अक्षर आकार:

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

shrIshivakAmasundarIsahasranamastotram

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

ॐ अस्य श्री शिवकामसुन्दरीसहस्रनामस्तोत्रमहा मन्त्रस्य । आनन्दभैरवदक्षिणामूर्तिः ऋषिः । देवी गायत्री छन्दः । श्रीशिवकामसुन्दरी देवता । बीजं शक्तिः कीलकं कराङ्गन्यासौ च श्रीमहात्रिपुरसुन्दरीमहामन्त्रवत् । ॥ ध्यानम् ॥ पद्मस्थां कनकप्रभां परिलसत्पद्माक्षियुग्मोत्पलाम् अक्षस्रक्षुकशारिकाकटिलसत् कल्हार हस्ताब्जिनीम् । रक्तस्रक्सुविलेपनाम्बरधरां राजीवनेत्रार्चितां ध्यायेत् श्रीशिवकामकोष्ठनिलयां नृत्तेश्वरस्य प्रियाम् ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताण्टङ्कयुक्तां अक्षस्रक्पुष्पहस्ता सशुककटिकरां चन्द्रचूडां त्रिनेत्रीम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां यासापद्मासनस्थां शिवपदसहितां सुन्दरीं चिन्तयामि ॥ रत्नताटङ्कसंयुक्तां सुवर्णकवचान्विताम् । दक्षिणोर्ध्वकराग्रेण स्वर्णमालाधरां शुभाम् ॥ दक्षाधः करपद्मेन पुल्लकल्हार धारिणीम् । वामेनोएध्वकराब्जेन शुकार्भकधरां वराम् । कटिदेशे वामहस्तं न्यस्यन्तीं च सुदर्शनाम् ॥ शिवकामसुन्दरीं नौमि प्रसन्नवदनां शिवाम् । लमित्पादिपञ्चपूजा ॥ ॥ अथ श्रीशिवकामसुन्दरीसहस्रनामावलिः ॥ ॐ ऐं ह्रीं श्रीं अं ॥ ॐ अगण्यायै नमः । ॐ अगण्यमहिमायै नमः । ॐ असुरप्रेतासनस्थितायै नमः । ॐ अजरायै नमः । ॐ अमृत्युजननायै नमः । ॐ अकालान्तकभीकरायै नमः । ॐ अजायै नमः । ॐ अजांशसमुद्भूतायै नमः । ॐ अमरालीवृतगोपुरायै नमः । ॐ अत्युग्राजिनटच्छत्रुकबन्धानेककोटिकायै नमः । १० ॐ अद्रिदुर्गायै नमः । ॐ अणिमासिद्धिदापितेष्टामरावल्यै नमः । ॐ अनन्तायै नमः । ॐ अनन्यसुलभप्रियायै नमः । ॐ अद्भुतविभूषणायै नमः । ॐ अनूरुकरसङ्काशायै नमः । ॐ अखण्डानन्दस्वरूपिण्यै नमः । ॐ अन्धीकृतद्विजारातिनेत्रायै नमः । ॐ अत्युग्राट्टहासिन्यै नमः । ॐ अन्नपूर्णायै नमः । २० ॐ अपरायै नमः । ॐ अलक्ष्यायै नमः । ॐ अम्बिकायै नमः । ॐ अघविनाशिन्यै नमः । ॐ अपारकरुणापूरनिभरेखां जनाक्षिण्यै नमः । ॐ अमृताम्भोधिमध्यस्थायै नमः । ॐ अणिमासिद्धिमुखाश्रितायै नमः । ॐ अरविन्दाक्षमालालिपात्रशूलधरायै नमः । ॐ अनघायै नमः । ॐ अश्वमेधमखावाप्तहविःपुजकृतादरायै नमः । ३० ॐ अश्वसेनावृतायै नमः । ॐ अनेकपारूढायै नमः । ॐ अगजन्मभूः ॐ ऐं ह्रीं श्रीं आं - नमः । ॐ आकाशविग्रहायै नमः । ॐ आनन्ददात्र्यै नमः । ॐ आज्ञाब्जभासुरायै नमः । ॐ आचारतत्परस्वान्तपद्मसंस्थायै नमः । ॐ आढ्यपूजितायै नमः । ॐ आत्मायत्तजगच्चक्रायै नमः । ॐ आत्मारामपरायणायै नमः । ४० ॐ आदित्यमण्डलान्तस्थायै नमः । ॐ आदिमध्यान्तवर्जितायै नमः । ॐ आद्यन्तरहितायै नमः । ॐ अचार्यायै नमः । ॐ आदिक्षान्तार्णरूपिण्यै नमः । ॐ आद्यायै नमः । ॐ अमात्युनुतायै नमः । ॐ आज्यहोमप्रीतायै नमः । ॐ आवृताङ्गनायै नमः । ॐ आधारकमलारूढायै नमः । ५० ॐ आधाराधेयविवर्जितायै नमः । ॐ आधिहीनायै नमः । ॐ आसुरीदुर्गायै नमः । ॐ आजिसङ्क्षोभितासुरायै नमः । ॐ आधोरणाज्ञाशुण्डाग्राकृष्टासुरगजावृतायै नमः । ॐ आश्चर्यवियहायै नमः । ॐ आचार्यसेवितायै नमः । ॐ आगमसंस्तुतायै नमः । ॐ आश्रिताखिलदेवादिवृन्दरक्षणतत्परायै ॐ ऐं ह्रीं श्रीं इं - नमः । ॐ इच्छाज्ञानक्रियाशक्तिरूपायै नमः । ६० ॐ इरावतिसंस्तुतायै नमः । ॐ इन्द्राणीरचितश्वेतच्छत्रायै नमः । ॐ इडाभक्षणप्रियायै नमः । ॐ इन्द्रा नमः । ॐ इन्द्रार्चितायै नमः । ॐ इन्द्राण्यै नमः । ॐ इन्दिरापतिसोदर्यै नमः । ॐ इन्दिरायै नमः । ॐ इन्दीवरश्यामायै नमः । ॐ इरम्मदसमप्रभायै नमः । ७० ॐ इभकुम्भाभवक्षोजद्वयायै नमः । ॐ इक्षुधनुर्धरायै नमः । ॐ इभदन्तोरुनयनायै नमः । ॐ एन्द्रगोपसमाकृत्यै नमः । ॐ इभशुण्डोरुयुगलायै नमः । ॐ इन्दुमण्डलमध्यगायै नमः । ॐ इष्टार्तिघ्नीयै नमः । ॐ इष्टवरदायै नमः । ॐ एभवक्त्रप्रियङ्कर्यै ॐ ऐं ह्रीं श्रीं ईं - नमः । ॐ ईशित्वसिद्धिसंप्रार्थितापसायै नमः । ८० ॐ इषत्स्मिताननायै नमः । ॐ ईश्वर्यै नमः । ॐ इशप्रियायै नमः । ॐ इशताण्डवालोकनोन्सुकायै नमः । ॐ ईक्षणोत्पन्नभुवनकदम्बायै नमः । ॐ इड्यवैभवायै ॐ ऐं ह्रीं श्रीं उं - नमः । ॐ उच्चनीचादिरहितायै नमः । ॐ उरुकान्तारवासिन्यै नमः । ॐ उत्साहरहितेन्द्रारये