्द्रतनयारम्यस्तन्यपानरताननम् । माणिक्यकुण्डलधरं कुमारं पुष्करस्रजम् ॥ २७॥ नमः शिवाय साम्बाय सगणाय ससूनवे । नमो ज्ञानसभेशाय दिशां च पतयेनमः ॥ २८॥ नमो ब्रह्मादिदेवाय विष्णुकान्ताय शम्भवे । पीताम्बराय च नमः पशुनां पतये नमः ॥ २९॥ सन्मार्गदाय शिष्टानामाश्रितानां द्विजन्मनाम् । अभक्तानां मोहदात्रे पथीनां पतये नमः ॥ ३०॥ अपस्मारमधः कृत्य नृत्यन्तं तस्य पृष्ठके । सर्वाभरणरम्यं तं पश्येम शरदश्शतम् ॥ ३१॥ सुन्दरं स्मेरवदनं नटराजमुमापतिम् । सम्पूज्य नृत्यपादं ते जीवेम शरदश्शतम् ॥ ३२॥ कुभीन्द्रदैत्यं हतवानिति शम्भुर्जगत्पतिः । श्रुत्वा ते कीर्तिममलां नन्दाम शरदश्शतम् ॥ ३३॥ मन्मथान्धकसंहारकथाश्रुतिमनोहरम् । श्रुत्वा ते विक्रमयुतं मोदाम शरदश्शतम् ॥ ३४॥ सर्वदुःखान्विहायाशु शिव तेऽङ्घ्रियुगाम्बुजम् । अर्चयन्तः सदा धन्या भवाम शरदश्शतम् ॥ ३५॥ त्वत्कीर्तनं सदा भक्त्या सर्वकल्मषनाशनम् । शङ्कराघहर स्वामिन् श‍ृणवाम शरदश्शतम् ॥ ३६॥ त्वच्चरित्रं पवित्रं च सर्वदारिद्र्यनाशनम् । अस्मत्पुत्रप्रणप्तॄणां प्रब्रवाम शरदश्शतम् ॥ ३७॥ त्वद्भक्तकल्पकतरुमाश्रयन्तस्सदा वयम् । इन्द्रियाघौघनिचयैरजीतास्स्याम शरदश्शतम् ॥ ३८॥ एवं स्तुत्वा महादेवी महालक्ष्मीर्मनोहरा । प्रणम्य चित्सभानाथं तिष्ठन्ती मुदितानना ॥ ३९॥ मन्माङ्गल्यस्य रक्षायै मन्त्रमेकं ममादिश । तां दृष्ट्वा च महादेवः प्रहसन्निदमब्रवीत् ॥ ४०॥ त्वं शीघ्रं गच्छ देवेशीं शिवकामां च सुन्दरीम् । तत्र गत्वा महेशानीं पूजय त्वं विशेषतः ॥ ४१॥ सहस्रकुसुमैः पद्मैः नैवेद्यैश्च मनोहरैः । इत्युक्त्वा परमप्रीतो भगवान्भक्तवत्सलः ॥ ४२॥ शिवकामसुन्दरीनाम्नां सहस्रं प्रजगाद ह । उपदिश्य च तां देवीं प्रेषयामास शङ्करः ॥ ४३॥ लक्ष्मीर्गत्वा महेशानीं शिवकामीं मुदान्विता । शिवोक्तेन प्रकारेण सहस्रैः पङ्कजैः क्रमात् ॥ ४४॥ नामभिश्च त्रितारैश्च युक्त्वैश्च सुमहत्तरैः । पूजयामास विधिवत् शिवाचिन्तनतत्परा ॥ ४५॥ तदा शिवः शोधनाय तस्याः चित्तं जगत्प्रभुः । आनीतेषु च पद्मेषु न्यूनमेकं चकार हि ॥ ४६॥ अतीव दुःखितालक्ष्मीः पूर्तिकामेच्छया स्वयम् । अभावपुष्पसम्पूर्त्यै नेत्रमुत्पाट्य वामकम् ॥ ४७॥ अर्चयामास लक्ष्मीश्च भक्त्या परमया युता । दृष्टेवदं सुन्दरीदेवी शिवकाममनोहरी ॥ ४८॥ पूर्वस्मादपि सौन्दर्यं नेत्रं दत्वाऽतिहर्षतः । तुष्टाऽहमिष्टं व्रियतां वरमित्याह शङ्करी ॥ ४९॥ तदा वव्रे महालक्ष्मीः सर्वलोकप्रियङ्करम् । सौमङ्गल्यं कुरु मम दीर्घं च भवतु धुवम् । तथा भवतु भद्रं ते विष्णुं गच्छ यथासुखम् ॥ ५०॥ इत्युक्त्वाऽन्तर्दधे देवी शिवकामी महेश्वरी । लक्ष्मीश्च विष्णुं गत्वाऽथ यथापूर्वं स्थितोरसि ॥ ५१॥ तादृशं नामसाहस्रं शिवकाम्याः मनोहरम् । वदामि श‍ृणु हे देवीनामसाहस्रमुत्तमम् ॥ ५२॥ ऋषिः छन्दो देवता च बीजं शक्तिश्च कीलकम् । कराङ्गन्यासकौ पूर्वं सुरहस्यं महेश्वरि ॥ ५३॥ नाम्नां त्रिपुरसुन्दर्याः यत्प्रोस्तं तद्वदेव हि । शिवकामसुन्दरीप्रीत्यै विनियोगो जपे स्मृतः ॥ ५४॥ दिग्बन्धं ततो ध्यायेत् शिवकामीं महेश्वरीम् । ततश्च पञ्चपूजा च कर्तव्या मनुजापिना ॥ ५५॥ ततः परं स्तोत्रमेतज्जप्तव्यं भद्रकामिना । स्तोत्रान्ते च प्रकर्तव्यमङ्गन्यासं च पूर्ववत्त् ॥ ५६॥ कृत्वा च दिग्विमोकं च ततोध्यायेच्च सुन्दरीम् । लमित्यादिममन्त्रैश्च पञ्चपूजां च संवदेत् ॥ ५७॥ ॐ अस्य श्री शिवकामसुन्दरीसहस्रनामस्तोत्रमहा मन्त्रस्य । आनन्दभैरवदक्षिणामूर्तिः ऋषिः । देवी गायत्री छन्दः । श्रीशिवकामसुन्दरी देवता । बीजं शक्तिः कीलकं कराङ्गन्यासौ च श्रीमहात्रिपुरसुन्दरीमहामन्त्रवत् । ॥ ध्यानम् ॥ पद्मस्थां कनकप्रभां परिलसत्पद्माक्षियुग्मोत्पलाम् अक्षस्रक्षुकशारिकाकटिलसत् कल्हार हस्ताब्जिनीम् । रक्तस्रक्सुविलेपनाम्बरधरां राजीवनेत्रार्चितां ध्यायेत् श्रीशिवकामकोष्ठनिलयां नृत्तेश्वरस्य प्रियाम् ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताण्टङ्कयुक्तां अक्षस्रक्पुष्पहस्ता सशुककटिकरां चन्द्रचूडां त्रिनेत्रीम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां यासापद्मासनस्थां शिवपदसहितां सुन्दरीं चिन्तयामि ॥ रत्नताटङ्कसंयुक्तां सुवर्णकवचान्विताम् । दक्षिणोर्ध्वकराग्रेण स्वर्णमालाधरां शुभाम् ॥ दक्षाधः करपद्मेन पुल्लकल्हार धारिणीम् । वामेनोएध्वकराब्जेन शुकार्भकधरां वराम् । कटिदेशे वामहस्तं न्यस्यन्तीं च सुदर्शनाम् ॥ शिवकामसुन्दरीं नौमि प्रसन्नवदनां शिवाम् । लमित्पादिपञ्चपूजा ॥ ॥ श्री शिवकामसुन्दरीसहस्रनामस्तोत्रम् ॥ ॐ ऐं ह्रीं श्रीं अं - १॥ अगण्याऽगण्यमहिमाऽसुरप्रेतासनस्थिता । अजराऽमृत्युजननाऽप्यकालान्तक भीकरा ॥ १॥ अजाऽजांशसमुद्भूताऽमरालीवृतगोपुरा । अत्युग्राजिनटच्छत्रुकबन्धानेककोटिका ॥ २॥ अद्रिदुर्गाऽणिमासिद्धिदापितेष्टामरावलिः । अनन्ताऽनन्यसुलभप्रियाऽद्भुतविभूषणा ॥ ३॥ अनूरुकरसङ्काशाऽखण्डानन्दस्वरूपिणी । अन्धीकृतद्विजारातिनेत्राऽत्युग्राट्टहासिनी ॥ ४॥ अन्नपूर्णाऽपराऽलक्ष्याऽम्बिकाऽघविनाशिनी । अपारकरुणापूरनिभरेखां जनाक्षिणी ॥ ५॥ अमृताम्भोधिमध्यस्थाऽणिमासिद्धिमुखाश्रिता । अरविन्दाक्षमालालिपात्रशूलधराऽनघा ॥ ६॥ अश्वमेधमखावाप्तहविःपुजकृतादरा । अश्वसेनावृताऽनेकपारूढाऽप्यगजन्मभूः ॥ ७॥ ओं ऐं ह्रीं श्रीं आं - २॥ आकाशविग्रहाऽऽनन्ददात्री चाज्ञाब्जभासुरा । आचारतत्परस्वान्तपद्मसंस्थाऽऽढ्यपूजिता ॥ ८॥ आत्मायत्तजगच्चक्रा चात्मारामपरायणा । आदित्यमण्डलान्तस्था चादिमध्यान्तवर्जिता ॥ ९॥ आद्यन्तरहिताऽचार्या चादिक्षान्तार्णरूपिणी । आद्याऽमात्युनुता चाज्यहोमप्रीताऽऽवृताङ्गना ॥ १०॥ आधारकमलारूढा चाधाराधेयविवर्जिता । आधिहीनाऽऽसुरीदुर्गाऽऽजिसङ्क्षोभितासुरा ॥ ११॥ आधोरणाज्ञाशुण्डाग्राकृष्टासुरगजावृता । आश्चर्यवियहाऽऽचार्यसेविताऽऽगमसंस्तुता ॥ १२॥ आश्रिताखिलदेवादिवृन्दरक्षणतत्परा । ॐ ऐं ह्रीं श्रीं इं - ३॥ इच्छाज्ञानक्रियाशक्तिरूपेरावतिसंस्तुता ॥ १३॥ इन्द्राणीरचितश्वेतच्छत्रेडाभक्षणप्रिया । इन्द्राक्षीन्द्रार्चितेन्द्राणी चेन्दिरापतिसोदरी ॥ १४॥ इन्दिरेन्दीवरश्यामा चेरम्मदसमप्रभा । इभकुम्भाभवक्षोजद्वया चेक्षुधनुर्धरा ॥ १५॥ इभदन्तोरुनयना चेन्द्रगोपसमाकृतिः । इभशुण्डोरुयुगलाचेन्दुमण्डलमध्यगा ॥ १६॥ इष्टार्तिघ्नीष्टवरदा चेभवक्त्रप्रियङ्करी । ॐ ऐं ह्रीं श्रीं ईं - ४॥ ईशित्वसिद्धिसम्प्रार्थितापसेषत्स्मितानना ॥ १७॥ ईश्वरीशप्रिया चेशताण्डवालोकनोन्तुका । ईक्षणोत्पन्नभुवनकदम्बा चेड्यवैभवा ॥ १८॥ ॐ ऐं ह्रीं श्रीं उं - ५॥ उच्चनीचादिरहिताऽप्युरुकान्तारवासिनी । उत्साहरहितेन्द्रारिश्चोरुसन्तोषितामरा ॥ १९॥ उदासीनोडुरावक्त्राऽप्युग्रकृत्यविदूषणी । उपाधिरहितोपादानकारणोन्मत्तनृत्तकी ॥ २०॥ उरुस्यन्दनसम्बद्धकोट्यश्वोरुपराक्रमा । उल्कामुखी ह्युमादेवी चोन्मत्तक्रोधभैरवी ॥ २१॥ ॐ ऐं ह्रीं श्रीं ऊं - ६॥ ऊर्जितज्ञोढभुवनकदम्बोर्ध्वमुखावलिः । ऊर्ध्वप्रसारिताङ्घ्रीशदर्शनोद्विग्रमानसा ॥ २२॥ ऊहापोहविहीनोरुजितरम्भामनोहरा । ॐ ऐं ह्रीं श्रीं ऋं - ७॥ ऋग्वेदसंस्तुता ऋद्धिदायिनी ऋणमोचिनी ॥ २३॥ ऋजुमार्गपरप्रीता ऋषभध्वजभासुरा । ऋद्धिकाममुनिव्रातसत्रयागसमर्चिता ॥ २४॥ ॐ ऐं ह्रीं श्रीं ॠं - ८॥ ॠकारवाच्या ॠक्षादिवृता ॠकारनासिका । ॐ ऐं ह्रीं श्रीं लृं - ९॥ लृकरिणी लृकारोष्ठा ॐ ऐं ह्रीं श्रीं लॄं - १०॥ लॄवर्णाधरपल्लवा ॥ २५॥ ॐ ऐं ह्रीं श्रीं एं - ११॥ एकाकिन्येकमन्त्राक्षरैधितोत्साहवल्लभा । ॐ ऐं ह्रीं श्रीं ऐं - १२॥ ऐश्वर्यदात्री ॐ ऐं ह्रीं श्रीं ओं - १३॥ चोङ्कारवादिवागीशसिद्धिदा ॥ २६॥ ओजःपुञ्जघनीसान्द्ररूपिण्योङ्कारमध्यगा । ओषधीशमनुप्रीता ॐ ऐं ह्रीं श्रीं औं - १४॥ चौदार्यगुपावारिधिः ॥ २७॥ औपम्यरहिताचैव ॐ ऐं ह्रीं श्रीं अं - १५॥ अम्बुजासनसुन्दरी । अम्बराधीशनटनसाक्षिणी ॐ ऐं ह्रीं श्रीं अः - १६॥ अः पददायिनी ॥ २८॥ ॐ ऐं ह्रीं श्रीं कं - १७॥ कबरीबन्धमुखरीभमरभ्रमरालका । करवाललताधाराभीषणा कौमुदीनिभा ॥ २९॥ कर्पूराम्बा कालरात्रिः काली कलिविनाशिनी । कादिविद्यामयी काम्या काञ्चनाभा कलावती ॥ ३०॥ कामेश्वरी कामराजमनुप्रीता कृपावती । कार्तवीर्यद्विसाहस्रदोर्दण्डपटहध्वनिः ॥ ३१॥ किटिवक्त्राधिकारोद्यद्गणप्रोत्साहिताङ्गना । कीर्तिप्रदा कीर्तिमती कुमारी कुलसुन्दरी ॥ ३२॥ कुन्तायुधधरा कुब्जिकाम्बा कुध्रविहारिणी । कुलागमरहस्यज्ञवाञ्छादानपरायणा ॥ ३३॥ कूटस्थितिजुषी कूर्मपृष्ठजित्प्रपदान्विता । केकाशब्दतिरस्कारिबाणासनमणीरवा ॥ ३४॥ केशाकेशिचणा केशिराक्षसाधिपमर्दिनी । कैतकच्छदसन्ध्याभपिशङ्गितकचाम्बुदा ॥ ३५॥ कैलासोत्तुङ्गश‍ृङ्गाद्रविलासेशपराजिता । कैशिक्यारभटीरीतिस्तुतरक्तेश्वरीप्रिया ॥ ३६॥ कोकाहितकरस्पर्धिनखा कोकिलवादिनी । कोपहुङ्कारसन्त्रस्तससेनासुरनायका ॥ ३७॥ कोलाहलरवोद्रेकरिङ्खज्जम्बुकमण्डला । कौणिडन्यान्वयसम्भूता करिचर्माम्बरप्रिया ॥ ३८॥ कौपीनशिष्टविप्रर्षिस्तुता कौलिकदेशिका । कौसुम्भास्तरणा कौलमार्गनिष्ठान्तरास्थिता ॥ ३९॥ कङ्कणाहिगणक्षेमवचनोद्विग्नतार्क्ष्यका । कञ्जाक्षी कञ्जविनुता कञ्जजातिप्रियङ्करी ॥ ४०॥ ॐ ऐं ह्रीं श्रीं खं - १८॥ खड्गखेटकदोर्दण्डा खट्वाङ्गी खड्गसिद्धिदा । खण्डितासुरगर्वाद्रिः खलादृष्टस्वरूपिणी ॥ ४१॥ खण्डेन्दुमौलिहृदया खण्डितार्केन्दुमण्डला । खरांशुतापशमनी खस्था खेचरसंस्तुता ॥ ४२॥ खेचरी खेचरीमुद्रा खेचराधीशवाहना । खेलापारावतरतिप्रीता खाद्यायितान्तका ॥ ४३॥ ओं ऐं ह्रीं श्रीं गं - १९॥ गगना गगनान्तस्था गगनाकारमध्यमा । गजारूढा गजमुखी गाथागीतामराङ्गना ॥ ४४॥ गदाधरी गदाऽऽधातमूर्छितानेकपासुरा । गरिमालघिमासिद्धिवृता ग्रामादिपालिनी ॥ ४५॥ गर्विता गन्धवसना गन्धवाहसमर्चिता । गर्वितासुरदाराश्रुपङ्किताजिवसुन्धरा ॥ ४६॥ गायत्री गानसन्तुष्टा गन्धर्वाधिपतीडिता । गिरिदुर्गा गिरीशानसुता गिरिवराश्रया ॥ ४७॥ गिरीन्द्रक्रूरकठिनकर्षद्धलवरायुधा । गीतचारित्रहरितशुकैकगतमानसा ॥ ४८॥ गीतिशास्त्रगुरुः गीतिहृदया गीर्गिरीश्वरी । गीर्वाणदनुजाचार्यपूजिता गृध्रवाहना ॥ ४९॥ गुडपायससन्तुष्टहृद्यप्ततरयोगिनी । गुणातीता गुरुर्गौरी गोप्त्री गोविन्दसोदरी ॥ ५०॥ गुरुमूतिर्गुणाम्भोधिर्गुणागुणविवर्जिता । गुहेष्टदा गुहावासियोगिचिन्तितरूपिणी ॥ ५१॥ गुह्यागमरहस्यज्ञा गुह्यकानन्ददायिनी । गुह्या गुह्यार्चिता गुह्यस्थानबिन्दुस्वरूपिणी ॥ ५२॥ गोदावरीनदीतीरवासिनी गुणवर्जिता । गोमेदकमणीकर्णकुण्डला गोपपालिनी ॥ ५३॥ गोसवासक्तहृदया गोश‍ृङ्गध्यानमोदिनी । गङ्गागर्वङ्कषोद्युक्तरुद्रप्रोत्साहवादिनी ॥ ५४॥ गन्धर्ववनितामालामोदिनी गर्वनाशिनी । गुञ्जामणिगणप्रोतमालाभासुरकन्धरा ॥ ५५॥ ओं ऐं ह्रीं श्रीं घं - २०॥ घटवाद्यप्रिया घोरकोणपघ्नी घटार्गला । घटिका घटिकामुख्यषट्पारायणमोदिनी ॥ ५६॥ घण्टाकर्णादिविनुता घनज्योतिर्लतानिभा । घनश्यामा घटोत्भूततापसात्मार्थदेवता ॥ ५७॥ घनसारानुलिप्ताङ्गी घोणोद्धृतवसुन्धरा । घनस्फटिकसङ्क्लृप्तसालान्तरकदम्बका ॥ ५८॥ घनाल्युद्भेदशिखरगोपुरानेकमन्दिरा । घूर्णीताक्षी घृणासिन्धुः घृणिविद्या घटेश्वरी ॥ ५९॥ घृतकातिन्यहृद्धण्टामणिमालाप्रसाधना । घोरकृत्या घोरवाद्या घोराघौघविनाशिनी ॥ ६०॥ घोराघनकृपायुक्ता घननीलाम्बरान्विता । घोरास्या घोरशूलाग्रप्रोतासुरकलेबरा ॥ ६१॥ घोषत्रस्तान्तकभटा घोरसङ्घोषकृद्बला । ॐ ऐं ह्रीं श्रीं ङं - २१॥ ङान्तार्णाद्यमनुप्रीता ङाकाराडीम्परायणा ॥ ६२॥ ङीकारिममञ्जुमञ्जीरचरणा ङाङ्कित्ताङ्गुलिः । ओं ऐ ह्रीं श्रीं चं - २२॥ चक्रवर्तिसमाराध्या चक्रनेमिरवोन्तुका ॥ ६३॥ चण्डमार्ण्डधिक्कारिप्रभा चक्राधिनायिका । चण्डालास्यपरामोदा चण्डवादपटीयसी ॥ ६४॥ चण्डिका चण्डकोदण्डा चण्डघ्नी चण्डभैरवी । चतुरा चतुराम्नायशिरोलक्षितरूपिणी ॥ ६५॥ चतुरङ्गबलोपेता चराचरविनोदिनी । चतुर्वक्त्रा चक्रहस्ता चक्रपाणिसमर्चिता ॥ ६६॥ चतुष्षष्टिकलारूपा चतुष्षष्यचर्चनोस्तुका । चन्द्रमण्डलन्ध्ययस्था चतुर्वर्गफलप्रदा ॥ ६७॥ चमरीमृगयोद्युक्ता चिरञ्जीवित्वदायिनी । चम्पकाशोकस्रद्बद्धचिकुरा चरुभक्षिणी ॥ ६८॥ चराचरजगद्धात्री चन्द्रिकाधवलस्मिता । चर्माम्बरधरा चण्डक्रोधहुङ्कारभीकरा ॥ ६९॥ चाटुवादप्रिया चामीकरपर्वतवासिनी । चापिनी चापमुक्तेषुच्छन्नदिग्भ्रान्तपन्नगा ॥ ७०॥ चित्रभानुमुखी चित्रसेना चित्राङ्गदेष्टदा । चित्रलेखा चिदाकाशमध्यगा चिन्तितार्थदा ॥ ७१॥ चिन्त्या चिरन्तनी चित्रा चित्राम्बा चित्तवासिनी । चैतन्यरूपा चिच्छक्तिश्चिदम्बरविहारिणी ॥ ७२॥ चोरघ्नी चीर्यविमुखा चतुर्दशमनुप्रिया । ओं ऐं ह्रीं श्रीं छं - २३॥ छत्रचामरभृल्लक्ष्मीवागिन्द्राणीरतीवृता ॥ ७३॥ छन्दश्शास्त्रमयी छन्दोलक्ष्याच्छेदविवर्जिता । छन्दोरूपाछन्दगतिः छन्दश्शिरविहारिणी ॥ ७४॥ छद्महृत्छविसन्दीप्तसूर्यचन्द्राग्नितारका । छर्दिताण्डावलिश्छादिताकारा छिन्नसंशया ॥ ७५॥ छायापतिसमाराध्या छायाम्बा छत्रसेविता । छिन्नमस्ताबिका छिन्नशीर्षशत्रुश्छलान्तकी ॥ ७६॥ छेदितासुरजिह्वाग्रा छत्रीकृतयशस्विनी । ॐ ऐं ह्रीं श्रीं जं - २४॥ जगन्माता जगत्साक्षी जगद्योनिर्जगद्गुरुः ॥ ७७॥ जगन्माया जगन्त्वृन्दवन्दिता जयिनीजया । जनजाड्यप्रतापघ्नी जितासुरमहाव्रजा ॥ ७८॥ जननी जगदानन्ददात्री जह्नुसमर्चिता । जपमालावराभीतिमुद्रापुस्तकधारिणी ॥ ७९॥ जपयज्ञपराधीनहृदया जगदीश्वरी । जपाकुसुमसङ्काशा जन्मादिध्वंसकारणा ॥ ८०॥ जालध्रपूर्णकामोड्याणचतुष्पीठरूपिणी । जीवनार्थिद्विजव्रातत्राणनाबद्धकङ्कणा ॥ ८१॥ जीवब्रह्मैकताकाङ्क्षि जनताकीर्णपार्वभूः । जम्भिनी जम्भभित्पूल्या जाग्रदादित्रयातिगा ॥ ८२॥ जलदग्रिधरा ज्वालाप्रोच्चकेशी ज्वरार्तिहृत् । ज्वालामालिनिका ज्वालामुखी जैमिनिसंस्तुता ॥ ८३॥ ॐ ऐं ह्रीं श्रीं झं - २५॥ झलञ्झलकृतस्वर्णमञ्जीरा झषलोचना । झषकुण्डलिनी झल्लरीवाद्यमुदितानना ॥ ८४॥ झषकेतुसमाराध्या झषमांसान्नभक्षिणी । झषोपद्रवकृद्धन्त्री झ्म्रूम्मन्त्राधिदेवता ॥ ८५॥ झञ्झानिलातिगमना झषराण्णीतसागरा । ॐ ऐं ह्रीं श्रीं ज्ञं - २६॥ ज्ञानमुद्राधरा ज्ञानिहृत्पद्मकुहरास्थिता ॥ ८६॥ ज्ञानमूर्तिज्ञनिगम्या ज्ञानदा ज्ञातिवर्जिता । ज्ञेया ज्ञेयादिरहिता ज्ञात्री ज्ञानस्वरूपिणी ॥ ८७॥ ओं ऐं ह्रीं श्रीं टं - २७॥ टङ्कपुष्पालिस्रङ्मञ्जुकन्धरा टङ्किताचला । टङ्कवेत्रादिकानेकशस्त्रभृद्दोर्लतावलिः ॥ ८८॥ ओं ऐ ह्रीं श्रीं ठं - २८॥ ठकारनिभवक्षोजद्वयाधोवृत्तभासुरा । ठकाराङ्कितजान्वग्रजितकोरकिताम्बुजा ॥ ८९॥ ओं ऐं ह्रीं श्रीं शं - २९॥ डाकिनी डामरीतन्त्ररूपा डाडिमपाटला । डम्बघ्नी डम्बराऽऽडम्बरोन्मुखी डमरुप्रिया ॥ ९०॥ डिम्बदानचणा डोलामुदिता डुण्ठिपूजिता । ओं ऐं ह्रीं श्रीं ढं - ३०॥ ढकानिनदसन्तुष्टशिखिनृत्तसमुत्सुका ॥ ९१॥ ओं ऐं ह्रीं श्रीं णं - ३१॥ णकारपञ्जरशुकी णकारोद्यानकोकिला । ओं ऐं ह्रीं श्रीं तं - ३२॥ तत्वातीता तपोलक्ष्या तप्तकाञ्चनसन्निभा ॥ ९२॥ तन्त्री तत्वमसीवाक्यविषया तरुणीवृता । तर्जन्यङ्गुष्ठसंयोगज्ञानब्रह्ममुनीश्वरा ॥ ९३॥ तर्जितानेकदनुजा तक्षकी तडितालिभा । ताम्रचूडध्वजोत्सङ्गा तापत्रयविनाशिनी ॥ ९४॥ ताराम्बा तारकी तारापूज्या ताण्डवलोलुपा । तिलोत्तमादिदेवस्त्रीशारीरोन्सुकमानसा ॥ ९५॥ तिल्वद्रुसङ्कुलाभोगकान्तारान्तरवासिनी । त्रयीद्विड्रसनारक्तपानलोलासिधारिणी ॥ ९६॥ त्रयीमयी त्रयीवेद्या त्र्यय्यन्तोद्गीतवैभवा । त्रिकोणस्था त्रिकालज्ञा त्रिकूटा त्रिपुरेश्वरी ॥ ९७॥ त्रिचत्वारिंशदश्राङ्कचक्रान्तर्बिन्दुसंस्थिता । त्रितारा तुम्बुरूद्गीता तार्क्ष्याकारा त्रिकाग्निजा ॥ ९८॥ त्रिपुरा त्रिपुरध्वंसिप्रिया त्रिपुरसुन्दरी । त्रिस्था त्रिमूर्तिसहजशक्तिस्त्रिपुरभैरवी ॥ ९९॥ ॐ ऐं ह्रीं श्रीं थं - ३३॥ थां थीकरमृदगादिभृद्विष्णुमुखसेविता । थां थीं तक्तक थिं तोकृत्तालध्वनिसभाङ्गणा ॥ १००॥ ॐ ऐं ह्रीं श्रीं दं - ३४॥ दक्षा दाक्षायणी दक्षप्रजापतिमखान्तकी । दक्षिणाचाररसिका दयासम्पूर्णमानसा ॥ १०१॥ दारिद्रयोन्मूलिनी दानशीला दोषविवर्जिता । दारुकान्तकरी दारुकारण्यमुनिमोहिनी ॥ १०२॥ दीर्घदंष्ट्रानना दीर्घरसनागीर्णदानवा । दीक्षिता दीक्षिताराध्या दीनसंरक्षणोद्यता ॥ १०३॥ दुःखाब्धिबडबा दुर्गा दुम्बीजा दुरितापहा । दुष्टदूरा दुराचारशमनी द्यूतवेदिनी ॥ १०४॥ द्विजावगूरणस्वान्तपिशितामोदिताण्डजा । ॐ ऐं ह्रीं श्रीं धं - ३५॥ धनदा धनदाराध्या धनदाप्तकुटुम्बिनी ॥ १०५॥ धराधरात्मजा धर्मरूपा धरणिधूर्धरा । धात्री धातृशिरच्छेत्री धीध्येया धुवपूजिता ॥ १०६॥ धूमावती धूम्रनेत्रगर्वसंहारिणी धृतिः । ॐ ऐं ह्रीं श्रीं नं - ३६॥ नखोत्पन्नदशाकारमाधवा नकुलीश्वरी ॥ १०७॥ नरनारायणस्तुत्या नलिनायतलोचना । नरास्थिस्रग्धरा नारी नरप्रेतोपरिस्थिता ॥ १०८॥ नवाक्षरीनाममन्त्रजपप्रीता नटेश्वरी । नादचामुण्डिका नानारूपकृन्नास्तिकान्तकी ॥ १०९॥ नादब्रह्ममयी नामरूपहीना नतानना । नारायणी नन्दिविद्या नारदोद्गीतवैभवा ॥ ११०॥ निगमागमसंवेद्या नेत्री नीतिविशारदा । निर्गुणा नित्यसन्तुष्टा नित्याषोडशिकावृता ॥ १११॥ नृसिंहदर्पशमनी नरेन्द्रगणवन्दिता । नौकारूढासमुत्तीर्णभवाम्भोधि निजाश्रिता ॥ ११२॥ ओं ऐं ह्रीं श्रीं पं - ३७॥ परमा परमं ज्योतिः परब्रह्ममयी परा । परापरमयी पाशबाणाङ्कुशधनुर्धरा ॥ ११३॥ पराप्रासादमन्त्रार्था पतञ्जलिसमर्चिता । पापघ्नी पाशरहिता पार्वती परमेश्वरी ॥ ११४॥ पुण्या पुलिन्दिनीपूज्या प्राज्ञा प्रज्ञानरूपिणी । पुरातना पराशक्तिः पञ्चवर्णस्वरूपिणी ॥ ११५॥ प्रत्यङ्गिराः पानपात्रधरा पीनोन्नतस्तनी । ओं ऐं ह्रीं श्रीं फं - ३८॥ फडर्णध्वस्तपापौघदासा फणिवरेडिता ॥ ११६॥ फणिरत्नासनासीनकामेशोत्सङ्गवासिनी । फलदा फल्गुनप्रीता फुल्लाननसरोरुहा ॥ ११७॥ फुल्लोत्तप्ताङ्गसाहस्रदलपङ्कजभासुरा । ओं ऐं ह्रीं श्रीं बं - ३९॥ बन्धूकसुमनोरागा बादरायणदेशिका ॥ ११८॥ बालाम्बा बाणकुसुमा बगलामुखिरूपिणी । बिन्दुचक्रस्थिता बिन्दुतर्पणप्रीतमानसा ॥ ११९॥ बृहत्सामस्तुता ब्रह्ममाया ब्रह्मर्षिपूजिता । बृहदैश्वर्यदा बन्धहीना बुधसमर्चिता ॥ १२०॥ ब्रह्मचामुण्डिका ब्रह्मजननी ब्राह्मणप्रिया । ब्रह्मज्ञानप्रदा ब्रह्मविद्या ब्रह्माण्डनायिका ॥ १२१॥ ब्रह्मतालप्रिया ब्रह्मपञ्चमञ्चकशायिनी । (??) ब्रह्मादिविनुता ब्रह्मपत्नी ब्रह्मपुरस्थिता ॥ १२२॥ ब्राह्मीमाहेश्वरीमुख्यशक्तिवृन्दसमावृता । ओं ऐं ह्रीं श्रीं भं - ४०॥ भगाराध्या भगवती भार्गवी भार्गवार्चिता ॥ १२३॥ भण्डासुरशिरश्छेत्री भाषासर्वस्वदर्शिनी । भद्रा भद्रार्चिता भद्रकाली भर्गस्वरूपिणी ॥ १२४॥ भवानी भाग्यदा भीमा भामती भीमसैनिका । भुजङ्गनटनोद्युक्ता भुजनिर्जितदानवा ॥ १२५॥ भ्रुकुटीक्रूरवदना भ्रूमध्यनिलयस्थिता । भेतालनटनप्रीता भोगिराजाङ्गुलीयका ॥ १२६॥ भेरुण्डा भेदनिर्मुक्ता भैरवी भैरवार्चिता । ओं ऐं ह्रीं श्रीं मं - ४१॥ मणिमण्डपमध्यस्था माणिक्याभरणान्विता ॥ १२७॥ मनोन्मनी मनोगम्या महादेवपतित्रता । मन्त्ररूपा महाराज्ञी महासिद्धालिसंवृता ॥ १२८॥ मन्दरादिकृतावासा महादेवी महेश्वरी । महाहिधमेखला मार्गदुर्गा माङ्गल्यदायिनी ॥ १२९॥ महावतक्रतुप्रीता माणिभद्रसमर्चिता । (??) महिषासुरशिरश्छेदनर्तकी मुण्डखमिडनी ॥ १३०॥ माता मरकटश्यामा मातङ्गी मतिसाक्षिणी । (??) माधवी माधवाराध्या मधुमांसप्रिया मही ॥ १३१॥ मारी मारान्तक क्षोभकारिणी मीनलोचना । मालतीकुन्दमालाढ्या माषौदनसमुन्सुका ॥ १३२॥ मिथुनासक्तहृदया मोहिताशेषविष्टपा । मुद्रा मुद्राप्रिया मूर्खनाशिनी मेषभक्षिणी ॥ १३३॥ मूकाम्बा मुखजा मोदजनकालोकनप्रिया । मौनव्याख्यापरा मौनसत्यचिन्मात्रलक्षणा ॥ १३४॥ मौञ्जीकच्छधरा मौर्वीद्विरेफमुखरोन्मुखा । ओं ऐं ह्रीं श्रीं यं - ४२॥ यज्ञवृन्दप्रिया यष्ट्री यान्तवर्णस्वरूपिणी ॥ १३५॥ यन्त्ररूपा यशोदात्मजातसजुतवैभवा । यशस्करी यमाराध्या यजमानाकृतिर्यतिः ॥ १३६॥ याकिनी यक्षरक्षादिवृता यजनतर्पणा । याथार्थ्यविग्रहा योग्या योगिनी योगनायिका ॥ १३७॥ यामिनी यजमोत्साहा यामिनीचरभक्षिणी । यायजूकर्चितपदा यज्ञेशी यक्षिणीश्वरी ॥ १३८॥ यासापद्मधरा यासापद्मान्तरपरिष्कृता । योषाऽभयङ्करी योषिद्वृन्दवन्दितपादुका ॥ १३९॥ ॐ ऐं ह्रीं श्रीं रं - ४३॥ रक्तचामुण्डिका रात्रिदेवता रागलोलुपा । रक्तबीजप्रशमनी रजोगन्धनिवारिणी ॥ १४०॥ रणरगनटीरत्त्रमज्जीरचरणाम्बुजा । रजध्ववस्ताचला रागहीनमानसहंसिनी ॥ १४१॥ रसनालेपितक्रूररक्तबीजकलेबरा । रक्षाकरी रमा रम्या रञ्जिनी रसिकावृता ॥ १४२॥ राकिण्यम्बा रामनुता रमावाणीनिषेविता । रागालापपरब्रह्म शिरो मालाप्रसाधना ॥ १४३॥ राजराजेश्वरी राज्ञी राजीवनयनप्रिया । राजव्रातकिरीटांशुनीराजितपदाम्बुजा ॥ १४४॥ रुद्रचामुण्डिका रुक्मसदृशा रुधिरप्रिया । रुद्रताण्डवसामर्थ्यदर्शनोत्सुकमानसा ॥ १४५॥ रुद्राट्टहाससङ्क्षुभ्यज्जगन्तुष्टिविधायिनी । रुद्राणी रुद्रवनिता रुरुराजहितैषिणी ॥ १४६॥ रेणुका रेणुकासूनुस्तुत्या रेवाविहारिणी । रोगघ्नी रोषनिर्दग्धशत्रुसेनानिवेशिनी ॥ १४७॥ रोहिणीशांशुसम्भूतझरीरत्नवितानका । रौद्री रौद्रास्त्रनिर्दग्धराक्षसा राहुपूजिता ॥ १४८॥ ओं ऐं ह्रीं श्रीं लं - ४४॥ लघूक्तिवल्गुस्तिमितवाणीत्यक्तविपञ्चिका । लज्जावती ललत्प्रोच्चकेशा लम्बिपयोधरा ॥ १४९॥ लयादिकर्त्री लोमालिलतानाभीसरः कटी । ललदोष्ठदलद्वन्द्ववदना लक्ष्यदूरगा ॥ १५०॥ ललन्तिकामणीभास्वन्निटिलश्रीमुखाम्बुजा । ललाटार्धनिशानाथकलङ्कोद्भासिलोचना ॥ १५१॥ ललिता लोभिनी लोभहीना लोकेश्वरी लघुः । लक्ष्मीर्लक्ष्मीशसहजा लक्ष्मणाग्रजवन्दिता ॥ १५२॥ लाकिनी लघितापृभोधिनिवहा ललिताग्बिका । लाजहोमप्रिया लम्बमुक्ताभासुरनासिका ॥ १५३॥ लाभालाभादिरहिता लास्यदर्शनकोविदा । लावण्यदर्शनोद्विग्नरतीशा लधुभाषिणी ॥ १५४॥ लाक्षारसाञ्चितपदा लधुश्यामा लतातनुः । लाक्षालक्ष्मीतिरस्कारियुगलाधरपल्लवा ॥ १५५॥ लीलागतिपराभूतहंसा लीलाविनोदिनी । लीलानन्दनकल्पद्रुमलताडोलाविहारिणी ॥ १५६॥ लीलापीताब्धिविनुता लीलास्वीकृतवियहा । लीलाशुकोस्तिमुदिता लीलामृगविहारिणी ॥ १५७॥ लोकमाता लोकसृष्टिस्थितिसंहारकारिणी । लोकातीतपदा लोकवन्द्या लोकैकसाक्षिणी ॥ १५८॥ लोकातीताकृतिर्लब्धा मार्गत्यागपरान्तकी । (??) लोकानुल्लङ्घितनिजशासना लब्धवियहा ॥ १५९॥ लोमावलि लता लम्बिस्तनयुग्मनतानना । लोलचित्तविदूरस्था लोमलम्ब्यण्डजालका ॥ १६०॥ लबितारिशिरोहस्ता लोकरक्षापरायणा । ॐ ऐं ह्रीं श्रीं वं - ४५॥ वनदुर्गा विन्ध्यदलवासिनी वामकेश्वरी ॥ १६१॥ वशिन्यादिस्तुता वह्निज्वालोद्गारिमुखी वरा । वक्षोजययुग्मविरहासहिष्णुकरशङ्करा ॥ १६२॥ वाङ्मनोतीतविषया वामाचारसमुत्सुका । वाजपेयाध्वरानन्दा वासुदेवेष्टदायिनी ॥ १६३॥ वादित्रध्वनिसम्भ्रान्तदिग्गजालिर्विधीडिता । वामदेववसिष्ठादिपूजिता वारिदप्रभा ॥ १६४॥ वामस्तनाश्लिष्द्धस्तपद्मशम्भुविहारिणी । वाराही वास्तुमध्यस्था वासवान्तः पुरेष्टदा ॥ १६५॥ वाराङ्गनानीतपूर्णकुम्भदीपालिमण्टपा । वारिजासनशीर्षालिमाला वार्धिसरोवरा ॥ १६६॥ वारितासुरदर्पश्रीः वार्धघ्नीमन्त्ररूपिणी । वार्ताली वारुणी विद्या वरुणारोग्यदायिनी ॥ १६७॥ विजया विजयास्तुत्या विरूपा विश्वरूपिणी । विप्रशत्रुकदम्बघ्नी विप्रपूज्या विषापहा ॥ १६८॥ विरिञ्चिशिक्षणोद्युक्तमधुकैटभनाशिनी । विश्वमाता विशालाक्षी विरागा वीशवाहना ॥ १६९॥ वीतरागवृता व्याघ्रपाद नृत्तप्रदर्शिनी । वीरभद्रहतोन्मत्तदक्षयज्ञाश्रितामरा ॥ १७०॥ वेदवेद्या वेदरूपा वेदाननसरोरुहा । वेदान्तविषया वेणुनादज्ञा वेदपूजिता ॥ १७१॥ वौषट्मन्त्रमयाकारा व्योमकेशी विभावरी । ?? वन्द्या वाग्वादिनी वन्यमांसाहारा वनेश्वरी ॥ १७२॥ वाञ्छाकल्पलता वाणी वाक्प्रदा वागधीश्वरी । ओं ऐं ह्रीं श्रीं शं - ४६॥ शक्तिवृन्दावृता शब्दमयी श्रीचक्ररूपिणी ॥ १७३॥ शबरी शबरीदुर्गा शरभेशच्छदाकृतिः । शब्दजालोद्भवढ्ढक्कारवासन्दिग्धतापसा ॥ १७४॥ शरणागतसन्त्राणपरायणपटीयसी । शशाङ्कशेखरा शस्त्रधरा शतमुखाम्बुजा ॥ १७५॥ शातोदरी शान्तिमती शरच्चन्द्रनिभानना । शापापनोदनचणा शङ्कादोषादिनाशिनी ॥ १७६॥ शिवकामसुन्दरी श्रीदा शिववामाङ्गवासिनी । शिवा श्रीदाननिपुणलोचना श्रीपतिप्रिया ॥ १७७॥ शुकादिद्विजवृन्दोक्तिस्तब्धमानसगीष्पतिः । शुक्रमण्डलसङ्काशमुक्तामाला शुचिस्मिता ॥ १७८॥ शुक्लदंष्ट्राग्रसन्दीप्तपातालभ्रान्तपन्नगा । शुभ्रासना शूरसेनावृता शूलादिनाशिनी ॥ १७९॥ शूकवृश्चिकनागाखुर्वृकह्रिंस्रालिसंवृता । शूलिनी शूलड्गाहिशङ्खचक्रगदाधरा ॥ १८०॥ शोकाब्धिशोषणोद्युक्तबडवा श्रोत्रियावृता । शङ्करालिङ्गनानन्दमेदुरा शीतलाम्बिका ॥ १८१॥ शङ्करी शङ्करार्धाङ्गहरा शाक्करवाहना । शम्भुकोपाग्निनिर्दग्धमदनोत्पादकेक्षणा ॥ १८२॥ शाम्भवी शम्भुहस्ताब्जलीलारुणकरावलिः । श्रीविद्या शुभदा शुभवस्त्रा शुम्भासुरान्तकी ॥ १८३॥ ओं ऐं ह्रीं श्रीं षं - ४७॥ षडाधाराब्जनिलया षाड्गुण्यश्रीप्रदायिनी । षडूर्मिघ्नि षडध्वान्तपदारूढस्वरूपिणी ॥ १८४॥ षट्कोणमध्यनिलया षडर्णा षान्तरूपिणी । षड्जादिस्वरनिर्मात्री षडङ्गयुवतीश्वरी ॥ १८५॥ षड्भावरहिता षण्डकण्टकी षण्मुखप्रिया । षड्सास्वादमुदिता षष्ठीशादिमदेवता ॥ १८६॥ षोढान्यासमयाकारा षोडशाक्षरदेवता । ओं ऐं ह्रीं श्रीं सं - ४८॥ सकला सच्चिदानन्दलक्षणा सौख्यदायिनी ॥ १८७॥ सनकादिमुनिध्येया सन्ध्यानाट्यविशारदा । समस्तलोकजननी सभानटनरञ्जिनी ॥ १८८॥ सरः पुलिनलीलार्थियुवतीनिवहोत्सुका । सरस्वती सुराराध्या सुरापानप्रियासुरा ॥ १८९॥ सरोजलविहारोद्यत्प्रियाकृष्टोत्तरांशुका । साध्या साध्यादिरीहता स्वतन्त्रा स्वस्तिरूपिणी ॥ १९०॥ साध्वी सङ्गीतरसिका सर्वदा सर्वमङ्गला । सामोद्गीतनिजानन्दमहिमालिस्सनातना ॥ १९१॥ सारस्वतप्रदा सामा संसारार्णवतारिणीम् । सावित्री सङ्गनिर्मुक्ता सतीशी सर्वतोमुखी ॥ १९२॥ साख्यतत्वज्ञनिवहव्यापिसाला सुखेश्वरी । सिद्धसङ्घावृता सान्ध्यवन्दिता साधुसत्कृता ॥ १९३॥ सिंहासनगता सर्वश‍ृङ्गाररसवारिधिः । सुधाब्धिमध्यनिलया स्वर्णद्वीपान्तरस्थिता ॥ १९४॥ सुधासिक्तालवालोद्यत्कायमानलतागृहा । सुभगा सुन्दरी सुभ्रूः समुपास्यत्वलक्षणा ॥ १९५॥ सुरदुसङ्कुलाभोगतटा सौदामिनीनिभा । सुरभीकेशसम्भ्रान्तद्विरेफमुखरान्विता ॥ १९६॥ सूर्यचन्द्रांशुधिक्कारिप्रभारत्नालिमण्डपा । सोमपानोद्भवामोदविप्रगीतापदानका ॥ १९७॥ सोमयागप्रिया सोमसूर्यवह्निविलोचना । सौगन्धिकमरुद्वेगमोदिता सद्विलासिनी ॥ १९८॥ सौन्दर्यमोहिताधीनवल्लभा सन्ततिप्रदा । सौभाग्यमन्त्रिणी सत्यवादा सागरमेखला ॥ १९९॥ स्वश्वासोच्छवासभुवनमोचनोन्मोचना स्वधा । ॐ ऐं ह्रीं श्रीं हं - ४९॥ हयारूढा हयग्रीवविनुता हतकिल्बिषा ॥ २००॥ हरालिङ्गनशीतांशून्मिषन्नेत्रमुद्वती । हरिनाभिसमुद्भूतविरिञ्चिविनुता हरा ॥ २०१॥ हादिविद्या हानिहीना हाकिनी हरिचण्डिका । हारावलिप्रभादीप्त हरिदन्तदिगम्बरा ॥ २०२॥ हालाहलविषोद्विग्रविष्टापानेकरक्षकी । हाहाकाररवोद्गीतदनुजा हारमञ्जुला ॥ २०३॥ हिमाद्रितनया हीरमकुटा हारपन्नगा । हुताशनधरा होमप्रिया होत्री हयेश्वरी ॥ २०४॥ हेमपद्मधरा हेमवर्मराजसमर्चिता । हंसिनी हंसमन्त्रार्था हंसवाहा हराङ्गभृत् ॥ २०५॥ हृद्या हृद्यमनोनित्यवासा हरकुटुम्बिनी । (??) ह्रीमतिः हृदयाकाशतरणिः ह्रिम्परायणा ॥ २०६॥ ॐ ऐं ह्रीं श्रीं क्षं - ५०॥ क्षणदाचरसंहारचतुरा क्षुद्रदुर्मुखा । क्षणदार्च्या क्षपानाथसुधार्द्रकबरी क्षितिः ॥ २०७॥ क्षमा क्षमाधरसुता क्षामक्षोभविनाशिनी । क्षिप्रसिद्धिम्प्रदा क्षिप्रगमना क्षुण्णिवारिणी ॥ २०८॥ क्षीणपुण्यासुहृत् क्षीरवर्णा क्षयविवर्जिता । क्षीरान्नाहारमुदिता क्ष्म्र्यूम्मन्त्राप्तेष्टयोगिराट् ॥ २०९॥ क्षीराब्धितनया क्षीरघृतमध्वासवार्चिता । क्षुधार्तिदीनसन्त्राणा क्षितिसंरक्षणक्षमा ॥ २१०॥ क्षेमङ्करी क्षेत्रपालवन्दिता क्षेत्ररूपिणी । क्षौमाम्बरधरा क्षत्रसम्प्रार्थितजयोत्सवा ॥ २११॥ क्ष्वेलभुग्रसनास्वाद जात वाग्रसवैभवा । इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ उत्तरपीतिका ॥ इत्येतत्ते मयाऽऽख्यातं नाम साहस्रमुत्तमम् । शिवकामसुन्दरीदेव्याः शिवायाः परमेश्वरि ॥ १॥ चतुर्वेदस्य तात्पर्यसारभूतं सुखप्रदम् । सहस्रनामक स्तोत्ररत्नाभिधमिदं प्रिये । श्रुत्यन्तवाक्यनिचयबद्धं शीघ्रप्रसिद्धिदम् ॥ २॥ आयुरारोग्यदं पुण्यवर्धनं भुक्तिमुक्तिदम् । विघ्नवारणविघ्नेशं संसारध्वान्तभास्करम् ॥ ३॥ शोककान्तारदावाग्निमज्ञानाब्धिघटोद्भवम् । रोगपर्वतदभ्भोलिं शत्रुवर्गाहितार्क्ष्यकम् ॥ ४॥ सर्वविद्याप्रदं नॄणां तुष्टिदं पुष्टिदं प्रिये । भूताः प्रेताः पिशाचाश्च ब्रह्मरक्षोगणोरगाः ॥ ५॥ जटामुनिगणाः क्षुद्रज्वरकृद्ग्रहमण्डलाः । कोटरारेवतीज्येष्ठापूतनामातृकादयः ॥ ६॥ महाज्वरकराश्चान्ये भेतालाग्निधराश्शिवे । अपस्मारादिमाश्चान्ये दृष्टा हिंसाराराश्शिवे ॥ ७॥ राक्षसा मनुजा यज्ञविघ्नभूताश्च पन्नगाः । सालुवाः शरभाः सिंहाः व्याघ्रा ऋक्षा गजा वृषाः । शाक्करा महिषाच्छगाः गवयावृकजम्बुकाः । अन्ये वन्या मृगा देवि हिंसकाश्शूकवृश्चिकाः ॥ ९॥ अण्डजास्स्वेदजा देवि चोद्भिदाश्च जरायुजाः । ये ये हिंसाकरास्सर्वे नामसाहस्रजापिनम् ॥ १०॥ दृष्ट्वा भीत्या परिभ्रान्ताः स्खलन्तश्च विदूरतः । पतन्तश्च पलायन्ते प्राणत्राणपरायणाः ॥ ११॥ अम्बिकानामसाहस्रजपशीलस्य योगिनः । द्रव्याणि योऽपहरते तं भक्षयति योगिनी ॥ १२॥ शिवकामसुन्दरीभस्तिशालिनं द्वेष्टि यो नरः । तं नाशयति सा देवी सपुत्रगणबान्धवम् ॥ १३॥ शिवकामसुन्दरीभक्ते चाभिचारादिदुष्कृतिम् । यः प्रेरयति मूढात्मा तं देवी शिवसुन्दरी ॥ १४॥ मुखाग्निज्वालया देवी दाहयत्यञ्जसा धुवम् । अनेन सदृशं स्तोत्रं नास्ति नास्त्यद्रिकन्यके ॥ १५॥ एतत्स्तोत्रजपेनैव विष्णुर्लक्ष्मीश्वरोऽभवत् । जगद्रक्षककर्तृत्वं ब्रह्मणो वेधसः प्रिये ॥ १६॥ सृष्टिकर्तृत्वमप्यम्बे वेदानां च विधायकः । अभूदन्येऽमराश्चैव वह्नीन्द्रयमराक्षसाः ॥ १७॥ जलवाय्वीशधनदाः योगिनश्च महर्षयः । जपादस्य स्वयं सिद्धिं लेभिरे सततं शिवे ॥ १८॥ मम शक्तिमयी त्वं हि देवी सा कामसुन्दरी । तस्याः प्रभावं नान्येन वस्तुं शक्यं हि सुन्दरि! ॥ १९॥ त्वयैव चिन्तनीयं तत् त्वत्तो नान्यास्ति हि प्रिया । एतन्नामसहस्रस्य जपे त्रैवर्णिकः प्रिये ॥ २०॥ मयाधिक्रियतेऽन्येषां च भवेदधिकारता । अन्ये तु पाठयेद्विप्रैः लभेरन्दवेष्टकामनाम् ॥ २१॥ यो विप्रश्शान्तहृदयः नामसाहस्रमुत्तमम् । जपति श्रद्धया युक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥ शुक्रवारे सौमवारे भौमवारे गुरोर्दिने । दर्शे पर्वणि पञ्चम्यां नवम्यां कुलसुन्दरि ॥ २३॥ कृष्णाङ्गारचतुर्दश्यां सङ्क्रान्तावयने विषौ । वृषे शुक्लनवम्यां च श्रावण्यां मूलभे शुभे ॥ २४॥ आषाढे च तुलायां च नक्षत्रे पूर्वफल्गुने । ज्येष्ठे च फाल्गुने मासि उत्तरे फल्गुने शुभे ॥ २५॥ नक्षत्रे च शुभां देवीं गौरीनामभिरम्बिकाम् । अर्चयेत्सततं प्रीता सुन्दरी भवति प्रिये ॥ २६॥ प्रतिपन्मुखराकान्तदिनरात्रिषु चाम्बिकाम् । अर्चयेत्कुसुमैर्बिल्वैः हारिद्रैः कुकुमैः शुभैः ॥ २७॥ हरिद्राचूर्णसम्पृक्तैरक्षतैर्तुलसीदलैः । केसरैः केतकैश्चैव मन्दारैश्चम्पकैरपि ॥ २८॥ प्रथमं गन्धतैलेनाभिषिच्य ततः परम् । पयसा मधुना दघ्ना घृतेन लिकुचेन च ॥ २९॥ नारिकेलाम्रपनसकदलीनां फलत्रयम् । शर्करामधुसम्पृक्तं पञ्च्जामृतमथाम्बिकाम् ॥ ३०॥ अभिषिच्य ततः पश्चात्सगन्धीश्चन्दनैः शुभैः । अन्नैश्च कुङ्कुमैश्चैव फलानां च रसैस्तथा ॥ ३१॥ गङ्गाम्बुभिस्ततः कुर्यात्वासितैः सलिलैश्शुभैः । सम्यगुन्मार्ज्य वस्त्रैश्च पीताम्बरमुखैः शिवैः ॥ ३२॥ आच्छाद्य कञ्चुकैश्चैवालङ्कृत्याभरणैस्सुमैः । शुद्धान्नैः पायसान्नैश्च रसखण्डान्नैश्च भक्ष्यकैः ॥ ३३॥ गुडान्नेः पायसापूपैर्माषापूपैश्च लेह्यकैः । खाद्यैश्च विविधैरन्नैः चित्रान्नैश्च विशेषतः ॥ ३४॥ लड्डुकैर्मोदकैश्चापि करम्भैश्च शरावकैः । फलैश्च विविधैश्चापि कुर्यान्नैवेद्यमादरात् ॥ ३५॥ षोडशैरुपचारैश्च पूजयेच्छिवसुन्दरीम् । सुवासिनीः कन्यकाश्च वस्त्रान्नैश्च प्रपूजयेत् ॥ ३६॥ एभिर्नामभिरेवैतां मूर्ते यन्त्रे घटेऽपि वा । आवाह्याभ्यर्च्ययेद्देवीं जपेद्वा सन्निधौ स्तुतिम् ॥ ३७॥ यं यं कामयते शीघ्रं तं तं प्राप्नोत्यसंशयः । विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् ॥ ३८॥ कन्यार्थी लभते कन्यां अप्सरस्सदृशीं शिवे । धनार्थी लभते शीघ्रं धनं भूरि महेश्वरि ॥ ३९॥ श्रीविद्योपास्तिशीलानामात्मरक्षार्थमादरात् । शत्रुनिर्घातनार्थञ्च स्वदासानुग्रहाय च ॥ ४०॥ जप्तव्यं सततं भद्रे श्रुतिवद्वाग्यतश्शुचिः । सर्वमन्त्राधिकारत्वात् श्रीविद्योपासकस्य तु ॥ ४१॥ गुरुं स्वयं जप्यं विना सुन्दर्येवास्य देशिका । तेषामेव विधिः प्रोक्तो नान्येषां मेनकात्मन्ते ॥ ४२॥ उपदेशादेव च गुरोः जप्तव्यं शिवभाषितम् । श्रीचक्रपुरसमाजस्त्रिपुरातुष्टिकारणम् ॥ ४३॥ तत्त्वमस्यादिवाक्यार्थपरब्रह्मपदप्रदम् । शिवज्ञानप्रदं देवि शीघ्रसिद्धिकरं परम् ॥ ४४॥ श्रौतस्मार्तादिकर्मादौ भक्त्येदं यो जपेत्प्रिये । अविघ्नेन च तत्कर्म साफल्यं चैति निश्चयः ॥ ४५॥ युद्धे प्रयाणे दुर्द्धर्षे स्वप्ने वाते जले भये । जप्तव्यं सततं भद्रे तत्तच्छान्त्यै महेश्वरि ॥ ४६॥ तत्तन्मातृकया पुस्तं त्रितारेण समन्वितम् । स्तोत्रमेतज्जपेद्देवीमर्चयेच्च विशेषतः ॥ ४७॥ सदा तस्य हृदम्भोजे सुन्दरी वसति धुवम् । अणिमादिमहासिद्धीः लभते नात्र संशयः ॥ ४८॥ अश्वमेधादिभिर्यज्ञैः यत्फलं तत् सुदुर्लभम् । अणिमादिममहासिद्धीः लभते नात्र संशयः ॥ ४९॥ एभिर्नामभिरेवं यः कालीं दुर्गाञ्च चण्डिकाम् । अर्चयेत्सततं भक्त्या ये सर्वान्कामांल्लभेन्नरः ॥ ५०॥ सुन्दरीमूर्तिभेदाश्च काली दुर्गा च चण्डिका ॥ ५१॥ एकैव शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । भोगे भवानी पुरुषेषु विष्णुः कोपेषु काली समरेषु दुर्गा ॥ ५२॥ एका शक्तिश्च शम्भोर्विनिमयनविधौ सा चतुर्धा विभिन्ना क्रोधे काली विजाताच समरसमये सा च चण्डी च दुर्गा । भोगे सृष्टौ नियोगे च सकलजगतां सा भवानी च जाता सर्वेषां रक्षणानुग्रहकरणविधौ तस्य विष्णुर्भवेत्सा ॥ ५२॥ सम्प्रयच्छति तस्येष्टमचिरादेव सुन्दरी । स्तोत्ररत्नमिदं भद्रे सदा निष्कामनायुतः ॥ ५३॥ यो जपेन्मामकं धाम ब्रह्मविष्ण्वादिदुर्लभम् । सत्यज्ञानमनन्ताख्यं ब्राह्मं कैवल्यसञ्ज्ञकम् ॥ ५४॥ भवाब्धितारकं सोऽपि प्राप्नोति मदनुग्रहात् । चित्सभायां नृत्यमाननटराजस्य साक्षिणी ॥ ५५॥ तस्यैव महिषी नाम्रा शिवकामा च सुन्दरी । सा परब्रह्ममहिषी सदानन्दा शुभप्रदा ॥ ५६॥ शिवकामसुन्दरीनाम्नां सहस्रं प्रोक्तमम्बिके । एतस्य सदृशं स्तोत्रं नास्ति नास्ति जगत्त्रये ॥ ५७॥ सत्यं सत्यं पुनस्सत्यं त्वां शपेऽहं वदामि ते । नास्तिकाय कृतघ्नाय विप्रद्वेषपराय च ॥ ५८॥ न देयं वेदविप्रर्षिभक्तियुक्ताय शाम्भवि । देयं त्रिपुरविद्येशीत्यथर्वश्रुति चोदितम् ॥ ५९॥ विस्तृतेन किमन्यच्च श्रोतुकामासि सुन्दरि । इति निगदितवन्तं राजते पर्वतेऽस्मिन् नवमणिगणपीठे संस्थितं देवमीशम् । मुहुरपि कृतनम्रा भक्तिनम्रा भवानी करयुगसरसिजेनालिलिङ्गातिगाढम् ॥ ६०॥ इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रोत्तरपीठिका सम्पूर्णा ॥ ॥ शिवमस्तु ॥