अक्षर आकार:

श्रीशिवास्तुतिः

Shri Shivastutih

श्रीशिवास्तुतिः

(शिष्याशीर्वचनात्मकस्तवाः) कालाहङ्कारनिर्वापणचणहृदयाम्भोजबालारुणाभे कायक्लेशादिहीनैरपि सुखसुलभैः सेवनैः प्रीयमाणे । काणादाक्षाङ्घ्रिशेषप्रमुखबुधवरैश्चिन्त्यमानाङ्घ्रिपद्मे सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ यत्पादाम्भःप्रभूतप्रणतिरतिजवात्कर्तुमीष्टे जगत्यां कादाचित्कापि मूकं सुरगुरुजयिनं वाग्भिरन्यादृशाभिः । सा त्वं वेलाविहीनप्रसृमरकरुणापूरपूर्णैः कटाक्षैः सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ २॥ यां बोद्धुं शान्तिदान्तिप्रमुखगुणवरैः संयतन्ते यतीन्द्राः यस्याः कारुण्यलेशाज्जगति जनततिर्जन्ममृत्यू जहाति । सा त्वं सच्चित्स्वरूपा शुकमुखमुनिभिश्विन्त्यमाना नितान्तं सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ ३॥ विद्यानाथाब्जनेत्रप्रमुखसुरवराराध्यपादारविन्दे विद्यादानप्रवीणे प्रणतजनमनोबोधदानव्रताढ्ये । कायश्रीधिक्कृतोद्यद्दिनकरनिकरे चक्रराजासनस्थे सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशिवास्तुतिः समाप्ता ।