अक्षर आकार:

श्रीशारिकासहस्रनामावलिः

shrIshArikAsahasranAmAvaliH

श्रीशारिकासहस्रनामावलिः

श्रीगणेशाय नमः । श्रीशारिकायै नमः । विनियोगः - अस्य श्रीशारिकाभगवतीसहस्रनामस्तोत्रस्य श्रीमहादेव ऋषिः, अनुष्टुप् छन्दः, श्रीशारिका भगवती देवता, शां बीजं, श्रीं शक्तिः, फ्रां कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः ॥ ऋष्यादिन्यासः - ॐ श्रीमहादेवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीशारिकाभगवती देवतायै नमः हृदये । शां बीजाय नमः दक्षस्तने । श्रीं शक्तये नमः वामस्तने । फ्रां कीलकाय नमः नाभौ । श्रीशारिकाभगवती प्रसादसिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः ॥ षडङ्गन्यासः । करन्यासः - ह्रां श्रां अङ्गुष्ठाभ्यां नमः । ह्रीं श्रीं तर्जनीभ्यां नमः । ह्रूं श्रूं मध्यमाभ्यां नमः । ह्रैं श्रैं अनामिकाभ्यां नमः । ह्रौं श्रौं कनिष्ठाभ्यां नमः । ह्रः श्रः करतलकरपुष्ठाभ्यां नमः । अङ्गन्यासः - ह्रां श्रां हृदयाय नमः । ह्रीं श्रीं शिरसे स्वाहा । ह्रूं श्रूं शिखायै वषट् । ह्रैं श्रैं कवचाय हुम् । ह्रौं श्रौं नेत्रत्रयाय वौषट् । ह्रः श्रः अस्त्राय फट् । ॥ ध्यानम् ॥ बालार्ककोटिसदृशीमिन्दुचूडां कराम्बुजैः । वरचक्राभयासींश्च धारयन्तीं हसन्मुखीम् ॥ १॥ सिंहारूढां रक्तवस्त्रां रक्ताभरणभूषिताम् । वामदेवाङ्कनिलयां हृत्पद्मे शारिकां भजे ॥ २॥ बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् । सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ३॥ अथ सहस्रनामावलिः ॥ ॐ श्रीशारिकायै नमः । ॐ श्यामसुन्दर्यै नमः । ॐ शिलायै नमः । ॐ शार्यै नमः । ॐ शुक्यै नमः । ॐ शान्तायै नमः । ॐ शान्तमानसगोचरायै नमः । ॐ शान्तिस्थायै नमः । ॐ शान्तिदायै नमः । ॐ शान्त्यै नमः । ॐ श्यामायै नमः । ॐ श्यामपयोधरायै नमः । ॐ देव्यै नमः । ॐ शशाङ्कबिम्बाभायै नमः । ॐ शशाङ्ककृतशेखरायै नमः । ॐ शशाङ्कशोभिलावण्यायै नमः । ॐ शशाङ्कमध्यवासिन्यै नमः । ॐ शार्दूरलवाहायै नमः । ॐ देवेश्यै नमः । ॐ शार्दूलस्थित्यै नमः । २० ॐ उत्तमायै नमः । ॐ शार्दूलचर्मवसनायै नमः । ॐ शक्त्यै नमः । ॐ शार्दूलवाहनायै नमः । ॐ गौर्यै नमः । ॐ पद्मावत्यै नमः । ॐ पीनायै नमः । ॐ पीनवक्षोजकुट्मलायै नमः । ॐ पीताम्बरायै नमः । ॐ रक्तदन्तायै नमः । ॐ दाडिमीकुसुमोपमायै नमः । ॐ स्फुरद्रत्नांशुखचितायै नमः । ॐ रत्नमण्डलविग्रहायै नमः । ॐ रक्ताम्बरधरायै नमः । ॐ देव्यै नमः । - ॐ रत्नमालाविभूषणायै नमः । ॐ रत्नसम्मूर्छितात्मने नमः । ॐ दीप्तायै नमः । ॐ दीप्तशिखायै नमः । ॐ दयायै नमः । ४० ॐ दयावत्यै नमः । ॐ कल्पलतायै नमः । ॐ कल्पान्तदहनोपमायै नमः । ॐ भैरव्यै नमः । ॐ भीमनादायै नमः । ॐ भयानकमुख्यै नमः । ॐ भगायै नमः । ॐ कारायै नमः । ॐ कारुण्यरूपायै नमः । ॐ भगमालाविभूषणायै नमः । ॐ भगेश्वर्यै नमः । ॐ भगस्थायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कृशोदर्यै नमः । ॐ कादम्बर्यै नमः । ॐ पटोत्कृष्टायै नमः । ॐ परमायै नमः । ॐ परमेश्वर्यै नमः । ॐ सत्यै नमः । ॐ सरस्वत्यै नमः । ६० ॐ सत्यायै नमः । ॐ सत्यासत्यस्वरूपिण्यै नमः । ॐ परम्परायै नमः । ॐ पटाकारायै नमः । ॐ पाटलायै नमः । ॐ पाटलप्रभायै नमः । ॐ पद्मिन्यै नमः । ॐ पद्मवदनायै नमः । ॐ पद्मायै नमः । ॐ पद्माकरायै नमः । ॐ शिवायै नमः । ॐ शिवाश्रयायै नमः । ॐ शरच्छान्तायै नमः । ॐ शच्यै नमः । ॐ रम्भायै नमः । ॐ विभावर्यै नमः । ॐ द्युमणये नमः । ॐ तरणायै नमः । ॐ पाठायै नमः । ॐ पीठेश्यै नमः । ८० ॐ पीवराकृत्यै नमः । ॐ अचिन्त्यायै नमः । ॐ मुसलाधारायै नमः । ॐ मातङ्ग्यै नमः । ॐ मधुरस्वनायै नमः । ॐ वीणागीतप्रियायै नमः । ॐ गाथायै नमः । ॐ गारुड्यै नमः । ॐ गरुडध्वजायै नमः । ॐ अतीव सुन्दराकारायै नमः । ॐ सुन्दर्यै नमः । ॐ सुन्दरालकायै नमः । ॐ अलकायै नमः । ॐ नाकमध्यस्थायै नमः । ॐ नाकिन्यै नमः । ॐ नाकिपूजितायै नमः । ॐ पातालेश्वरपूज्यायै नमः । ॐ पातालतलचारिण्यै नमः । ॐ अनन्तायै नमः । ॐ अनन्तरूपायै नमः । १०० ॐ अज्ञातायै नमः । ॐ ज्ञानवर्धिन्यै नमः । ॐ अमेयायै नमः । ॐ अप्रमेयायै नमः । ॐ अनन्तायै नमः । ॐ आदित्यरूपिण्यै नमः । ॐ द्वादशादित्यसम्पूज्यायै नमः । ॐ शम्यै नमः । ॐ श्यामाकबीजिन्यै नमः । ॐ विभासायै नमः । ॐ भासुरवर्णायै नमः । ॐ समस्तासुरघातिन्यै नमः । ॐ सुधामय्यै नमः । ॐ सुधामूर्त्यै नमः । ॐ सुधायै नमः । ॐ सर्वप्रियङ्कर्यै नमः । ॐ सुखदायै नमः । ॐ सुरेशान्यै नमः । ॐ कृशानुवल्लभायै नमः । ॐ हविषे नमः । १२० ॐ स्वाहायै नमः । ॐ स्वाहेशनेत्रायै नमः । ॐ अग्निवक्त्रायै नमः । ॐ अग्नितर्पितायै नमः । ॐ सोमसूर्याग्निनेत्रायै नमः । ॐ भूर्भुवःस्वःस्वरूपिण्यै नमः । ॐ भूम्यै नमः । ॐ भूदेवपूज्यायै नमः । ॐ स्वयम्भुवे नमः । ॐ स्वात्मपूजकायै नमः । ॐ स्वयम्भूपुष्पमालाढ्यायै नमः । ॐ स्वयम्भूपुष्पवल्लभायै नमः । ॐ आनन्दकन्दल्यै नमः । ॐ कन्दायै नमः । ॐ स्कन्दमात्रे नमः । ॐ शिलालयायै नमः । ॐ चेतनायै नमः । ॐ चिद्भवाकारायै नमः । ॐ भवपत्न्यै नमः । ॐ भयापहायै नमः । १४० ॐ विघ्नेश्वर्यै नमः । ॐ गणेशान्यै नमः । ॐ विघ्नविध्वंसिन्यै नमः । ॐ निशायै नमः । ॐ वश्यायै नमः । ॐ वशिजनस्तुत्यायै नमः । ॐ स्तुत्यै नमः । ॐ श्रुतिधरायै नमः । ॐ श्रुत्यै नमः । ॐ शास्त्रविधानविज्ञायै नमः । ॐ वेदशास्त्रार्थकोविदायै नमः । ॐ वेद्यायै नमः । ॐ विद्यामय्यै नमः । ॐ वेदमय्यै नमः । - ॐ विद्यायै नमः । ॐ विधातृवरदायै नमः । ॐ वध्वै नमः । ॐ वधूरूपायै नमः । ॐ वधूपूज्यायै नमः । ॐ वधूपानप्रतर्पितायै नमः । १६० ॐ वधूपूजनसन्तुष्टायै नमः । ॐ वधूमालाविभूषणायै नमः । ॐ वामायै नमः । ॐ वामेश्वर्यै नमः । ॐ वाम्यायै नमः । ॐ कुलाकुलविचारिण्यै नमः । ॐ वितर्कतर्कनिलयायै नमः । ॐ प्रलयानलसन्निभायै नमः । ॐ यज्ञेश्वर्यै नमः । ॐ यज्ञमुखायै नमः । ॐ याजकायै नमः । ॐ यज्ञपात्रकायै नमः । ॐ यक्षेश्वर्यै नमः । ॐ यक्षधात्र्यै नमः । ॐ पार्वत्यै नमः । ॐ पर्वताश्रयायै नमः । ॐ पिलम्पिलायै नमः । ॐ पदस्थानायै नमः । ॐ पददायै नमः । ॐ नरकान्तकायै नमः । १८० ॐ नार्यै नमः । ॐ नर्मप्रियायै नमः । ॐ श्रीदायै नमः । ॐ श्रीदश्रीदायै नमः । ॐ शरायुधायै नमः । ॐ कामेश्वर्यै नमः । ॐ रत्यै नमः । ॐ हूत्यै नमः । ॐ आहुत्यै नमः । ॐ हव्यवाहनायै नमः । ॐ हरेश्वर्यै नमः । ॐ हरिवध्वै नमः । ॐ हाटकाङ्गदमण्डितायै नमः । ॐ हपुषायै नमः । ॐ स्वर्गत्यै नमः । ॐ वैद्यायै नमः । ॐ सुमुखायै नमः । ॐ महौषध्यै नमः । ॐ सर्वरोगहरायै नमः । ॐ माध्व्यै नमः । २०० ॐ मधुपानपरायणायै नमः । ॐ मधुस्थितायै नमः । ॐ मधुमय्यै नमः । ॐ मधुदानविशारदायै नमः । ॐ मधुतृप्तायै नमः । ॐ मधुरूपायै नमः । ॐ मधूककुसुमप्रभायै नमः । ॐ माधव्यै नमः । ॐ माधवीवल्ल्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदालसायै नमः । ॐ मारप्रियायै नमः । ॐ मारपूज्यायै नमः । ॐ मारदेवप्रियङ्कर्यै नमः । ॐ मारेश्यै नमः । ॐ मृत्युहरायै नमः । ॐ हरिकान्तायै नमः । ॐ मनोन्मनायै नमः । ॐ महावैद्यप्रियायै नमः । ॐ वैद्यायै नमः । २२० ॐ वैद्याचारायै नमः । ॐ सुरार्चितायै नमः । ॐ सामन्तायै नमः । ॐ पीनवपुष्यै नमः । ॐ गुट्यै नमः । ॐ गुर्व्यै नमः । ॐ गरीयस्यै नमः । ॐ कालान्तकायै नमः । ॐ कालमुख्यै नमः । ॐ कठोरायै नमः । ॐ करुणामय्यै नमः । ॐ नीलायै नमः । ॐ नाभ्यै नमः । ॐ वागीश्यै नमः । ॐ दूर्वायै नमः । ॐ नीलसरस्वत्यै नमः । ॐ अपारायै नमः । ॐ पारगायै नमः । ॐ गम्यायै नमः । ॐ गत्यै नमः । २४० ॐ प्रीत्यै नमः । ॐ पयोधरायै नमः । ॐ पयोदसदृशच्छायायै नमः । ॐ पारदाकृतिलालसायै नमः । ॐ सरोजनिलयायै नमः । ॐ नीत्यै नमः । ॐ कीर्त्यै नमः । ॐ कीर्तिकर्यै नमः । ॐ कथायै नमः । ॐ काश्यै नमः । ॐ काम्यायै नमः । ॐ कपर्दीशायै नमः । ॐ काशपुष्पोपमायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ रामप्रियायै नमः । ॐ रामभद्रदेवसमर्चितायै नमः । ॐ रामसम्पूजितायै नमः । ॐ रामसिद्धिदायै नमः । ॐ रामराज्यदायै नमः । २६० ॐ रामभद्रार्चितायै नमः । ॐ रेवायै नमः । ॐ देवक्यै नमः । ॐ देववत्सलायै नमः । ॐ देवपूज्यायै नमः । ॐ देववन्द्यायै नमः । ॐ देवदावनचर्चितायै नमः । ॐ दूत्यै नमः । ॐ द्रुतगत्यै नमः । ॐ दम्भायै नमः । ॐ दामिन्यै नमः । ॐ विजयायै नमः । ॐ जयायै नमः । ॐ अशेषसुरसम्पूज्यायै नमः । ॐ निःशेषासुरसूदिन्यै नमः । ॐ वटिन्यै नमः । ॐ वटमूलस्थायै नमः । ॐ लास्यहास्यैकवल्लभायै नमः । ॐ अरूपायै नमः । ॐ निर्गुणायै नमः । २८० ॐ सत्यायै नमः । ॐ सदासन्तोषवर्धिन्यै नमः । ॐ सोम्यायै नमः । ॐ यजुर्वहायै नमः । ॐ याम्यायै नमः । ॐ यमुनायै नमः । ॐ यामिन्यै नमः । ॐ यम्यै नमः । ॐ दाक्षायै नमः । ॐ दयायै नमः । ॐ वरदायै नमः । ॐ दाल्भ्यसेव्यायै नमः । ॐ पुरन्दर्यै नमः । ॐ पौरन्दर्यै नमः । ॐ पुलोमेश्यै नमः । ॐ पौलोम्यै नमः । ॐ पुलकाङ्कुरायै नमः । ॐ पुरस्थायै नमः । ॐ वनभुवे नमः । ॐ वन्यायै नमः । ३०० ॐ वानर्यै नमः । ॐ वनचारिण्यै नमः । ॐ समस्तवर्णनिलयायै नमः । ॐ समस्तवर्णपूजितायै नमः । ॐ समस्तवरवर्णाढ्यायै नमः । ॐ समस्तगुरुवल्लभायै नमः । ॐ समस्तमुण्डमालाढ्यायै नमः । ॐ मालिन्यै नमः । ॐ मधुपस्वनायै नमः । ॐ कोशप्रदायै नमः । ॐ कोशवासायै नमः । ॐ चमत्कृत्यै नमः । ॐ अलम्बुसायै नमः । ॐ हासदायै नमः । ॐ सदसद्रूपायै नमः । ॐ सर्ववर्णमय्यै नमः । ॐ स्मृत्यै नमः । ॐ सर्वाक्षरमय्यै नमः । ॐ विद्यायै नमः । ॐ मूलविद्येश्वर्यै नमः । ३२० ॐ ईश्वर्यै नमः । ॐ अकारायै नमः । ॐ षोडशाकारायै नमः । ॐ काराबन्धविमोचिन्यै नमः । ॐ ककारव्यञ्जनायै नमः । ॐ आक्रान्तायै नमः । ॐ सर्वमन्त्राक्षरालयायै नमः । ॐ अणुरूपायै नमः । ॐ अमालायै नमः । ॐ त्रैगुण्यायै नमः । ॐ अपराजितायै नमः । ॐ अम्बिकायै नमः । ॐ अम्बालिकायै नमः । ॐ अम्बायै नमः । ॐ अनन्तगुणमेखलायै नमः । ॐ अपर्णायै नमः । ॐ पर्णशालायै नमः । ॐ साट्टहासायै नमः । ॐ हसन्तिकायै नमः । ॐ अद्रिकन्यायै नमः । ३४० ॐ अट्टहासायै नमः । ॐ अजरायै नमः । ॐ अस्यायै नमः । - ॐ अरुन्धत्यै नमः । ॐ अब्जाक्ष्यै नमः । ॐ अब्जिन्यै नमः । ॐ देव्यै नमः । - ॐ अम्बुजासनपूजितायै नमः । ॐ अब्जहस्तायै नमः । ॐ अब्जपादायै नमः । ॐ अब्जपूजनतोषितायै नमः । ॐ अकारमातृकायै नमः । ॐ देव्यै नमः । - ॐ सर्वानन्दकर्यै नमः । ॐ कलायै नमः । ॐ आनन्दसुन्दर्यै नमः । ॐ आद्यायै नमः । ॐ आघूर्णारुणलोचनायै नमः । ॐ आदिदेवान्तकायै नमः । ॐ अक्रूरायै नमः । ३६० ॐ आदित्यकुलभूषणायै नमः । ॐ आम्बीजमण्डनायै नमः । ॐ देव्यै नमः । - ॐ आकारमातृकावल्यै नमः । ॐ इन्दुस्तुतायै नमः । ॐ इन्दुबिम्बास्यायै नमः । ॐ इनकोटिसमप्रभायै नमः । ॐ इन्दिरायै नमः । ॐ मन्दुराशालायै नमः । ॐ इतिहासायै नमः । ॐ कथायै नमः । ॐ स्मृत्यै नमः । ॐ इलायै नमः । ॐ इक्षुरसास्वादायै नमः । ॐ इकाराक्षरभूषितायै नमः । ॐ इन्द्रस्तुतायै नमः । ॐ इन्द्रपूज्यायै नमः । ॐ इन्दुबिम्बास्यायै नमः । ॐ इनभद्रायै नमः । ॐ इनेश्वर्यै नमः । ३८० ॐ इभगत्यै नमः । ॐ इभगीत्यै नमः । ॐ इकाराक्षरमातृकायै नमः । ॐ ईश्वर्यै नमः । ॐ भवप्रख्यायै नमः । ॐ ईशान्यै नमः । ॐ ईश्वरवल्लभायै नमः । ॐ ईशायै नमः । ॐ कामकलायै नमः । ॐ देव्यै नमः । - ॐ ईकाराश्रितमातृकायै नमः । ॐ उग्रप्रभायै नमः । ॐ उग्रचित्तायै नमः । ॐ उग्रवामाङ्गवासिन्यै नमः । ॐ उषायै नमः । ॐ वैष्णवपूज्यायै नमः । ॐ उग्रतारायै नमः । ॐ उल्मुकाननायै नमः । ॐ उमेश्वर्यै नमः । ॐ ईश्वर्यै नमः । ४०० ॐ श्रेष्ठायै नमः । ॐ उदकस्थायै नमः । ॐ उदेश्वर्यै नमः । ॐ उदकायै नमः । ॐ अच्छोदकदायै नमः । ॐ उकारोद्भासमातृकायै नमः । ॐ ऊष्मायै नमः । ॐ ऊषायै नमः । ॐ ऊषणायै नमः । ॐ उचितवरप्रदायै नमः । ॐ ऋणहर्त्र्यै नमः । ॐ ऋकारेश्यै नमः । ॐ ऋऌवर्णायै नमः । ॐ ऌवर्णभाजे नमः । ॐ ॡकारभ्रुकुट्यै नमः । ॐ बालायै नमः । ॐ बालादित्यसमप्रभायै नमः । ॐ एणाङ्कमुकुटायै नमः । ॐ ईहायै नमः । ॐ एकाराक्षरबीजितायै नमः । ४२० ॐ एणप्रियायै नमः । ॐ एणमध्यवासिन्यै नमः । ॐ एणवत्सलायै नमः । ॐ एणाङ्कमध्यसंस्थायै नमः । ॐ एकारोद्भासकूटिन्यै नमः । ॐ ऐकारोद्भासकूटिन्यै नमः । ॐ ओङ्कारशेखरायै नमः । ॐ देव्यै नमः । - ॐ औचित्यपदमण्डितायै नमः । ॐ अम्भोजनिलयस्थानायै नमः । ॐ अःस्वरूपायै नमः । ॐ स्वर्गत्यै नमः । ॐ षोडशस्वररूपायै नमः । ॐ षोडशस्वरगायिन्यै नमः । ॐ षोडश्यै नमः । ॐ षोडशाकारायै नमः । ॐ कमलायै नमः । ॐ कमलोद्भवायै नमः । ॐ कामेश्वर्यै कामेश्वरायै नमः । - ॐ कलाभिज्ञायै नमः । ४४० ॐ कुमार्यै नमः । ॐ कुटिलालकायै नमः । ॐ कुटिलायै नमः । ॐ कुटिलाकारायै नमः । ॐ कुटुम्बसंयुतायै नमः । ॐ शिवायै नमः । ॐ कुलाकुलपदेशान्यै नमः । ॐ कुलेश्यै नमः । ॐ कुब्जिकायै नमः । ॐ कलायै नमः । ॐ कामायै नमः । ॐ कामप्रियायै नमः । ॐ कीरायै नमः । ॐ कमनीयायै नमः । ॐ कपर्दिन्यै नमः । ॐ कालिकायै नमः । ॐ भद्रकाल्यै नमः । ॐ कालकामान्तकारिण्यै नमः । ॐ कपालिन्यै नमः । ॐ कपालेश्यै नमः । ४६० ॐ कर्पूरचयचर्चितायै नमः । ॐ कादम्वर्यै नमः । ॐ कोमलाङ्ग्यै नमः । ॐ काश्मीर्यै नमः । ॐ कुङ्कुमद्युत्यै नमः । ॐ कुन्तायै नमः । ॐ कूर्चार्णबीजाढ्यायै नमः । ॐ कमनीयायै नमः । ॐ कुलाकुलायै नमः । ॐ करालास्यायै नमः । ॐ करालाक्ष्यै नमः । ॐ विकरालस्वरूपिण्यै नमः । ॐ काम्यालकायै नमः । ॐ कामदुघायै नमः । ॐ कामिन्यै नमः । ॐ कामपालिन्यै नमः । ॐ कन्थाधरायै नमः । ॐ कृपाकर्त्र्यै नमः । ॐ ककाराक्षरमातृकायै नमः । ॐ खड्गहस्तायै नमः । ४८० ॐ खर्परेश्यै नमः । ॐ खेचर्यै नमः । ॐ खगगामिन्यै नमः । ॐ खेचरीमुद्रया युक्तायै नमः । ॐ खेचरत्वप्रदायिन्यै नमः । ॐ खगासनायै नमः । ॐ खलोलाक्ष्यै