नमः । ॐ उरुसन्तोषितामरायै नमः । ९० ॐ उदासीनायै नमः । ॐ उडुराड्वक्त्रायै नमः । ॐ उग्रकृत्यविदुषिण्यै नमः । ॐ उपाधिरहितायै नमः । ॐ उपादानकारणायै नमः । ॐ उन्मत्तनृर्तक्यै नमः । ॐ उरुस्यन्दनसम्बद्धकोट्यश्वायै नमः । ॐ उरुपराक्रमायै नमः । ॐ उल्कामुख्यै नमः । ॐ उमादेव्यै नमः । १०० ॐ उन्मत्तक्रोधभैरव्यै ॐ ऐं ह्रीं श्रीं ऊं - नमः । ॐ ऊर्जिताज्ञायै नमः । ॐ ऊढभुवनकदम्बायै नमः । ॐ ऊर्ध्वमुखावल्यै नमः । ॐ ऊर्ध्वप्रसारिताङ्घ्रीशदर्शनोद्विग्रमानसायै नमः । ॐ ऊहापोहविहीनायै नमः । ॐ ऊरुजितरम्भामनोहरायै ॐ ऐं ह्रीं श्रीं ऋं - नमः । ॐ ऋग्वेदसंस्तुतायै नमः । ॐ ऋद्धिदायिन्यै नमः । ॐ ऋणमोचिन्यै नमः । ११० ॐ ऋजुमार्गपरप्रीतायै नमः । ॐ ऋषभध्वजभासुरायै नमः । ॐ ऋद्धिकाममुनिव्रातसत्रयागसमर्चितायै ॐ ऐं ह्रीं श्रीं ॠं - नमः । ॐ ॠकारवाच्यायै नमः । ॐ ॠक्षादिवृतायै नमः । ॐ ॠकारनासिकायै ॐ ऐं ह्रीं श्रीं लृं - नमः । ॐ लृकरिण्यै नमः । ॐ लृकारोष्ठायै ॐ ऐं ह्रीं श्रीं लॄं - नमः । ॐ लॄवर्णाधरपल्लवायै ॐ ऐं ह्रीं श्रीं एं - नमः । ॐ एकाकिन्यै नमः । १२० ॐ ऐकमन्त्राक्षरायै नमः । ॐ ऐधितोत्साहवल्लभायै ॐ ऐं ह्रीं श्रीं ऐं - नमः । ॐ ऐश्वर्यदात्र्यै ॐ ऐं ह्रीं श्रीं ॐ - नमः । ॐ ओङ्कारवादिवागीशसिद्धिदायै नमः । ॐ ओजःपुञ्जघनीसान्द्ररूपिण्यो नमः । ॐ ओङ्कारमध्यगायै नमः । ॐ ओषधीशमनुप्रीतायै ॐ ऐं ह्रीं श्रीं औं - नमः । ॐ औदार्यगुपावारिध्यै नमः । ॐ औपम्यरहिताचैव ॐ ऐं ह्रीं श्रीं अं - नमः । ॐ अम्बुजासनसुन्दर्यै नमः । १३० ॐ अम्बराधीशनटनसाक्षिण्यै ॐ ऐं ह्रीं श्रीं अः - नमः । ॐ अः पददायिन्यै ॐ ऐं ह्रीं श्रीं कं - नमः । ॐ कबरीबन्धमुखरीभमरभ्रमरालकायै नमः । ॐ करवाललताधाराभीषणायै नमः । ॐ कौमुदीनिभायै नमः । ॐ कर्पूराम्बायै नमः । ॐ कालरात्र्यै नमः । ॐ काल्यै नमः । ॐ कलिविनाशिन्यै नमः । ॐ कादिविद्यामय्यै नमः । १४० ॐ काम्यायै नमः । ॐ काञ्चनाभायै नमः । ॐ कलावत्यै नमः । ॐ कामेश्वर्यै नमः । ॐ कामराजमनुप्रीतायै नमः । ॐ कृपावत्यै नमः । ॐ कार्तवीर्यद्विसाहस्रदोर्दण्डपटहध्वन्यै नमः । ॐ किटिवक्त्राधिकारोद्यद्गणप्रोत्साहिताङ्गनायै नमः । ॐ कीर्तिप्रदायै नमः । ॐ कीर्तिमत्यै नमः । १५० ॐ कुमार्यै नमः । ॐ कुलसुन्दर्यै नमः । ॐ कुन्तायुधधरायै नमः । ॐ कुब्जिकाम्बायै नमः । ॐ कुध्रविहारिण्यै नमः । ॐ कुलागमरहस्यज्ञवाञ्छादानपरायणायै नमः । ॐ कूटस्थितिजुष्यै नमः । ॐ कूर्मपृष्ठजित्प्रपदान्वितायै नमः । ॐ केकाशब्दतिरस्कारिबाणासनमणीरवायै नमः । ॐ केशाकेशिचणायै नमः । १६० ॐ केशिराक्षसाधिपमर्दिन्यै नमः । ॐ कैतकच्छदसन्ध्याभपिशङ्गितकचाम्बुदायै नमः । ॐ कैलासोत्तुङ्गश‍ृङ्गाद्रविलासेशपराजितायै नमः । ॐ कैशिक्यारभटीरीतिस्तुतरक्तेश्वरीप्रियायै नमः । ॐ कोकाहितकरस्पर्धिनखायै नमः । ॐ कोकिलवादिन्यै नमः । ॐ कोपहुङ्कारसन्त्रस्तससेनासुरनायकायै नमः । ॐ कोलाहलरवोद्रेकरिङ्खज्जम्बुकमण्डलायै नमः । ॐ कौणिडन्यान्वयसम्भूतायै नमः । ॐ करिचर्माम्बरप्रियायै नमः । १७० ॐ कौपीनशिष्टविप्रर्षिस्तुतायै नमः । ॐ कौलिकदेशिकायै नमः । ॐ कौसुम्भास्तरणायै नमः । ॐ कौलमार्गनिष्ठान्तरास्थितायै नमः । ॐ कङ्कणाहिगणक्षेमवचनोद्विग्नतार्क्ष्यकायै नमः । ॐ कञ्जाक्ष्यै नमः । ॐ कञ्जविनुतायै नमः । ॐ कञ्जजातिप्रियङ्कर्यै ॐ ऐं ह्रीं श्रीं खं - नमः । ॐ खड्गखेटकदोर्दण्डायै नमः । ॐ खट्वाङ्ग्यै नमः । १८० ॐ खड्गसिद्धिदायै नमः । ॐ खण्डितासुरगर्वाद्र्यै नमः । ॐ खलादृष्टस्वरूपिण्यै नमः । ॐ खण्डेन्दुमौलिहृदयायै नमः । ॐ खण्डितार्केन्दुमण्डलायै नमः । ॐ खरांशुतापशमन्यै नमः । ॐ खस्थायै नमः । ॐ खेचरसंस्तुतायै नमः । ॐ खेचर्यै नमः । ॐ खेचरीमुद्रायै नमः । १९० ॐ खेचराधीशवाहनायै नमः । ॐ खेलापारावतरतिप्रीतायै नमः । ॐ खाद्यायितान्तकायै ॐ ऐं ह्रीं श्रीं गं - नमः । ॐ गगनायै नमः । ॐ गगनान्तस्थायै नमः । ॐ गगनाकारमध्यमायै नमः । ॐ गजारूढायै नमः । ॐ गजमुख्यै नमः । ॐ गाथागीतामराङ्गनायै नमः । ॐ गदाधर्यै नमः । २०० ॐ गदाधातमूर्छितानेकपासुरायै नमः । ॐ गरिमालघिमासिद्धिवृतायै नमः । ॐ ग्रामादिपालिन्यै नमः । ॐ गर्वितायै नमः । ॐ गन्धवसनायै नमः । ॐ गन्धवाहसमर्चितायै नमः । ॐ गर्वितासुरदाराश्रुपङ्किताजिवसुन्धरायै नमः । ॐ गायत्र्यै नमः । ॐ गानसन्तुष्टायै