अक्षर आकार:

श्रीशूलिनीविश्वरूपस्तुतिः

shrIshUlinIvishvarUpastutiH

श्रीशूलिनीविश्वरूपस्तुतिः

श्रीदेव्युवाच - सर्वसिद्धिप्रदायिन्याः शूलिन्याः सर्वबोधक । विश्वरूपस्तुतिं श्रोतुं इच्छाम्यद्याहमादरात् ॥ १॥ var इच्छाम्यहमिहादरात् श्रीशिव उवाच -- साधु कल्याणि तत्मर्वं यद्यदुक्तं मयाऽधुना । अतिगुह्यतमं श्रेष्ठं स्मरणात्सर्वसिद्धिदम् ॥ २॥ सर्वरोगप्रशमनं सर्वोत्पातविनाशनम् । सर्वदुःख(दुर्ग) हरं दिव्यं सर्वभीतिनिवारणम् ॥ ३॥ सर्वक्रूरक्रियापद्घ्नं सर्वपापविमोचनम् । सर्वाभीष्टप्रदं रम्यं सद्यस्तादात्म्यसिद्धिदम् ॥ ४॥ वक्ष्यमाणस्तुतिं मन्त्री ज्ञात्वा गुरुमुखात् दृढम् । ध्यायन् ध्यायन् प्रतिश्लोकं सर्वकर्माणि साधयेत् ॥ ५॥ नानाविधक्रियाभेदस्वरूपां शूलिनीं क्रमात् । ध्यात्वा प्रतिदिनं मन्त्रं (मन्त्री) त्रिवारं प्रजपेत्पृथक् ॥ ६॥ सकृद्वा सकलां सिद्धिं सुहृद्भिः सह भूतले । लब्ध्वा सुखी भवेन्मन्त्री सर्वानुग्रहकृत्स्वयम् ॥ नानाविशेषसङ्कल्पविकल्परहितं फलम् । प्राप्नोति नित्यभावात्मा समष्टिव्यष्टिभेदतः ॥ ८॥ समष्ट्याऽखिलमाप्नोति व्यष्ट्या तत्तत्क्रियाफलम् । तस्मात्सकलरूपां तां ध्यायेत्सकलसिद्धये ॥ ९॥ var सर्वार्थसिद्धये अथवा विविधं रूपं पृथक् सङ्कल्पपूर्वकम् । भावयन् प्रजपेन्मन्त्रं (मन्त्री) तत्तत्कर्मंफलाप्तये ॥ १०॥ सर्वकार्यसमुद्युक्तः(क्तां) सर्वावरणसंवृताम् । शूलिनीं चक्रमध्यस्थां ध्यायन् मूलमनुं जपेत् ॥ ११॥ ॐ श्रीमये जगदाधारे जगदैश्वर्यसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १२॥ ॐ अमृते अमृतोद्भूते अमृताप्लाविताखिले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १३॥ ॐ आनन्दपूर्णनिलये आगमानामधीश्वरि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १४॥ ॐ इक्षुकार्मुकपुष्पास्त्रे इहामुत्रफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १५॥ ॐ ईशे ईहादिरहिते ईशादिसुरवन्दिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १६॥ ॐ उत्तमे उत्तमाराध्ये उद्यदादित्यसन्निभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १७॥ ॐ ऊर्ध्वाधोभागरहिते ऊर्जितज्ञानविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १८॥ ॐ ऋध्यादिशक्तिसंसेव्ये ऋग्यजुस्सामरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ १९॥ ॐ एकानेकविधाकारे एकान्तपदवासिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २०॥ ॐ ऐश्वर्यदाननिरते ऐक्यभावाशुसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २१॥ ॐ ओङ्कारनाम(द) रसिके ओजोबलविवर्धनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २२॥ ॐ औचित्यचित्रफलदे औदार्यगुणशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २३॥ ॐ अम्बिकेऽम्भोजवदने अम्बुदश्यामकोमले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २४॥ ॐ अष्टाष्टतन्त्रजनके अष्टधाकृतविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २५॥ ॐ करुणापूर्णनयने कल्याणवरदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २६॥ ॐ कामेशि कालरहिते कालवैश्वानरोपमे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २७॥ खड्गादि षट्पदक्रूरे खट्वाङ्गमुसलायुधे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २८॥ ॐ गर्वोद्धतारिहरणे गम्भीरे गगनाकृते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ २९॥ ॐ घर्मदे घार्णनादेष्टे(नाथेष्टे) घद्वार्विशाहुतिप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३०॥ ॐ चण्डोच्चण्डबलप्रौढे चतुर्वर्गफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३१॥ ॐ छन्नभक्ति (क्त्य) प्रिये छाये छत्रचामरशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३२॥ ॐ जङ्गमाजङ्गमाकारे जगज्जननि जातजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३३॥ ॐ झञ्झामरुन्मये झाली(लि) झङ्कारपदपङ्कजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३४॥ ॐ ञ्ंमिश्रितार्णमन्त्रार्थरहस्यफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३५॥ ॐ टङ्कायुधसमुध्वस्तमहासुरधराधरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३६॥ ॐ उत्तुङ्गशैलनिलये शङ्करप्राणवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३६॥ ॐ ठङ्कारशीत (श्रीकरो) रूद्भावभावनामृतवर्षिणि ॥ वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३७॥ (ठद्वयान्तमहामन्त्रभावनामृतवयिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ मातृकागतपद्यस्य दुर्ग्रहार्थत्वात् एवं भवतु इति भगवतीस्मरणपूर्वं परिवर्त्यते ॥) ॐ डाडिमीकुसुमप्रोद्यदरुणारुणविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३८॥ ॐ ढढं डमरुहस्ताब्जे डिण्डिमध्वानमोदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ३९॥ ॐ णार्ण संहृतियोगार्णसंवर्तपरिवर्तिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४०॥ (अयं पद्यभागः यथामातृकं दत्त । अस्य सङ्गतार्थकत्वे साधकविद्वांस एव प्रमाणम् ॥ (थ) यथाविधिहुतसमिदन्नाज्यप्रीतमानसे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥) ॐ तत्वातीते तत्वमये तत्वशोधनतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४१॥ ॐ दक्षेशि(दक्षारि (दि)) दर्पशमने दलिताखिलसङ्कटे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४२॥ ॐ धर्मादिवर्गफलदे धन्ये धारामृतात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४३॥ ॐ नमस्कारप्रिये नव्ये नाथे नवरसात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४४॥ ॐ परामृतप्रवाहे हे परकृत्याप्रमर्दिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४५॥ ॐ फलदे फालनयने फट्कारजि(ह) तपा(व) तके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४६॥ ॐ बन्धूकस्निग्धतिलके बिम्बाधरदलोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४७॥ ॐ भद्रकालि भयापद्घ्ने भक्षिताशेषविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४८॥ ॐ मनोन्मनि मदोन्मत्ते महेशाराधनप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ४९॥ ॐ यज्ञप्रिये यज्ञमये यथेष्टफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५०॥ ॐ रमादिसुन्दरीपूर्णे (र्णं) राजपीठाधिदेवते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५१॥ ॐ लसत्सोमकलाचूडे लावण्यातिशयोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५२॥ ॐ वरदाभयहस्ताब्जे वराराध्यपदाम्बुजे । var वीराराध्य वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५३॥ ॐ शङ्कादिपाशहत्णे शङ्करप्रियवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५४॥ ॐ षट्षष्टिकोटितीर्थेशि षड्विकारविवर्जिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५५॥ ॐ सर्वाकारे सर्वमये सर्वाभीष्टवरप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५६॥ ॐ हर्षिताशेषभुवने हतारातिकुले हरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५७॥ ॐ क्षमाकारे(करे) क्षमाकारे क्षामक्षोभविभञ्जने । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५८॥ ॐ अक्षय्यभाग्यवरदे अक्षानन्दन्वरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ५९॥ ॐ अलकेशादिभिर्वन्द्ये अहन्तागर्वशान्तिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६०॥ ॐ असतां दूरचरिते अशक्यप्रतितन्त्रके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६१॥ ॐ अवसानमकारस्थे अलसाद्यष्टभेदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६२॥ ॐ अरालालकसुस्निग्धे अयथाभक्तिदुःसहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६३॥ ॐ अमलेऽभङ्गुरेऽवश्ये अफालाक्षमदापहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६४॥ ॐ अपराधसहे दान्ते अधर्मङ्गुणदुःसहे! । var अपराधसहेऽनन्ते वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६५॥ ॐ अदनाद्याहुतिप्रीते अथाहकमुखाक्षरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६६॥ ॐ अनन्त (तन्त्र) चित्रकरणे अटवीचारतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६७॥ ॐ अजे अघादिरहिते अगराजकुलोद्भवे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६८॥ ॐ अखण्डानन्द (न्त) जनके अकालफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ ६९॥ अक्षान्ताक्षरभिन्नविग्रहवरे (परे) अन्तादिमध्यात्मिके अक्षालक्ष्यविचित्रकर्मकलने अत्युत्तमेऽचञ्चले । शिक्षारक्षितविश्वजीवसदये चिन्ताघनाशोद्यमे शिष्टेष्टार्थवरप्रदाननिरते चित्रे(त्ते)श्वरि त्राहि माम् ॥ ७०॥ इतीदं शूलिनीदेव्याः स्तोत्रं सर्वार्थसिद्धिदम् । आयुरारोग्यसौभाग्यपुत्रसिद्धि(पौत्र) समृद्धिदम् ॥ ७१॥ सर्वरोगप्रशमनं सर्वभूतनिवारणम् । सर्वक्षुद्रहरं दिव्यं-कृत्रिमोपद्रवापहम् ॥ ७२॥ चर्मग्रथितकीलादिशल्यभेदनिवर्तकम् । पुत्तलीशुष्कपोतादि कृत(त्रि)(मा)कार्ति निबर्हणम् ॥ ७३॥ var कृत्रिमार्तिनिबर्हणम् सक्ताङ्गुलीयबलयमूलिकाबन्धनार्तिहम् । नाडीबन्धाक्षगुम्भादिनानाशून्योपशान्तिदम् ॥ ७४॥ मातृशास्तृगणादीनां प्रेरणा (ण) व्यसनापहम् । मृगपक्ष्यहिमूषादिजीवव्याजार्तिकर्शनम् ॥ ७५॥ सर्वाभिचारशमनं शङ्काक्षुद्रविमोचनम् । अशेषाणामथान्यासां बाधानामुपशान्तिदम् ॥ ७६॥ तिथिवारर्क्षयोगोत्थसर्वाशुभभयापहम् । अरातिराष्ठसैन्यानां आक्रमोपद्रवापहम् ॥ ७७॥ सर्वपापप्रशमनं सर्वानुग्रहसिद्धिदम् । शान्तिपुष्टिकरं योगसिद्धिदं ज्ञानसि(वृद्धि)द्धिदम् ॥ ७८॥ विशेषात् शूलिनीदेव्याः कटाक्षेक्षणहेतुकम् । धर्मार्थकाममोक्षैकहेतुकं विश्वजीवनम् ॥ ७९॥ य इदं शूलिनीदुर्गादेव्याः स्तोत्रमनुत्तमम् । स्मरेद्वा प्रजपेद् ध्यानपूर्वकं विजितेन्द्रियः ॥ ८०॥ अवाप्य सकलान् कामान् भुक्त्वा भोगान् असङ्ख्यकान् । पितृमातृकुलस्निग्धबन्धुभृत्यावृतः स्वयम् ॥ ८१॥ सृष्ट्यादिपञ्चभेदानां कर्मणां महतां सदा । कर्ता भवति लोकानां समातिशयवर्जितः ॥ ८२॥ स्तोत्रमेतद्वरं दिव्यं रहस्यातिरहस्यकम् । मन्त्री विशुद्धहृदयो बाह्यव्यापारवर्जितः ॥ ८३॥ अशेषात्महृदम्भोजवासिनीं परदेवताम् । ध्यायन् प्रतिदिनं कुर्यात् जप सर्वार्तिशान्तये ॥ ८४॥ निग्रहानुग्रहे कार्ये विविधे मन्त्रवित्तमः । स्मरन् देवीं जपेत् स्तोत्रं मन्त्रं तत्तदवाप्तये ॥ ८५॥ बहुनोक्तेन किं मन्त्री यत्र यत्र स्मरन् जपेत् । तत्र तत्र स्थिता सैव सर्वाभीष्टप्रदा भवेत् ॥ ८६॥ यं यं मनसि सञ्चिन्त्य देवीं ध्यायन् जपेत् स्तुतिम् । तं तं काममवाप्नोति सर्वावस्यासु सर्वथा (दा) ॥ ८७॥ अनेन स्तुतिमन्त्रेण मन्त्र्य भस्मादिकौषधम् । प्रदापयेदशेषाणां तत्तकर्मा(काम्या) र्थसिद्धये ॥ ८८॥ इति परमरहस्यं स्तोत्रमेतत्परायाः प्रथितं उपसि भक्त्या ध्यानपूर्वं जपेद्यः । जगति निखिलभाग्यं दीर्घमायुः सुपुत्रान् विपुलविमलकीर्तिं प्राप्य मुक्तो भवेत्सः ॥ ८९॥ इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गाक्रियाभेदविघाने विश्वरूपस्तुतिर्नाम षष्ठोपदेशः ॥