अक्षर आकार:

श्रीश‍ृङ्गेरि शारदाष्टोत्तरशतनामावलिः

shrIshRingeri shAradAShTottarashatanAmAvaliH

श्रीश‍ृङ्गेरि शारदाष्टोत्तरशतनामावलिः

॥ अथ श्रीश‍ृङ्गेरि शारदाष्टोत्तरशतनामावलिः ॥ ॐ सरस्वत्यै नमः । ॐ महाभद्रायै नमः । ॐ महामायायै नमः । ॐ वरप्रदायै नमः । ॐ श्रीप्रदायै नमः । ॐ पद्मनिलयायै नमः । ॐ पद्मवक्त्रिकायै नमः । ॐ शिवानुजायै नमः । ॐ रामायै नमः । ॐ पुस्तकधारिण्यै नमः । १० ॐ कामरूपायै नमः । ॐ महाविद्यायै नमः । ॐ महापातकनाशिन्यै नमः । ॐ महाश्रियै नमः । ॐ महालक्ष्म्यै नमः । ॐ दिव्याङ्गायै नमः । ॐ मालिन्यै नमः । ॐ महाकाल्यै नमः । ॐ महापाशायै नमः । २० ॐ महाकारायै नमः । ॐ महाङ्कुशायै नमः । ॐ विनीतायै नमः । ॐ विमलायै नमः । ॐ विश्वायै नमः । ॐ विद्युन्मालायै नमः । ॐ विलासिन्यै नमः । ॐ चण्डिकायै नमः । ॐ चन्द्रवदनायै नमः । ॐ चन्द्रलेखाविभूषितायै नमः । ३० ॐ सावित्र्यै नमः । ॐ सुरसायै नमः । ॐ दिव्यायै नमः । ॐ दिव्यालङ्कारभूषितायै नमः । ॐ वाग्देव्यै नमः । ॐ वसुधायै नमः । ॐ तीव्रायै नमः । ॐ महाभोगायै नमः । ॐ महाबलायै नमः । ॐ गोदावर्यै नमः । ४० ॐ गोमत्यै नमः । ॐ जटिलायै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ गर्जिन्यै नमः । ॐ भेदिन्यै नमः । ॐ प्रीतायै नमः । ॐ सौदामिन्यै नमः । ॐ भोगदायै नमः । ॐ सत्यवादिन्यै नमः । ॐ सुधामूर्त्यै नमः । ५० ॐ सुभद्रायै नमः । ॐ सुरवन्दितायै नमः । ॐ यमुनायै नमः । ॐ सुप्रभायै नमः । ॐ निद्रायै नमः । ॐ नित्यायै नमः । ॐ नीरजलोचनायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ ब्रह्मिष्ठायै नमः । ६० ॐ त्रिगुणात्मिकायै नमः । ॐ महाशान्त्यै नमः । ॐ महाविद्यायै नमः । ॐ धारिण्यै नमः । ॐ सर्वात्मिकायै नमः । ॐ शास्त्ररूपायै नमः । ॐ शुम्भासुरमर्दिन्यै नमः । ॐ पद्मासनायै नमः । ॐ पद्महस्तायै नमः । ॐ रक्तबीजनिहन्त्र्यै नमः । ७० ॐ धूम्रलोचनदर्पघ्न्यै नमः । ॐ निशुम्भप्राणहारिण्यै नमः । ॐ चामुण्डायै नमः । ॐ चण्डहन्त्र्यै नमः । ॐ मुण्डकायप्रभेदिन्यै नमः । ॐ सुप्रभायै नमः । ॐ कालरात्र्यै नमः । ॐ सर्वदेवस्तुतायै नमः । ॐ अनघायै नमः । ॐ पञ्चाशद्वर्णरूपायै नमः । ८० ॐ सुधाकलशधारिण्यै नमः । ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ॐ कामार्यै नमः । ॐ वैष्णव्यै नमः । ॐ वाराह्यै नमः । ॐ माहेन्द्र्यै नमः । ॐ चित्राम्बरविभूषितायै नमः । ॐ चित्रमालाधरायै नमः । ॐ कान्तायै नमः । ९० ॐ चित्रगन्धानुलेपनायै नमः । ॐ अक्षमालाधरायै नमः । ॐ नित्यायै नमः । ॐ रूपसौभाग्यदायिन्यै नमः । ॐ श्वेताननायै नमः । ॐ नीलभुजायै नमः । ॐ पीवरस्तनमण्डितायै नमः । ॐ सूक्ष्ममध्यायै नमः । ॐ रक्तपादायै नमः । ॐ उन्मदायै नमः । १०० ॐ नीलजङ्घितायै नमः । ॐ बुद्धिरूपायै नमः । ॐ तुष्टिरूपायै नमः । ॐ निद्रारूपायै नमः । ॐ पुष्टिरूपायै नमः । ॐ चतुराननजायायै नमः । ॐ चतुर्वर्गफलदायै नमः । ॐ श्रीशारदाम्बिकायै नमः । १०८ इति श्रीश‍ृङ्गेरि शारदाष्टोत्तरशतनामावलिः ॥