नमः । ॐ गन्धर्वाधिपतीडितायै नमः । २१० ॐ गिरिदुर्गायै नमः । ॐ गिरीशानसुतायै नमः । ॐ गिरिवराश्रयायै नमः । ॐ गिरीन्द्रक्रूरकठिनकर्षद्धलवरायुधायै नमः । ॐ गीतचारित्रहरितशुकैकगतमानसायै नमः । ॐ गीतिशास्त्रगुरवे नमः । ॐ गीतिहृदयायै नमः । ॐ गीरे नमः । ॐ गिरीश्वर्यै नमः । ॐ गीर्वाणदनुजाचार्यपूजितायै नमः । २२० ॐ गृध्रवाहनायै नमः । ॐ गुडपायससन्तुष्टहृद्ये नमः । ॐ गुप्ततरयोगिन्यै नमः । ॐ गुणातीतायै नमः । ॐ गुरुवे नमः । ॐ गौर्यै नमः । ॐ गोप्त्र्यै नमः । ॐ गोविन्दसोदर्यै नमः । ॐ गुरुमूर्तये नमः । ॐ गुणाम्भोधये नमः । २३० ॐ गुणागुणविवर्जितायै नमः । ॐ गुहेष्टदायै नमः । ॐ गुहावासियोगिचिन्तितरूपिण्यै नमः । ॐ गुह्यागमरहस्यज्ञायै नमः । ॐ गुह्यकानन्ददायिन्यै नमः । ॐ गुह्यायै नमः । ॐ गुह्यार्चितायै नमः । ॐ गुह्यस्थानबिन्दुस्वरूपिण्यै नमः । ॐ गोदावरीनदीतीरवासिन्यै नमः । ॐ गुणवर्जितायै नमः । २४० ॐ गोमेदकमणीकर्णकुण्डलायै नमः । ॐ गोपपालिन्यै नमः । ॐ गोसवासक्तहृदयायै नमः । ॐ गोश‍ृङ्गध्यानमोदिन्यै नमः । ॐ गङ्गागर्वङ्कषोद्युक्तरुद्रप्रोत्साहवादिन्यै नमः । ॐ गन्धर्ववनितामालामोदिन्यै नमः । ॐ गर्वनाशिन्यै नमः । ॐ गुञ्जामणिगणप्रोतमालाभासुरकन्धरायै ॐ ऐं ह्रीं श्रीं घं - नमः । ॐ घटवाद्यप्रियायै नमः । ॐ घोरकोणपघ्न्यै नमः । २५० ॐ घटार्गलायै नमः । ॐ घटिकायै नमः । ॐ घटिकामुख्यषट्पारायणमोदिन्यै नमः । ॐ घण्टाकर्णादिविनुतायै नमः । ॐ घनज्योतिर्लतानिभायै नमः । ॐ घनश्यामायै नमः । ॐ घटोत्भूततापसात्मार्थदेवतायै नमः । ॐ घनसारानुलिप्ताङ्ग्यै नमः । ॐ घोणोद्धृतवसुन्धरायै नमः । ॐ घनस्फटिकसङ्क्लृप्तसालान्तरकदम्बकायै नमः । २६० ॐ घनाल्युद्भेदशिखरगोपुरानेकमन्दिरायै नमः । ॐ घूर्णीताक्ष्यै नमः । ॐ घृणासिन्धवे नमः । ॐ घृणिविद्यायै नमः । ॐ घटेश्वर्यै नमः । ॐ घृतकाठिन्यहृदे नमः । ॐ घण्टामणिमालाप्रसाधनायै नमः । ॐ घोरकृत्यायै नमः । ॐ घोरवाद्यायै नमः । ॐ घोराघौघविनाशिन्यै नमः । २७० ॐ घोराय नमः । ॐ घनकृपायुक्तायै नमः । ॐ घननीलाम्बरान्वितायै नमः । ॐ घोरास्यायै नमः । ॐ घोरशूलाग्रप्रोतासुरकलेबरायै नमः । ॐ घोषत्रस्तान्तकभटायै नमः । ॐ घोरसङ्घोषकृद्बलायै ॐ ऐं ह्रीं श्रीं ङं - नमः । ॐ ङान्तार्णाद्यमनुप्रीतायै नमः । ॐ ङाकारायै नमः । ॐ डीम्परायणायै नमः । २८० ॐ ङीकारिममञ्जुमञ्जीरचरणायै नमः । ॐ ङाङ्कित्ताङ्गुल्यै ॐ ऐं ह्रीं श्रीं चं - नमः । ॐ चक्रवर्तिसमाराध्यायै नमः । ॐ चक्रनेमिरवोन्तुकायै नमः । ॐ चण्डमार्ण्डधिक्कारिप्रभायै नमः । ॐ चक्राधिनायिकायै नमः । ॐ चण्डालास्यपरामोदायै नमः । ॐ चण्डवादपटीयस्यै नमः । ॐ चण्डिकायै नमः । ॐ चण्डकोदण्डायै नमः । २९० ॐ चण्डघ्न्यै नमः । ॐ चण्डभैरव्यै नमः । ॐ चतुरायै नमः । ॐ चतुराम्नायशिरोलक्षितरूपिण्यै नमः । ॐ चतुरङ्गबलोपेतायै नमः । ॐ चराचरविनोदिन्यै नमः । ॐ चतुर्वक्त्रायै नमः । ॐ चक्रहस्तायै नमः । ॐ चक्रपाणिसमर्चितायै नमः । ॐ चतुष्षष्टिकलारूपायै नमः । ३०० ॐ चतुष्षष्यचर्चनोस्तुकायै नमः । ॐ चन्द्रमण्डलन्ध्ययस्थायै नमः । ॐ चतुर्वर्गफलप्रदायै नमः । ॐ चमरीमृगयोद्युक्तायै नमः । ॐ चिरञ्जीवित्वदायिन्यै नमः । ॐ चम्पकाशोकस्रद्बद्धचिकुरायै नमः । ॐ चरुभक्षिण्यै नमः । ॐ चराचरजगद्धात्र्यै नमः । ॐ चन्द्रिकाधवलस्मितायै नमः । ॐ चर्माम्बरधरायै नमः । ३१० ॐ चण्डक्रोधहुङ्कारभीकरायै नमः । ॐ चाटुवादप्रियायै नमः । ॐ चामीकरपर्वतवासिन्यै नमः । ॐ चापिन्यै नमः । ॐ चापमुक्तेषुच्छन्नदिग्भ्रान्तपन्नगायै नमः । ॐ चित्रभानुमुख्यै नमः । ॐ चित्रसेनायै नमः । ॐ चित्राङ्गदेष्टदायै नमः । ॐ चित्रलेखायै नमः । ॐ चिदाकाशमध्यगायै नमः । ३२० ॐ चिन्तितार्थदायै नमः । ॐ चिन्त्यायै नमः । ॐ चिरन्तन्यै नमः । ॐ चित्रायै नमः । ॐ चित्राम्बायै नमः । ॐ चित्तवासिन्यै नमः । ॐ चैतन्यरूपायै नमः । ॐ चिच्छक्त्यै नमः । ॐ चिदम्बरविहारिण्यै नमः । ॐ चोरघ्न्यै नमः । ३३० ॐ चीर्यविमुखायै नमः । ॐ चतुर्दशमनुप्रियायै ॐ ऐं ह्रीं श्रीं छं - नमः । ॐ छत्रचामरभृल्लक्ष्मीवागिन्द्राणीरतीवृतायै नमः । ॐ छन्दश्शास्त्रमय्यै नमः । ॐ छन्दोलक्ष्यायै नमः । ॐ छेदविवर्जितायै नमः । ॐ छन्दोरूपायै नमः । ॐ छन्दगत्यै नमः । ॐ छन्दश्शिरविहारिण्यै नमः । ॐ छद्महृते नमः । ३४० ॐ छविसन्दीप्तसूर्यचन्द्राग्नितारकायै