अक्षर आकार:

श्रीगायत्रीशापविमोचनम् अथवा गायर्त्रीशापोद्धारस्तोत्रम्

shrI gAyatrIshApavimochanam athavA gAyartrIshApoddhArastotram

श्रीगायत्रीशापविमोचनम् अथवा गायर्त्रीशापोद्धारस्तोत्रम्

शापमुक्ता हि गायत्री चतुर्वर्गफलप्रदा । अशापमुक्ता गायत्री चतुर्वर्गफलान्तका ॥ ॐ अस्य श्रीब्रह्मशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः अथवा ब्रह्मा ऋषिः । कामदुघा गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसो वाचमग्रतः । ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् । ॐ देवि गायत्री त्वं ब्रह्म शापात् विमुक्ता भव ॥ ॐ अस्य श्रीवसिष्ठशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता वसिष्ठऋषिः । विश्वोद्भवा गायत्री छन्दः । वसिष्ठानुग्रहिता गायत्रीशक्ति देवताः । वसिष्ठ शाप विमोचनार्थं जपे विनियोगः ॥ तत्त्वानि चाङ्गेष्वग्निचितो धियांसः ध्यायति विष्णोरायुधानि बिभ्रत् । जनानता सा परमा च शश्वत् । गायत्रीमासाच्छुरनुत्तम च धाम ॐ गायत्रीवसिष्ठशापाद्विमुक्ता भव । ॐ सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहं ॥ (इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व ) ( योनि मुद्रा दिखाकर ३-तीन बार गायत्री मन्त्र का जाप करे ।) ॐ देवी गायत्री त्वं वसिष्ठ शापात् विमुक्ता भव ॥ ॐ अस्य श्रीविश्वामित्रशापविमोचनमन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्रऋषिः । वाग्दोहा गायत्री छन्दः । विश्वामित्रानुगृहिता गायत्री शक्तिः सविता देवता । विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥ तत्त्वानि चाङ्गेष्वग्निचितो धियांसस्त्रिगर्भां यदुद्भवां देवाश्चोचिरे विश्वसृष्टिम् । तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतो वेदगर्भः ॥ ॐ गायत्रि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः । देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये ॥ ॐ देवी गायत्री त्वं विश्वामित्र शापात् विमुक्ता भव ॥ ॐ अस्य श्रीशुक्रशापविमोचनमन्त्रस्य श्रीशुक्र ऋषिः । अनुष्टुप्छन्दः । देवि गायत्री देवताः । शुक्र शाप विमोचनार्थं जपे विनियोगः ॥ सोऽहमर्कमयं ज्योतिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहं ॥ ॐ देवी गायत्री त्वं शुक्र शापात् विमुक्ता भव ॥ प्रार्थना । ॐ अहो देवि महादेवि सन्ध्ये विद्ये सरस्वती । अजरे अमरे चैव ब्रह्मयोनिर्निमोऽस्तुते ॥ ॐ देवी गायत्री त्वं ब्रह्मशापात् विमुक्ता भव । वसिष्ठशापात् विमुक्ता भव । विश्वामित्रशापात् विमुक्ता भव । शुक्रशापात् विमुक्ता भव ॥ The sequence and some details differ from print to print.