अक्षर आकार:

श्रीशिवास्तुतिकदम्बम्

Shri Shivastutikadambam

श्रीशिवास्तुतिकदम्बम्

कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥ कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् । विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥ वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् । तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥ तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् । सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥ नयनजितपद्मगर्वे नय नतमेनं महापदवीम् । मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥ नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् । पारदसमानवर्णां शारदचन्द्राननां भजे गौरीम् ॥ ६॥ पङ्कजसमानवक्त्रामङ्कगतां बालचन्द्रचूडस्य । सङ्कर्षणादिविनुतां शङ्करचरणार्चनां नमामि शिवाम् ॥ ७॥ पाकारिमुखसुरेड्यां केकानीकाशवचनसद्भङ्गीम् । कोकारिशिशुवतंसां शोकापहरां नमामि शिवदयिताम् ॥ ८॥ बाहुजितपङ्कजस्रजमाहुर्यां कालिदासमुखकवयः । तां हुतवहाभवस्त्रां मुहुर्मुहुर्नमामि जगदम्बाम् ॥ ९॥ यवकोटिसूक्ष्मरूपे खजितपरपुष्टगर्वसर्वस्वे । नवनवकवित्वदायिनि शिवमानसहंसि मां पाहि ॥ १०॥ यावकसमानवर्णं तावकमम्बाङ्घ्रिपङ्कजद्वन्द्वम् । स्तावकसुखततिदं खलु पावकशशिसूर्यमण्डलान्तःस्थे ॥ ११॥ वाचां ततिं ददानां मोचां नीचां विधातुमतिचतुराम् । प्राचां वचसां गेयामाचान्ताघां नमामि गिरितनयाम् ॥ १२॥ पालितदिविजे पृथ्वीपालितनिजदासनिकुरुम्बे । पर्वतपतितनयेऽव सुपर्वतरोर्दर्पहरणचतुरे माम् ॥ १३॥ सरसिजमुखि नम्राग्रेसरसिद्धिविधायिनि क्षिप्रम् । भवजलधिपारदा त्वं भव जलजास्ये भवानि मम तरसा ॥ १४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशिवास्तुतिकदम्बं सम्पूर्णम् ।