नमः । ॐ छर्दिताण्डावल्यै नमः । ॐ छादिताकारायै नमः । ॐ छिन्नसंशयायै नमः । ॐ छायापतिसमाराध्यायै नमः । ॐ छायाम्बायै नमः । ॐ छत्रसेवितायै नमः । ॐ छिन्नमस्ताबिकायै नमः । ॐ छिन्नशीर्षशत्रवे नमः । ॐ छलान्तक्यै नमः । ३५० ॐ छेदितासुरजिह्वाग्रायै नमः । ॐ छत्रीकृतयशस्विन्यै ॐ ऐं ह्रीं श्रीं जं - नमः । ॐ जगन्मातात्रै नमः । ॐ जगत्साक्षिण्यै नमः । ॐ जगद्योने नमः । ॐ जगद्गुरवे नमः । ॐ जगन्मायायै नमः । ॐ जगन्त्वृन्दवन्दितायै नमः । ॐ जयिन्यै नमः । ॐ जयायै नमः । ३६० ॐ जनजाड्यप्रतापघ्न्यै नमः । ॐ जितासुरमहाव्रजायै नमः । ॐ जनन्यै नमः । ॐ जगदानन्ददात्र्यै नमः । ॐ जह्नुसमर्चितायै नमः । ॐ जपमालावराभीतिमुद्रापुस्तकधारिण्यै नमः । ॐ जपयज्ञपराधीनहृदयायै नमः । ॐ जगदीश्वर्यै नमः । ॐ जपाकुसुमसङ्काशायै नमः । ॐ जन्मादिध्वंसकारणायै नमः । ३७० ॐ जालध्रपूर्णकामोड्याणचतुष्पीठरूपिण्यै नमः । ॐ जीवनार्थिद्विजव्रातत्राणनाबद्धकङ्कणायै नमः । ॐ जीवब्रह्मैकताकाङ्क्षिजनताकीर्णपार्वभूः नमः । ॐ जम्भिन्यै नमः । ॐ जम्भभित्पूल्यायै नमः । ॐ जाग्रदादित्रयातिगायै नमः । ॐ जलदग्रिधरायै नमः । ॐ ज्वालाप्रोच्चकेश्यै नमः । ॐ ज्वरार्तिहृते नमः । ॐ ज्वालामालिनिकायै नमः । ३८० ॐ ज्वालामुख्यै नमः । ॐ जैमिनिसंस्तुतायै ॐ ऐं ह्रीं श्रीं झं - नमः । ॐ झलञ्झलकृतस्वर्णमञ्जीरायै नमः । ॐ झषलोचनायै नमः । ॐ झषकुण्डलिन्यै नमः । ॐ झल्लरीवाद्यमुदिताननायै नमः । ॐ झषकेतुसमाराध्यायै नमः । ॐ झषमांसान्नभक्षिण्यै नमः । ॐ झषोपद्रवकृद्धन्त्र्यै नमः । ॐ झ्म्रूम्मन्त्राधिदेवतायै नमः । ३९० ॐ झञ्झानिलातिगमनायै नमः । ॐ झषराण्णीतसागरायै ॐ ऐं ह्रीं श्रीं ज्ञं - नमः । ॐ ज्ञानमुद्राधरायै नमः । ॐ ज्ञानिहृत्पद्मकुहरास्थितायै नमः । ॐ ज्ञानमूर्तये नमः । ॐ ज्ञानगम्यायै नमः । ॐ ज्ञानदायै नमः । ॐ ज्ञातिवर्जितायै नमः । ॐ ज्ञेयायै नमः । ॐ ज्ञेयादिरहितायै नमः । ४०० ॐ ज्ञात्र्यै नमः । ॐ ज्ञानस्वरूपिण्यै ॐ ऐं ह्रीं श्रीं टं - नमः । ॐ टङ्कपुष्पालिस्रङ्मञ्जुकन्धरायै नमः । ॐ टङ्किताचलायै नमः । ॐ टङ्कवेत्रादिकानेकशस्त्रभृद्दोर्लतावल्यै नमः । ॐ ठकारनिभवक्षोजद्वयाधोवृत्तभासुरायै नमः । ॐ ठकाराङ्कितजान्वग्रजितकोरकिताम्बुजायै ॐ ऐं ह्रीं श्रीं शं - नमः । ॐ डाकिन्यै नमः । ॐ डामरीतन्त्ररूपायै नमः । ॐ डाडिमपाटलायै नमः । ४१० ॐ डम्बघ्न्यै नमः । ॐ डम्बराडम्बरोन्मुख्यै नमः । ॐ डमरुप्रियायै नमः । ॐ डिम्बदानचणायै नमः । ॐ डोलामुदितायै नमः । ॐ डुण्ठिपूजितायै ॐ ऐं ह्रीं श्रीं ढं - नमः । ॐ ढकानिनदसन्तुष्टशिखिनृत्तसमुत्सुकायै ॐ ऐं ह्रीं श्रीं णं - नमः । ॐ णकारपञ्जरशुक्यै नमः । ॐ णकारोद्यानकोकिलायै ॐ ऐं ह्रीं श्रीं तं - नमः । ॐ तत्वातीतायै नमः । ४२० ॐ तपोलक्ष्यायै नमः । ॐ तप्तकाञ्चनसन्निभायै नमः । ॐ तन्त्र्यै नमः । ॐ तत्वमसीवाक्यविषयायै नमः । ॐ तरुणीवृतायै नमः । ॐ तर्जन्यङ्गुष्ठसंयोगज्ञानब्रह्ममुनीश्वरायै नमः । ॐ तर्जितानेकदनुजायै नमः । ॐ तक्षक्यै नमः । ॐ तडितालिभायै नमः । ॐ ताम्रचूडध्वजोत्सङ्गायै नमः । ४३० ॐ तापत्रयविनाशिन्यै नमः । ॐ ताराम्बायै नमः । ॐ तारक्यै नमः । ॐ तारापूज्यायै नमः । ॐ ताण्डवलोलुपायै नमः । ॐ तिलोत्तमादिदेवस्त्रीशारीरोन्सुकमानसायै नमः । ॐ तिल्वद्रुसङ्कुलाभोगकान्तारान्तरवासिन्यै नमः । ॐ त्रयीद्विड्रसनारक्तपानलोलासिधारिण्यै नमः । ॐ त्रयीमय्यै नमः । ॐ त्रयीवेद्यायै नमः । ४४० ॐ त्र्यय्यन्तोद्गीतवैभवायै नमः । ॐ त्रिकोणस्थायै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिकूटायै नमः । ॐ त्रिपुरेश्वर्यै नमः । ॐ त्रिचत्वारिंशदश्राङ्कचक्रान्तर्बिन्दुसंस्थितायै नमः । ॐ त्रितारायै नमः । ॐ तुम्बुरूद्गीतायै नमः । ॐ तार्क्ष्याकारायै नमः । ॐ त्रिकाग्निजायै नमः । ४५० ॐ त्रिपुरायै नमः । ॐ त्रिपुरध्वंसिप्रियायै नमः । ॐ त्रिपुरसुन्दर्यै नमः । ॐ त्रिस्थायै नमः । ॐ त्रिमूर्तिसहजशक्त्यै नमः । ॐ त्रिपुरभैरव्यै ॐ ऐं ह्रीं श्रीं थं - नमः । ॐ थां थीकरमृदगादिभृद्विष्णुमुखसेवितायै नमः । ॐ थां थीं तक्तक थिं तोकृत्तालध्वनिसभाङ्गणायै ॐ ऐं ह्रीं श्रीं दं - नमः । ॐ दक्षायै नमः । ॐ दाक्षायण्यै नमः । ४६० ॐ दक्षप्रजापतिमखान्तक्यै नमः । ॐ दक्षिणाचाररसिकायै नमः । ॐ दयासम्पूर्णमानसायै नमः । ॐ दारिद्रयोन्मूलिन्यै नमः । ॐ दानशीलायै नमः । ॐ दोषविवर्जितायै नमः । ॐ दारुकान्तकर्यै नमः । ॐ दारुकारण्यमुनिमोहिन्यै नमः । ॐ दीर्घदंष्ट्राननायै नमः । ॐ दीर्घरसनागीर्णदानवायै नमः । ४७० ॐ दीक्षितायै नमः । ॐ दीक्षिताराध्यायै नमः । ॐ दीनसंरक्षणोद्यतायै नमः । ॐ दुःखाब्धिबडबायै नमः । ॐ दुर्गायै नमः । ॐ दुम्बीजायै नमः । ॐ दुरितापहायै नमः । ॐ दुष्टदूरायै नमः । ॐ दुराचारशमन्यै नमः । ॐ द्यूतवेदिन्यै नमः । ४८० ॐ द्विजावगूरणस्वान्तपिशितामोदिताण्डजायै ॐ ऐं ह्रीं श्रीं धं - नमः । ॐ धनदायै नमः । ॐ धनदाराध्यायै नमः । ॐ धनदाप्तकुटुम्बिन्यै नमः । ॐ धराधरात्मजायै नमः । ॐ धर्मरूपायै नमः । ॐ धरणिधूर्धरायै नमः । ॐ धात्र्यै नमः । ॐ धातृशिरच्छेत्र्यै नमः । ॐ धीध्येयायै नमः । ४९० ॐ धुवपूजितायै नमः । ॐ धूमावत्यै नमः । ॐ धूम्रनेत्रगर्वसंहारिण्यै नमः । ॐ धृत्यै ॐ ऐं ह्रीं श्रीं नं - नमः । ॐ नखोत्पन्नदशाकारमाधवायै नमः । ॐ नकुलीश्वर्यै नमः । ॐ नरनारायणस्तुत्यायै नमः । ॐ नलिनायतलोचनायै नमः । ॐ नरास्थिस्रग्धरायै नमः । ॐ नार्यै नमः । ५०० ॐ नरप्रेतोपरिस्थितायै नमः । ॐ नवाक्षर्यै नमः । ॐ नाममन्त्रजपप्रीतायै नमः । ॐ नटेश्वर्यै नमः । ॐ नादचामुण्डिकायै नमः । ॐ नानारूपकृते नमः । ॐ नास्तिकान्तक्यै नमः । ॐ नादब्रह्ममय्यै नमः । ॐ नामरूपहीनायै नमः । ॐ नताननायै नमः । ५१० ॐ नारायण्यै नमः । ॐ नन्दिविद्यायै नमः । ॐ नारदोद्गीतवैभवायै नमः । ॐ निगमागमसंवेद्यायै नमः । ॐ नेत्र्यै नमः । ॐ नीतिविशारदायै नमः । ॐ निर्गुणायै नमः । ॐ नित्यसन्तुष्टायै नमः । ॐ नित्याषोडशिकावृतायै नमः । ॐ नृसिंहदर्पशमन्यै नमः । ५२० ॐ नरेन्द्रगणवन्दितायै नमः । ॐ नौकारूढासमुत्तीर्णभवाम्भोधिनिजाश्रितायै ॐ ऐं ह्रीं श्रीं पं - नमः । ॐ परमायै नमः । ॐ परमज्योतिषे नमः । ॐ परब्रह्ममय्यै नमः । ॐ परायै नमः । ॐ परापरमय्यै नमः । ॐ पाशबाणाङ्कुशधनुर्धरायै नमः । ॐ पराप्रासादमन्त्रार्थायै नमः । ॐ पतञ्जलिसमर्चितायै नमः । ५३० ॐ पापघ्न्यै नमः । ॐ पाशरहितायै नमः । ॐ पार्वत्यै नमः । ॐ परमेश्वर्यै नमः । ॐ पुण्यायै नमः । ॐ पुलिन्दिनीपूज्यायै नमः । ॐ प्राज्ञायै नमः । ॐ प्रज्ञानरूपिण्यै नमः । ॐ पुरातनायै नमः । ॐ पराशक्त्यै नमः । ५४० ॐ पञ्चवर्णस्वरूपिण्यै नमः । ॐ प्रत्यङ्गिरसे नमः । ॐ पानपात्रधरायै नमः । ॐ पीनोन्नतस्तन्यै ॐ ऐं ह्रीं श्रीं फं - नमः । ॐ फडर्णध्वस्तपापौघदासायै नमः । ॐ फणिवरेडितायै नमः । ॐ फणिरत्नासनासीनकामेशोत्सङ्गवासिन्यै नमः । ॐ फलदायै नमः । ॐ फल्गुनप्रीतायै नमः । ॐ फुल्लाननसरोरुहायै नमः । ५५० ॐ पुल्लोत्तप्ताङ्गसाहस्रदलपङ्कजभासुरायै ॐ ऐं ह्रीं श्रीं बं - नमः । ॐ बन्धूकसुमनोरागायै नमः । ॐ बादरायणदेशिकायै नमः । ॐ बालाम्बायै नमः । ॐ बाणकुसुमायै नमः । ॐ बगलामुखिरूपिण्यै नमः । ॐ बिन्दुचक्रस्थितायै नमः । ॐ बिन्दुतर्पणप्रीतमानसायै नमः । ॐ बृहत्सामस्तुतायै नमः । ॐ ब्रह्ममायायै नमः । ५६० ॐ ब्रह्मर्षिपूजितायै नमः । ॐ बृहदैश्वर्यदायै नमः । ॐ बन्धहीनायै नमः । ॐ बुधसमर्चितायै नमः । ॐ ब्रह्मचामुण्डिकायै नमः । ॐ ब्रह्मजनन्यै नमः । ॐ ब्राह्मणप्रियायै नमः । ॐ ब्रह्मज्ञानप्रदायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ ब्रह्माण्डनायिकायै नमः । ५७० ॐ ब्रह्मतालप्रियायै नमः । ॐ ब्रह्मपञ्चमञ्चकशायिन्यै नमः । ॐ ब्रह्मादिविनुतायै नमः । ॐ ब्रह्मपत्न्यै नमः । ॐ ब्रह्मपुरस्थितायै नमः । ॐ ब्राह्मीमाहेश्वरीमुख्यशक्तिवृन्दसमावृतायै ॐ ऐं ह्रीं श्रीं भं - नमः । ॐ भगाराध्यायै नमः । ॐ भगवत्यै नमः । ॐ भार्गव्यै नमः । ॐ भार्गवार्चितायै नमः । ५८० ॐ भण्डासुरशिरश्छेत्र्यै नमः । ॐ भाषासर्वस्वदर्शिन्यै नमः । ॐ भद्रायै नमः । ॐ भद्रार्चितायै नमः । ॐ भद्रकाल्यै नमः । ॐ भर्गस्वरूपिण्यै नमः । ॐ भवान्यै नमः । ॐ भाग्यदायै नमः । ॐ भीमायै नमः । ॐ भामत्यै नमः । ५९० ॐ भीमसैनिकायै नमः । ॐ भुजङ्गनटनोद्युक्तायै नमः । ॐ भुजनिर्जितदानवायै नमः । ॐ भ्रुकुटीक्रूरवदनायै नमः । ॐ भ्रूमध्यनिलयस्थितायै नमः । ॐ भेतालनटनप्रीतायै नमः । ॐ भोगिराजाङ्गुलीयकायै नमः । ॐ भेरुण्डायै नमः । ॐ भेदनिर्मुक्तायै नमः । ॐ भैरव्यै नमः । ६०० ॐ भैरवार्चितायै ॐ ऐं ह्रीं श्रीं मं - नमः । ॐ मणिमण्डपमध्यस्थायै नमः । ॐ माणिक्याभरणान्वितायै नमः । ॐ मनोन्मन्यै नमः । ॐ मनोगम्यायै नमः । ॐ महादेवपतित्रतायै नमः । ॐ मन्त्ररूपायै नमः । ॐ महाराज्ञ्यै नमः । ॐ महासिद्धालिसंवृतायै नमः । ॐ मन्दरादिकृतावासायै नमः । ६१० ॐ महादेव्यै नमः । ॐ महेश्वर्यै नमः । ॐ महाहिधमेखलायै नमः । ॐ मार्गदुर्गायै नमः । ॐ माङ्गल्यदायिन्यै नमः । ॐ महावतक्रतुप्रीतायै नमः । ॐ माणिभद्रसमर्चितायै नमः । ॐ महिषासुरशिरश्छेदनर्तक्यै नमः । ॐ मुण्डखमिडन्यै नमः । ॐ मात्रे नमः । ६२० ॐ मरकटश्यामायै नमः । ॐ मातङ्ग्यै नमः । ॐ मतिसाक्षिण्यै नमः । ॐ माधव्यै नमः । ॐ माधवाराध्यायै नमः । ॐ मधुमांसप्रियायै नमः । ॐ मह्यै नमः । ॐ मार्यै नमः । ॐ मारान्तक क्षोभकारिण्यै नमः । ॐ मीनलोचनायै नमः । ६३० ॐ मालतीकुन्दमालाढ्यायै नमः । ॐ माषौदनसमुन्सुकायै नमः । ॐ मिथुनासक्तहृदयायै नमः । ॐ मोहिताशेषविष्टपायै नमः । ॐ मुद्रायै नमः । ॐ मुद्राप्रियायै नमः । ॐ मूर्खनाशिन्यै नमः । ॐ मेषभक्षिण्यै नमः । ॐ मूकाम्बायै नमः । ॐ मुखजामोदजनकालोकनप्रियायै नमः । ६४० ॐ मौनव्याख्यापरायै नमः । ॐ मौनसत्यचिन्मात्रलक्षणायै नमः । ॐ मौञ्जीकच्छधरायै नमः । ॐ मौर्वीद्विरेफमुखरोन्मुखायै ॐ ऐं ह्रीं श्रीं यं - नमः । ॐ यज्ञवृन्दप्रियायै नमः । ॐ यष्ट्र्यै नमः । ॐ यान्तवर्णस्वरूपिण्यै नमः । ॐ यन्त्ररूपायै नमः । ॐ यशोदात्मजातसजुतवैभवायै नमः । ॐ यशस्कर्यै नमः । ६५० ॐ यमाराध्यायै नमः । ॐ यजमानाकृतिर्यत्यै नमः । ॐ याकिन्यै नमः । ॐ यक्षरक्षादिवृतायै नमः । ॐ यजनतर्पणायै नमः । ॐ याथार्थ्यविग्रहायै नमः । ॐ योग्यायै नमः । ॐ योगिन्यै नमः । ॐ योगनायिकायै नमः । ॐ यामिन्यै नमः । ६६० ॐ यजनोत्साहायै नमः । ॐ यामिनीचरभक्षिण्यै नमः । ॐ यायजूकर्चितपदायै नमः । ॐ यज्ञेश्यै नमः । ॐ यक्षिणीश्वर्यै नमः । ॐ यासापद्मधरायै नमः । ॐ यासापसान्तरपरिष्कृतायै नमः । ॐ योषाऽभयङ्कर्यै नमः । ॐ योषिद्वृन्दसमर्चितायै ॐ ऐं ह्रीं श्रीं रं - नमः । ॐ रक्तचामुण्डिकायै नमः । ६७० ॐ रात्रिदेवतायै नमः । ॐ रागलोलुपायै नमः । ॐ रक्तबीजप्रशमन्यै नमः । ॐ रजोगन्धनिवारिण्यै नमः । ॐ रणरङ्गनट्ये नमः । ॐ रत्त्रमञ्जीरचरणाम्बुजायै नमः । ॐ रजध्ववस्ताचलायै नमः । ॐ रागहीनमानसहंसिन्यै नमः । ॐ रसनालेपितक्रूररक्तबीजकलेबरायै नमः । ॐ रक्षाकर्यै नमः । ६८० ॐ रमायै नमः । ॐ रम्यायै नमः । ॐ रञ्जिन्यै नमः । ॐ रसिकावृतायै नमः । ॐ राकिण्यम्बायै नमः । ॐ रामनुतायै नमः । ॐ रमावाणीनिषेवितायै नमः । ॐ रागालापपरब्रह्म शिरो मालाप्रसाधनायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राज्ञ्यै नमः । ६९० ॐ राजीवनयनप्रियायै नमः । ॐ राजव्रातकिरीटांशुनीराजितपदाम्बुजायै नमः । ॐ रुद्रचामुण्डिकायै नमः । ॐ रुक्मसदृशायै नमः । ॐ रुधिरप्रियायै नमः । ॐ रुद्रताण्डवसामर्थ्यदर्शनोत्सुकमानसायै नमः । ॐ रुद्राट्टहाससङ्क्षुभ्यज्जगन्तुष्टिविधायिन्यै नमः । ॐ रुद्राण्यै नमः । ॐ रुद्रवनितायै नमः । ॐ रुरुराजहितैषिण्यै नमः । ७०० ॐ रेणुकायै नमः । ॐ रेणुकासूनुस्तुत्यायै नमः । ॐ रेवाविहारिण्यै नमः । ॐ रोगघ्न्यै नमः । ॐ रोषनिर्दग्धशत्रुसेनानिवेशिन्यै नमः । ॐ रोहिणीशांशुसं भुतझरीरत्नवितानकायै नमः । ॐ रौद्र्यै नमः । ॐ रौद्रास्त्रनिर्दग्धराक्षसायै नमः । ॐ राहुपूजितायै ॐ ऐं ह्रीं श्रीं लं - नमः । ॐ लघूक्तिवल्गुस्तिमितवाणीत्यक्तविपञ्चिकायै नमः । ७१० ॐ लज्जावत्यै नमः । ॐ ललत्प्रोच्चकेशायै नमः । ॐ लम्बिपयोधरायै नमः । ॐ लयादिकर्त्र्यै नमः । ॐ लोमालिलतानाभीसरः कट्यै नमः । ॐ ललदोष्ठदलद्वन्द्ववदनायै नमः । ॐ लक्ष्यदूरगायै नमः । ॐ ललन्तिकामणीभास्वन्निटिलश्रीमुखाम्बुजायै नमः । ॐ ललाटार्धनिशानाथकलङ्कोद्भासिलोचनायै नमः । ॐ ललितायै नमः । ७२० ॐ लोभिन्यै नमः । ॐ लोभहीनायै नमः । ॐ लोकेश्वर्यै नमः । ॐ लघवे नमः । ॐ लक्ष्मयै नमः । ॐ लक्ष्मीशसहजायै नमः । ॐ लक्ष्मणाग्रजवन्दितायै नमः । ॐ लाकिन्यै नमः । ॐ लघितापृभोधिनिवहायै नमः । ॐ ललिताग्बिकायै नमः । ७३० ॐ लाजहोमप्रियायै नमः । ॐ लम्बमुक्ताभासुरनासिकायै नमः । ॐ लाभालाभादिरहितायै नमः । ॐ लास्यदर्शनकोविदायै नमः । ॐ लावण्यदर्शनोद्विग्नरतीशायै नमः । ॐ लधुभाषिण्यै नमः । ॐ लाक्षारसाञ्चितपदायै नमः । ॐ लधुश्यामायै नमः । ॐ लतातनवे नमः । ॐ लाक्षालक्ष्मीतिरस्कारियुगलाधरपल्लवायै