अक्षर आकार:

शिवास्तोत्रम्

shivAstotram

शिवास्तोत्रम्

शिवारूपधरे देवि कामकालि नमोऽस्तु ते । उल्कामुखि ललज्जिह्वे घोररावे श‍ृगालिनि ॥ १॥ श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे । अरण्यचारिणि शिवे फेरो जम्बूकरूपिणि ॥ २॥ नमोऽस्तु ते महामाये जगत्तारिणि कालिके । मातङ्गि कुक्कुटे रौद्रि कालकालि नमोऽस्तु ते ॥ ३॥ var कालिकालि सर्वसिद्धिप्रदे देवि भयङ्करि भयावहे । var सर्वसिद्धिप्रदे भीमे प्रसन्ना भव देवेशि मम भक्तस्य कालिके ॥ ४॥ संसारतारिणि जये जय सर्वशुभङ्करि । विस्रस्तचिकुरे चण्डे चामुण्डे मुण्डमालिनि ॥ ५॥ संहारकारिणि क्रुद्धे सर्वसिद्धिं प्रयच्छ मे । दुर्गे किराति शवरि प्रेतासनगतेऽभये ॥ ६॥ अनुग्रहं कुरु सदा कृपया मां विलोकय । राज्यं प्रयच्छ विकटे वित्तमायुः सुतान् स्त्रियम् ॥ ७॥ शिवाबलिविधानेन प्रसन्ना भव फेरवे । नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ॥ ८॥ इत्येतैरष्टभिः श्लोकैः शिवास्तोत्रमुदीरयेत् । इत्यादिनाथविरचितायां महाकालसंहितायां कामकलाखण्ड्यां उत्तरीभागे शिवाबलिप्रयोगो नामे चतुर्थपटलान्तर्गतं शिवास्तोत्रं सम्पूर्णम् । Verses 111-118 Mahakalasamhita Kamakalakhanda (uttara) Patal 4