नमः । ॐ खेटेश्यै नमः । ॐ खलनाशिन्यै नमः । ॐ खेवटकायुधहस्तायै नमः । ॐ खरांशुद्युतिसन्निभायै नमः । ॐ खान्तायै नमः । ॐ खबीजनिलयायै नमः । ॐ खकारोल्लासमातृकायै नमः । ॐ वैखर्यै नमः । ॐ बीजनिलयायै नमः । ॐ खस्थायै नमः । ॐ खेचरवल्लभायै नमः । ॐ गुण्यायै नमः । ॐ गजास्यजनन्यै नमः । ५०० ॐ गणेशवरदायै नमः । ॐ गयायै नमः । ॐ गोदावर्यै नमः । ॐ गदाहस्तायै नमः । ॐ गङ्गाधरवरप्रदायै नमः । ॐ गोधायै नमः । ॐ गोवाहनेशान्यै नमः । ॐ गरलाशनवल्लभायै नमः । ॐ गाम्भीर्यभूषणायै नमः । ॐ गङ्गायै नमः । ॐ गकारार्णविभूषणायै नमः । ॐ घृणायै नमः । ॐ घोणाकरस्तुत्यायै नमः । ॐ घुर्घुरायै नमः । ॐ घोरनादिन्यै नमः । ॐ घटस्थायै नमः । ॐ घटजसेव्यायै नमः । ॐ घनरूपायै नमः । ॐ घुणेश्वर्यै नमः । ॐ घनवाहनसेव्यायै नमः । ५२० ॐ घकाराक्षरमातृकायै नमः । ॐ ङान्तायै नमः । ॐ ङवर्णनिलयायै नमः । ॐ ङाणुरूपायै नमः । ॐ ङणालयायै नमः । ॐ ङेशायै नमः । ॐ ङेन्तायै नमः । ॐ ङनाजाप्यायै नमः । ॐ ङवर्णाक्षरभूषणायै नमः । ॐ चामीकररुचये नमः । ॐ चान्द्र्यै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्ररागिण्यै नमः । ॐ चलायै नमः । ॐ चलञ्चलायै नमः । ॐ चेलायै नमः । ॐ चन्द्रायै नमः । ॐ चन्द्रकरायै नमः । ॐ चल्यै नमः । ॐ चञ्चुरीकस्वनालापायै नमः । ५४० ॐ चमत्कारस्वरूपिण्यै नमः । ॐ चटुल्यै नमः । ॐ चाटुक्यै नमः । ॐ चार्व्यै नमः । ॐ चम्पायै नमः । ॐ चम्पकसन्निभायै नमः । ॐ चीनांशुकधरायै नमः । ॐ चाट्व्यै नमः । ॐ चकारार्णविभूषणायै नमः । ॐ छत्र्यै नमः । ॐ छत्रधरायै नमः । ॐ छिन्नायै नमः । ॐ छिन्नमस्तायै नमः । ॐ छटच्छवये नमः । ॐ छायासुतप्रियायै नमः । ॐ छायायै नमः । ॐ छवर्णामलमातृकायै नमः । ॐ जगदम्बायै नमः । ॐ जगज्ज्योतिषे नमः । ॐ ज्योतीरूपायै नमः । ५६० ॐ जटाधरायै नमः । ॐ जयदायै नमः । ॐ जयकर्त्र्यै नमः । ॐ जयस्थायै नमः । ॐ जयहासिन्यै नमः । ॐ जगत्प्रियायै नमः । ॐ जगत्पूज्यायै नमः । ॐ जगत्कर्त्र्यै नमः । ॐ जरातुरायै नमः । ॐ ज्वरघ्न्यै नमः । ॐ जम्भदमन्यै नमः । ॐ जगत्प्राणायै नमः । ॐ जयावहायै नमः । ॐ जम्भारिवरदायै नमः । ॐ जैत्र्यै नमः । ॐ जीवनायै नमः । ॐ जीववाक्प्रदायै नमः । ॐ जाग्रत्यै नमः । ॐ जगन्निद्रायै नमः । ॐ जगद्योन्यै नमः । ५८० ॐ जलन्धरायै नमः । ॐ जालन्धरधरायै नमः । ॐ जायायै नमः । ॐ जकाराक्षरमातृकायै नमः । ॐ झम्पायै नमः । ॐ झिञ्झेश्वर्यै नमः । ॐ झान्तायै नमः । ॐ झकाराक्षरमातृकायै नमः । ॐ ञाणुरूपायै नमः । ॐ ञिणावासायै नमः । ॐ ञकोरेश्यै नमः । ॐ ञणायुधायै नमः । ॐ ञवर्गबीजभूषाढ्यायै नमः । ॐ ञकाराक्षरमातृकायै नमः । ॐ टङ्कायुधायै नमः । ॐ टकाराढ्यायै नमः । ॐ टोटाक्ष्यै नमः । ॐ टसुकुन्तलायै नमः । ॐ टङ्कायुधायै नमः । ॐ टलीरूपायै नमः । ६०० ॐ टकाराक्षरमातृकायै नमः । ॐ ठक्कुरायै नमः । ॐ ठक्कुरेशान्यै नमः । ॐ ठकारत्रितयेश्वर्यै नमः । ॐ ठःस्वरूपायै नमः । ॐ ठवर्णाढ्यायै नमः । ॐ ठकाराक्षरमातृकायै नमः । ॐ डक्कायै नमः । ॐ डक्केश्वर्यै नमः । ॐ डिम्भायै नमः । ॐ डवर्णाक्षरमातृकायै नमः । ॐ ढिण्यै नमः । ॐ ढेहायै नमः । ॐ ढिल्लहस्तायै नमः । ॐ ढकाराक्षरमातृकायै नमः । ॐ णेशायै नमः । ॐ णान्तायै नमः । ॐ णवर्गान्तायै नमः । ॐ णकाराक्षरभूषणायै नमः । ॐ तुर्यै नमः । ६२० ॐ तुर्यायै नमः । ॐ तुलारूपायै नमः । ॐ त्रिपुरायै नमः । ॐ तामसप्रियायै नमः । ॐ तोतुलायै