नमः । ७४० ॐ लीलागतिपराभूतहंसायै नमः । ॐ लीलाविनोदिन्यै नमः । ॐ लीलानन्दनकल्पद्रुमलताडोलाविहारिण्यै नमः । ॐ लीलापीताब्धिविनुतायै नमः । ॐ लीलास्वीकृतवियहायै नमः । ॐ लीलाशुकोस्तिमुदितायै नमः । ॐ लीलामृगविहारिण्यै नमः । ॐ लोकमात्रे नमः । ॐ लोकसृष्टिस्थितिसंहारकारिण्यै नमः । ॐ लोकातीतपदायै नमः । ७५० ॐ लोकवन्द्यायै नमः । ॐ लोकैकसाक्षिण्यै नमः । ॐ लोकातीताकृतये नमः । ॐ लब्धमार्गत्यागपरान्तक्यै नमः । ॐ लोकानुल्लङ्घितनिजशासनायै नमः । ॐ लब्धविग्रहायै नमः । ॐ लोमावलिलता-लम्बिस्तनयुग्मनताननायै नमः । ॐ लोलचित्तविदूरस्थायै नमः । ॐ लोमलम्ब्यण्डजालकायै नमः । ॐ लबितारिशिरोहस्तायै नमः । ७६० ॐ लोकरक्षापरायणायै ॐ ऐं ह्रीं श्रीं वं - नमः । ॐ वनदुर्गायै नमः । ॐ विन्ध्यदलवासिन्यै नमः । ॐ वामकेश्वर्यै नमः । ॐ वशिन्यादिस्तुतायै नमः । ॐ वह्निज्वालोद्गारिमुख्यै नमः । ॐ वरायै नमः । ॐ वक्षोजययुग्मविरहासहिष्णुकरशङ्करायै नमः । ॐ वाङ्मनोतीतविषयायै नमः । ॐ वामाचारसमुत्सुकायै नमः । ७७० ॐ वाजपेयाध्वरानन्दायै नमः । ॐ वासुदेवेष्टदायिन्यै नमः । ॐ वादित्रध्वनिसम्भ्रान्तदिग्गजालये नमः । ॐ विधीडितायै नमः । ॐ वामदेववसिष्ठादिपूजितायै नमः । ॐ वारिदप्रभायै नमः । ॐ वामस्तनाश्लिष्द्धस्तपद्मशम्भुविहारिण्यै नमः । ॐ वाराह्यै नमः । ॐ वास्तुमध्यस्थायै नमः । ॐ वासवान्तः पुरेष्टदायै नमः । ७८० ॐ वाराङ्गनानीतपूर्णकुम्भदीपालिमण्टपायै नमः । ॐ वारिजासनशीर्षालिमालायै नमः । ॐ वार्धिसरोवरायै नमः । ॐ वारितासुरदर्पश्रीयै नमः । ॐ वार्धघ्नीमन्त्ररूपिण्यै नमः । ॐ वार्ताल्यै नमः । ॐ वारुणीविद्यायै नमः । ॐ वरुणारोग्यदायिन्यै नमः । ॐ विजयायै नमः । ॐ विजयास्तुत्यायै नमः । ७९० ॐ विरूपायै नमः । ॐ विश्वरूपिण्यै नमः । ॐ विप्रशत्रुकदम्बघ्न्यै नमः । ॐ विप्रपूज्यायै नमः । ॐ विषापहायै नमः । ॐ विरिञ्चिशिक्षणोद्युक्तमधुकैटभनाशिन्यै नमः । ॐ विश्वमात्रे नमः । ॐ विशालाक्ष्यै नमः । ॐ विरागायै नमः । ॐ वीशवाहनायै नमः । ८०० ॐ वीतरागवृतायै नमः । ॐ व्याघ्रपाद नृत्तप्रदर्शिन्यै नमः । ॐ वीरभद्रहतोन्मत्तदक्षयज्ञाश्रितामरायै नमः । ॐ वेदवेद्यायै नमः । ॐ वेदरूपायै नमः । ॐ वेदाननसरोरुहायै नमः । ॐ वेदान्तविषयायै नमः । ॐ वेणुनादज्ञायै नमः । ॐ वेदपूजितायै नमः । ॐ वौषट्मन्त्रमयाकारायै नमः । ८१० ॐ व्योमकेश्यै नमः । ॐ विभावर्यै नमः । ॐ वन्द्यायै नमः । ॐ वाग्वादिन्यै नमः । ॐ वन्यमांसाहारायै नमः । ॐ वनेश्वर्यै नमः । ॐ वाञ्छाकल्पलतायै नमः । ॐ वाण्यै नमः । ॐ वाक्प्रदायै नमः । ॐ वागधीश्वर्यै ॐ ऐं ह्रीं श्रीं शं - नमः । ८२० ॐ शक्तिवृन्दावृतायै नमः । ॐ शब्दमय्यै नमः । ॐ श्रीचक्ररूपिण्यै नमः । ॐ शबर्यै नमः । ॐ शबरीदुर्गायै नमः । ॐ शरभेशच्छदाकृत्यै नमः । ॐ शब्दजालोद्भवढ्ढक्कारवासन्दिग्धतापसायै नमः । ॐ शरणागतसन्त्राणपरायणपटीयस्यै नमः । ॐ शशाङ्कशेखरायै नमः । ॐ शस्त्रधरायै नमः । ८३० ॐ शतमुखाम्बुजायै नमः । ॐ शातोदर्यै नमः । ॐ शान्तिमत्यै नमः । ॐ शरच्चन्द्रनिभाननायै नमः । ॐ शापापनोदनचणायै नमः । ॐ शङ्कादोषादिनाशिन्यै नमः । ॐ शिवकामसुन्दर्यै नमः । ॐ श्रीदायै नमः । ॐ शिववामाङ्गवासिन्यै नमः । ॐ शिवायै नमः । ८४० ॐ श्रीदाननिपुणलोचनायै नमः । ॐ श्रीपतिप्रियायै नमः । ॐ शुकादिद्विजवृन्दोक्तिस्तब्धमानसगीष्पत्यै नमः । ॐ शुक्रमण्डलसङ्काशमुक्तामालायै नमः । ॐ शुचिस्मितायै नमः । ॐ शुक्लदंष्ट्राग्रसन्दीप्तपातालभ्रान्तपन्नगायै नमः । ॐ शुभ्रासनायै नमः । ॐ शूरसेनावृतायै नमः । ॐ शूलादिनाशिन्यै नमः । ॐ शूकवृश्चिकनागाखुर्वृकह्रिंस्रालिसंवृतायै नमः । ८५० ॐ शूलिन्यै नमः । ॐ शूलड्गाहिशङ्खचक्रगदाधरायै नमः । ॐ शोकाब्धिशोषणोद्युक्तबडवायै नमः । ॐ श्रोत्रियावृतायै नमः । ॐ शङ्करालिङ्गनानन्दमेदुरायै नमः । ॐ शीतलाम्बिकायै नमः । ॐ शङ्कर्यै नमः । ॐ शङ्करार्धाङ्गहरायै नमः । ॐ शाक्करवाहनायै नमः । ॐ शम्भुकोपाग्निनिर्दग्धमदनोत्पादकेक्षणायै नमः । ८६० ॐ शाम्भव्यै नमः । ॐ शम्भुहस्ताब्जलीलारुणकरावल्यै नमः । ॐ श्रीविद्यायै नमः । ॐ शुभदायै नमः । ॐ शुभवस्त्रायै नमः । ॐ शुम्भासुरान्तक्यै ॐ ऐं ह्रीं श्रीं षं - नमः । ॐ षडाधाराब्जनिलयायै नमः । ॐ षाड्गुण्यश्रीप्रदायिन्यै नमः । ॐ षडूर्मिघ्न्यै नमः । ॐ षडध्वान्तपदारूढस्वरूपिण्यै