अक्षर आकार:

श्रीशारिकास्तोत्रम्

Shri Sharika Stotram

श्रीशारिकास्तोत्रम्

श्रीशारिके शरण्ये त्वं मयि दासे कृपां कुरु । ऋणं रोगं भयं शोकं रिपुन्नाशय सत्वरम् ॥ प्रध्युम्नशिखरासीनां मातृचक्रोपशोभिताम् । पीठेश्वरीं शिलारूपां शारिकां प्रणमाम्यहम् ॥ अमा चैवतु कामा च चार्वङ्गी टङ्कधारिणी । तारा च पार्वती पायाद्यक्षिणी शारिकाष्टमी ॥ शान्तिं नयस्याशु जनस्य पापं रिक्तत्वमर्थेन निराकरोषि । कायं निषिञ्चस्यपि भाग्यपूरैः प्रगीयसेऽतः खलु शारिकात्वम् । अमे सुरेशि योगीन्द्रामृतपायनतत्परे । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ १॥ कामे कामितकामानां पूरणे पूर्णताप्रदे । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ २॥ चार्वङ्गि कोटिकन्दर्पलावण्ये विश्वमोहिनि । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ३॥ टङ्कवारिणि शत्रूणां तिलशो देहखण्डिनि । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ४॥ तारे निसर्गगम्भीरभवसागरतारिणि । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ५॥ पार्वति त्रिजगन्मातर्हिमवद्वंशपावने । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ६॥ यक्षिणीष्टाष्टसिद्धीनां दायिनि देवपूजिते । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ७॥ सत्त्वादिशबलेऽनन्तब्रह्माण्डजननीश्वरि । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ८॥ कलानिधिकलाकान्तकिरीटकुण्डलोज्ज्वले । श्रीशारिके नमस्तेऽस्तु पाहि मां शरणागतम् ॥ ९॥ श्रीशारिका जगन्माताऽनाथनाथा सुरेश्वरी । प्रियतां पादयोरेतत्स्तोत्रपुष्पसमर्पणात् ॥ १०॥ इति शारिकास्तोत्रम् समाप्तम् ।