नमः । ॐ तारिण्यै नमः । ॐ तारायै नमः । ॐ सप्तविंशतिरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिगुणायै नमः । ॐ ध्येयायै नमः । ॐ त्र्यम्बकेश्यै नमः । ॐ त्रिलोकधृते नमः । ॐ त्रिवर्गेश्यै नमः । ॐ त्रय्यै नमः । ॐ त्र्यक्ष्यै नमः । ॐ त्रिपदायै नमः । ॐ वेदरूपिण्यै नमः । ॐ त्रिलोकजनन्यै नमः । ॐ त्रात्रे नमः । ६४० ॐ त्रिपुरेश्वरपूजितायै नमः । ॐ त्रिकोणस्थायै नमः । ॐ त्रिकोणेश्यै नमः । ॐ कोणत्रयनिवासिन्यै नमः । ॐ त्रिकोणपूजनतुष्टायै नमः । ॐ त्रिकोणपूजनश्रितायै नमः । ॐ त्रिकोणदानसंलग्नायै नमः । ॐ सर्वकोणशुभार्थदायै नमः । ॐ वसुकोणस्थितायै नमः । ॐ देव्यै नमः । - ॐ वसुकोणार्थवादिन्यै नमः । ॐ वसुकोणपूजितायै नमः । ॐ षट्चक्रक्रमवासिन्यै नमः । ॐ नागपत्रस्थितायै नमः । ॐ शार्यै नमः । ॐ त्रिवृत्तपूजनार्थदायै नमः । ॐ चतुर्द्वाराग्रगायै नमः । ॐ चक्रबाह्यान्तरनिवासिन्यै नमः । ॐ तामस्यै नमः । ॐ तोमरप्रख्यायै नमः । ६६० ॐ तुम्बुरुस्वननादिन्यै नमः । ॐ तुलाकोटिस्वनायै नमः । ॐ ताप्यै नमः । ॐ तपसां फलवर्धिन्यै नमः । ॐ तरलाक्ष्यै नमः । ॐ तमोहर्त्र्यै नमः । ॐ तारकासुरघातिन्यै नमः । ॐ तर्यै नमः । ॐ तरणिरूपायै नमः । ॐ तकाराक्षरमातृकायै नमः । ॐ स्थल्यै नमः । ॐ स्थविररूपायै नमः । ॐ स्थूलायै नमः । ॐ स्थाल्यै नमः । ॐ स्थलाब्जिन्यै नमः । ॐ स्थावरेशायै नमः । ॐ स्थूलमूख्यै नमः । ॐ थकाराक्षरमातृकायै नमः । ॐ दूतिकायै नमः । ॐ शिवदूत्यै नमः । ६८० ॐ दण्डायुधधरायै नमः । ॐ द्युत्यै नमः । ॐ दयायै नमः । ॐ दीनानुकम्पायै नमः । ॐ दम्भोलिधरवल्लभायै नमः । ॐ देशानुचारिण्यै नमः । ॐ द्रेक्कायै नमः । ॐ द्राविडेश्यै नमः । ॐ दवीयस्यै नमः । ॐ दाक्षायण्यै नमः । ॐ द्रुमलतायै नमः । ॐ देवमात्रे नमः । ॐ अधिदेवतायै नमः । ॐ दधिजायै नमः । ॐ दुर्लभायै नमः । ॐ देव्यै -? नमः । ॐ देवतायै नमः । ॐ परमाक्षरायै नमः । ॐ दामोदरसुपूज्यायै नमः । ॐ दामोदरवरप्रदायै नमः । ७०० ॐ दनुपुत्र्यै नमः । ॐ विनाशायै नमः । ॐ दनुपुत्रकुलार्चितायै नमः । ॐ दण्डहस्तायै नमः । ॐ दण्डिपूज्यायै नमः । ॐ दमदायै नमः । ॐ दमस्थितायै नमः । ॐ दशधेनुसुरूपायै नमः । ॐ दकाराक्षरमातृकायै नमः । ॐ धर्म्यायै नमः । ॐ धर्मप्रसवे नमः । ॐ धन्यायै नमः । ॐ धनदायै नमः । ॐ धनवर्धिन्यै नमः । ॐ धृत्यै नमः । ॐ धूत्यै नमः । ॐ धूर्तायै नमः । - ॐ धन्यवध्वै नमः । ॐ धकाराक्षरमातृकायै नमः । ॐ नलिन्यै नमः । ७२० ॐ नालिकायै नमः । ॐ नाप्यायै नमः । ॐ नाराचायुधधारिण्यै नमः । ॐ नीपोपवनमध्यस्थायै नमः । ॐ नागरेश्यै नमः । ॐ नरोत्तमायै नमः । ॐ नरेश्वर्यै नमः । ॐ नृपाराध्यायै नमः । ॐ नृपपूज्यायै नमः । ॐ नृपार्थदायै नमः । ॐ नृपसेव्यायै नमः । ॐ नृपवन्द्यायै नमः । ॐ नरनारायणप्रसुवे नमः । ॐ नर्तक्यै नमः । ॐ नीरजाक्ष्यै नमः । ॐ नवर्णाक्षरभूषणायै नमः । ॐ पद्मेश्वर्यै नमः । ॐ पद्ममुख्यै नमः । ॐ पत्रयानायै नमः । ॐ परापरायै नमः । ७४० ॐ पारावारसुतायै नमः । ॐ पाठायै नमः । ॐ परवर्गविमर्दिन्यै नमः । ॐ पुवे नमः । ॐ पुरारिवध्वै नमः । ॐ पम्पायै नमः । ॐ पत्न्यै नमः । ॐ पत्रीशवाहनायै नमः । ॐ पीवरांसायै नमः । ॐ पतिप्राणायै नमः । ॐ पीतलाक्ष्यै नमः । ॐ पतिव्रतायै नमः । ॐ पीठायै नमः । ॐ पीठस्थितायै नमः । ॐ अपीठायै नमः । ॐ पीतालङ्कारभूषणायै नमः । ॐ पुरूरवःस्तुतायै नमः । ॐ पात्र्यै नमः । ॐ पुत्रिकायै नमः । ॐ पुत्रदायै नमः । ७६० ॐ प्रजायै नमः । ॐ पुष्पोत्तंसायै नमः । ॐ पुष्पवत्यै नमः । ॐ पुष्पमालाविभूषणायै नमः । ॐ पुष्पमालातिशोभाढ्यायै नमः । ॐ पकाराक्षरमातृकायै नमः । ॐ फलदायै नमः । ॐ स्फीतवस्त्रायै नमः । ॐ फेरवारावभीषणायै नमः । ॐ फल्गुन्यै नमः । ॐ फल्गुतीर्थस्थायै नमः । ॐ फवर्णकृतमण्डलायै नमः । ॐ बलदायै नमः । ॐ बालखिल्यायै नमः । ॐ बालायै नमः । ॐ बलरिपुप्रियायै नमः । ॐ बाल्यावस्थायै नमः । ॐ बर्बरेश्यै नमः । ॐ बकाराकृतिमातृकायै नमः । ॐ भद्रिकायै नमः । ७८० ॐ भीमपत्न्यै नमः । ॐ भीमायै नमः । ॐ भर्गशिखायै नमः । ॐ अभयायै नमः । ॐ भयघ्न्यै नमः । ॐ भीमनादायै नमः । ॐ भयानकमुखेक्षणायै नमः । ॐ भिल्लीश्वर्यै नमः । ॐ भीतिहरायै नमः । ॐ भद्रदायै नमः । ॐ भद्रकारिण्यै नमः । ॐ भद्रेश्वर्यै नमः । ॐ भद्रधरायै नमः । ॐ भद्राख्यायै नमः । ॐ भाग्यवर्धिन्यै नमः । ॐ भगमालायै नमः । ॐ भगावासायै नमः । ॐ भवान्यै नमः । ॐ भवतारिण्यै नमः । ॐ भगयोन्यै नमः । ८०० ॐ भगाकारायै नमः । ॐ भगस्थायै नमः । ॐ भगरूपिण्यै नमः । ॐ भगलिङ्गामृतप्रीतायै नमः । ॐ भकाराक्षरमातृकायै नमः । ॐ मान्यायै नमः । ॐ मानप्रदायै नमः । ॐ मीनायै नमः । ॐ मीनकेतनलालसायै नमः । ॐ मदोद्धतायै नमः । ॐ मदोद्धृतायै नमः । - ॐ मनोन्मान्यायै नमः । ॐ मेनायै नमः । ॐ मैनाकवत्सलायै नमः । ॐ मधुमत्तायै नमः । ॐ मधुपूज्यायै नमः । ॐ मधुदायै नमः । ॐ मधुमाधव्यै नमः । ॐ मांसाहारायै नमः । ॐ मांसप्रीतायै नमः । ८२० ॐ मांसभक्ष्यायै नमः । ॐ मांसदायै नमः । ॐ मारार्तायै नमः । ॐ मत्स्यरूपायै नमः । ॐ मत्स्यधात्रे नमः । ॐ महत्तरायै नमः । ॐ मेरुश‍ृङ्गाग्रतुङ्गास्यायै नमः । ॐ मोदकाहारपूजितायै नमः । ॐ मातङ्गिन्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदमत्तायै नमः । ॐ मदेश्वर्यै नमः । ॐ मञ्जायै नमः । ॐ मज्जायै नमः । - ॐ मुग्धाननायै नमः । ॐ मुग्धायै नमः । ॐ मकाराक्षरभूषणायै नमः । ॐ यशस्विन्यै नमः । ॐ यतीशान्यै नमः । ॐ यत्नकर्त्र्यै नमः । ८४० ॐ यजुःप्रियायै नमः । ॐ यज्ञधात्र्यै नमः । ॐ यज्ञफलायै नमः । ॐ यजुर्वेदऋचाम्फलायै नमः । ॐ यशोदायै नमः । ॐ यतिसेव्यायै नमः । ॐ यात्रायै नमः । ॐ यात्रिकवत्सलायै नमः । ॐ योगेश्वर्यै नमः । ॐ योगगम्यायै नमः । ॐ योगेन्द्रजनवत्सलायै नमः । ॐ यदुपुत्र्यै नमः । ॐ यमघ्न्यै नमः । ॐ यकाराक्षरमातृकायै नमः । ॐ रत्नेश्वर्यै नमः । ॐ रमानाथसेव्यायै नमः । ॐ रथ्यायै नमः । ॐ रजस्वलायै नमः । ॐ राज्यदायै नमः । ॐ राजराजेश्यै नमः । ८६० ॐ रोगहर्त्र्यै नमः । ॐ रजोवत्यै नमः । ॐ रत्नाकरसुतायै नमः । ॐ रम्यायै नमः । ॐ रात्र्यै नमः । ॐ रात्रिपतिप्रभायै नमः । ॐ रक्षोघ्न्यै नमः । ॐ राक्षसेशान्यै नमः । ॐ रक्षोनाथसमर्चितायै नमः । ॐ रतिप्रियायै नमः । ॐ रतिमुख्यायै नमः । ॐ रकाराकृतिशेखरायै नमः । ॐ लम्बोदर्यै नमः । ॐ ललज्जिह्वायै नमः । ॐ लास्यतत्परमानसायै नमः । ॐ लूतातन्तुवितानास्यायै नमः । ॐ लक्ष्म्यै नमः । ॐ लज्जायै नमः । ॐ लयालिन्यै नमः । ॐ लोकेश्वर्यै नमः । ८८० ॐ लोकधात्र्यै नमः । ॐ लाटस्थायै नमः । ॐ लक्षणाकृत्यै नमः । ॐ लम्बायै नमः । ॐ लम्बकचोल्लासायै नमः । ॐ लकाराकारवर्धिन्यै नमः । ॐ लिङ्गेश्वर्यै नमः । ॐ लिङ्गलिङ्गायै नमः । ॐ लिङ्गमालायै नमः । ॐ लसद्द्युत्यै नमः । ॐ लक्ष्मीरूपायै नमः । ॐ रसोल्लासायै नमः । ॐ रामायै