नमः । ८७० ॐ षट्कोणमध्यनिलयायै नमः । ॐ षडर्णायै नमः । ॐ षान्तरूपिण्यै नमः । ॐ षड्जादिस्वरनिर्मात्र्यै नमः । ॐ षडङ्गयुवतीश्वर्यै नमः । ॐ षड्भावरहितायै नमः । ॐ षण्डकण्टक्यै नमः । ॐ षण्मुखप्रियायै नमः । ॐ षड्सास्वादमुदितायै नमः । ॐ षष्ठीशादिमदेवतायै नमः । ८८० ॐ षोढान्यासमयाकारायै नमः । ॐ षोडशाक्षरदेवतायै ॐ ऐं ह्रीं श्रीं सं - नमः । ॐ सकलायै नमः । ॐ सच्चिदानन्दलक्षणायै नमः । ॐ सौख्यदायिन्यै नमः । ॐ सनकादिमुनिध्येयायै नमः । ॐ सन्ध्यानाट्यविशारदायै नमः । ॐ समस्तलोकजनन्यै नमः । ॐ सभानटनरञ्जिन्यै नमः । ॐ सरः पुलिनलीलार्थियुवतीनिवहोत्सुकायै नमः । ८९० ॐ सरस्वत्यै नमः । ॐ सुराराध्यायै नमः । ॐ सुरापानप्रियासुरायै नमः । ॐ सरोजलविहारोद्यत्प्रियाकृष्टोत्तरांशुकायै नमः । ॐ साध्यायै नमः । ॐ साध्यादिरीहतायै नमः । ॐ स्वतन्त्रायै नमः । ॐ स्वस्तिरूपिण्यै नमः । ॐ साध्व्यै नमः । ॐ सङ्गीतरसिकायै नमः । ९०० ॐ सर्वदायै नमः । ॐ सर्वमङ्गलायै नमः । ॐ सामोद्गीतनिजानन्दमहिमालये नमः । ॐ सनातनायै नमः । ॐ सारस्वतप्रदायै नमः । ॐ सामायै नमः । ॐ संसारार्णवतारिणीम् नमः । ॐ सावित्र्यै नमः । ॐ सङ्गनिर्मुक्तायै नमः । ॐ सतीश्यै नमः । ९१० ॐ सर्वतोमुख्यै नमः । ॐ साख्यतत्वज्ञनिवहव्यापिसालायै नमः । ॐ सुखेश्वर्यै नमः । ॐ सिद्धसङ्घावृतायै नमः । ॐ सान्ध्यवन्दितायै नमः । ॐ साधुसत्कृतायै नमः । ॐ सिंहासनगतायै नमः । ॐ सर्वश‍ृङ्गाररसवारिध्यै नमः । ॐ सुधाब्धिमध्यनिलयायै नमः । ॐ स्वर्णद्वीपान्तरस्थितायै नमः । ९२० ॐ सुधासिक्तालवालोद्यत्कायमानलतागृहायै नमः । ॐ सुभगायै नमः । ॐ सुन्दर्यै नमः । ॐ सुभ्रुवे नमः । ॐ समुपास्यत्वलक्षणायै नमः । ॐ सुरद्रुसङ्कुलाभोगतटायै नमः । ॐ सौदामिनीनिभायै नमः । ॐ सुरभीकेशसम्भ्रान्तद्विरेफमुखरान्वितायै नमः । ॐ सूर्यचन्द्रांशुधिक्कारिप्रभारत्नालिमण्डपायै नमः । ॐ सोमपानोद्भवामोदविप्रगीतापदानकायै नमः । ९३० ॐ सोमयागप्रियायै नमः । ॐ सोमसूर्यवह्निविलोचनायै नमः । ॐ सौगन्धिकमरुद्वेगमोदितायै नमः । ॐ सद्विलासिन्यै नमः । ॐ सौन्दर्यमोहिताधीनवल्लभायै नमः । ॐ सन्ततिप्रदायै नमः । ॐ सौभाग्यमन्त्रिण्यै नमः । ॐ सत्यवादायै नमः । ॐ सागरमेखलायै नमः । ॐ स्वश्वासोच्छवासभुवनमोचनोन्मोचनायै नमः । ९४० ॐ स्वधायै ॐ ऐं ह्रीं श्रीं हं - नमः । ॐ हयारूढायै नमः । ॐ हयग्रीवविनुतायै नमः । ॐ हतकिल्बिषायै नमः । ॐ हरालिङ्गनशीतांशून्मिषन्नेत्रमुद्वत्यै नमः । ॐ हरिनाभिसमुद्भूतविरिञ्चिविनुतायै नमः । ॐ हरायै नमः । ॐ हादिविद्यायै नमः । ॐ हाकिन्यै नमः । ॐ हरिचण्डिकायै नमः । ९५० ॐ हारावलिप्रभादीप्तायै नमः । ॐ हरिदन्तदिगम्बरायै नमः । ॐ हालाहलविषोद्विग्रविष्टापानेकरक्षक्यै नमः । ॐ हाहाकाररवोद्गीतदनुजायै नमः । ॐ हारमञ्जुलायै नमः । ॐ हिमाद्रितनयायै नमः । ॐ हीरमकुटायै नमः । ॐ हारपन्नगायै नमः । ॐ हुताशनधरायै नमः । ॐ होमप्रियायै नमः । ९६० ॐ होत्र्यै नमः । ॐ हयेश्वर्यै नमः । ॐ हेमपद्मधरायै नमः । ॐ हेमवर्मराजसमर्चितायै नमः । ॐ हंसिन्यै नमः । ॐ हंसमन्त्रार्थायै नमः । ॐ हंसवाहायै नमः । ॐ हराङ्गभृते नमः । ॐ हृद्यायै नमः । ॐ हृद्यमनोनित्यनिवासायै नमः । ९७० ॐ हरकुटुम्बिन्यै नमः । ॐ ह्रीमत्यै नमः । ॐ हृदयाकाशतरण्यै नमः । ॐ ह्रिम्परायणायै ॐ ऐं ह्रीं श्रीं क्षं - नमः । ॐ क्षणदाचरसंहारचतुरायै नमः । ॐ क्षुद्रदुर्मुखायै नमः । ॐ क्षणदार्च्यायै नमः । ॐ क्षपानाथसुधार्द्रकबर्यै नमः । ॐ क्षित्यै नमः । ॐ क्षमायै नमः । ९८० ॐ क्षमाधरसुतायै नमः । ॐ क्षामक्षोभविनाशिन्यै नमः । ॐ क्षिप्रसिद्धिम्प्रदायै नमः । ॐ क्षिप्रगमनायै नमः । ॐ क्षुण्णिवारिण्यै नमः । ॐ क्षीणपुण्यासुहृते नमः । ॐ क्षीरवर्णायै नमः । ॐ क्षयविवर्जितायै नमः । ॐ क्षीरान्नाहारमुदितायै नमः । ॐ क्ष्म्र्यूम्मन्त्राप्तेष्टयोगिराजे नमः । ९९० ॐ क्षीराब्धितनयायै नमः । ॐ क्षीरघृतमध्वासवार्चितायै नमः । ॐ क्षुधार्तिदीनसन्त्राणायै नमः । ॐ क्षितिसंरक्षणक्षमायै नमः । ॐ क्षेमङ्कर्यै नमः । ॐ क्षेत्रपालवन्दितायै नमः । ॐ क्षेत्ररूपिण्यै नमः । ॐ क्षौमाम्बरधरायै नमः । ॐ क्षत्रसंप्रार्थितजयोत्सवायै नमः । ॐ क्ष्वेलभुग्रसनास्वादजातवाग्रसवैभवायै नमः । १००० इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामावलिः सम्पूर्णा ॥