नमः । ॐ रेवायै नमः । ॐ रजस्वलायै नमः । ॐ लयदायै नमः । ॐ लक्षणायै नमः । ॐ लोलायै नमः । ॐ लकाराक्षरमातृकायै नमः । ॐ वाराह्यै नमः । ९०० ॐ वरदात्र्यै नमः । ॐ वीरसुवे नमः । ॐ वीरदायिन्यै नमः । ॐ वीरेश्वर्यै नमः । ॐ वीरजन्यायै नमः । ॐ वीरचर्वणचर्चितायै नमः । ॐ वरायुधायै नमः । ॐ वराकायै नमः । ॐ वामनायै नमः । ॐ वामनाकृतये नमः । ॐ वधूतायै नमः । ॐ वधकायै नमः । ॐ वध्यायै नमः । ॐ वध्यभुवे नमः । ॐ वाणिजप्रियायै नमः । ॐ वसन्तलक्ष्म्यै नमः । ॐ वटुक्यै नमः । ॐ वटुकायै नमः । ॐ वटुकेश्वर्यै नमः । ॐ वटुप्रियायै नमः । ९२० ॐ वामनेत्रायै नमः । ॐ वामाचारैकलालसायै नमः । ॐ वार्तायै नमः । ॐ वाम्यायै नमः । ॐ वरारोहायै नमः । ॐ वेदमात्रे नमः । ॐ वसुन्धरायै नमः । ॐ वयोयानायै नमः । ॐ वयस्यायै नमः । ॐ वकाराक्षरमातृकायै नमः । ॐ शम्भुप्रियायै नमः । ॐ शरच्चर्यायै नमः । ॐ शाद्वलायै नमः । ॐ शशिवत्सलायै नमः । ॐ शीतद्युतये नमः । ॐ शीतरसायै नमः । ॐ शोणोष्ठ्यै नमः । ॐ शीकरप्रदायै नमः । ॐ श्रीवत्सलाञ्छनायै नमः । ॐ शर्वायै नमः । ९४० ॐ शर्ववामाङ्गवासिन्यै नमः । ॐ शशाङ्कामललक्ष्म्यै नमः । ॐ शार्दूलतनवे नमः । ॐ अद्रिजायै नमः । ॐ शोषहर्त्र्यै नमः । ॐ शमीमूलायै नमः । ॐ शकाराकृतिशेखरायै नमः । ॐ षोडश्यै नमः । ॐ षोडशीरूपायै नमः । ॐ षढायै नमः । ॐ षोढायै नमः । ॐ षडाननायै नमः । ॐ षट्कूटायै नमः । ॐ षड्रसास्वादायै नमः । ॐ षडशीतिमुखाम्बुजायै नमः । ॐ षडास्यजनन्यै नमः । ॐ षष्ठायै नमः । ॐ षण्ठायै नमः । - ॐ षवर्णाक्षरमातृकायै नमः । ॐ सारस्वतप्रसुवे नमः । ९६० ॐ सर्वायै नमः । ॐ सर्वगायै नमः । ॐ सर्वतोमुखायै नमः । ॐ समायै नमः । ॐ सीतायै नमः । ॐ सत्यै नमः । ॐ मात्रे नमः । ॐ सागराभयदायिन्यै नमः । ॐ समस्तशापशमन्यै नमः । ॐ सालभञ्ज्यै नमः । ॐ सुदक्षिणायै नमः । ॐ सुषुप्त्यै नमः । ॐ सुरसायै नमः । ॐ साध्व्यै नमः । ॐ सामगायै नमः । ॐ सामवेदजायै नमः । ॐ सत्यप्रियायै नमः । ॐ सोममुख्यै नमः । ॐ सूत्रस्थायै नमः । ॐ सूतवल्लभायै नमः । ९८० ॐ सनकेश्यै नमः । ॐ सुनन्दायै नमः । ॐ स्ववर्गस्थायै नमः । ॐ सनातन्यै नमः । ॐ सेतुभूतायै नमः । ॐ समस्ताशायै नमः । ॐ सकाराक्षरवल्लभायै नमः । ॐ हालाहलप्रियायै नमः । ॐ हेलायै नमः । ॐ हाहारावविभूषणायै नमः । ॐ हाहाहूहूस्वरूपायै नमः । ॐ हलधात्र्यै नमः । ॐ हलिप्रियायै नमः । ॐ हरिनेत्रायै नमः । ॐ घोररूपायै नमः । ॐ हविष्याहुतिवल्लभायै नमः । ॐ हं क्षं लं क्षः स्वरूपायै नमः । ॐ सर्वमातृकपूजितायै नमः । ॐ ॐ ऐं सौः ह्रीं महाविद्यायै नमः । ॐ आं शां फ्रां हूं स्वरूपिण्यै नमः । १००० इति श्रीशारिकासहस्रनामावलिः सम्पूर्णा ॥ इति श्रीशारिकादेव्या मन्त्रनामसहस्रकम् ॥ ॥ फल श्रुति ॥ पुण्यं पुण्यजनस्तुत्यं नुत्यं वैष्णवपूजितम् । इदं यः पठते देवि श्रावयेद्यः श‍ृणोति च ॥ १॥ स एव भगवान् देवः सत्यं सत्यं सुरेश्वरि । एककालं द्विकालं वा त्रिकालं पठते नरः ॥ २॥ वामाचारपरो देवि तस्य पुण्यफलं श‍ृणु । मूकत्वं बधिरत्वं च कुष्ठं हन्याच्च श्वित्रिकाम् ॥ ३॥ वातपित्तकफान् गुल्मान् रक्तस्रावं विषूचिकाम् । सद्यः शमयते देवि श्रद्धया यः पठेन्निशि ॥ ४॥ अपस्मारं कर्णपीडां शूलं रौद्रं भगन्दरम् । मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम् ॥ ५॥ भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि । सद्यस्तस्य महेशानि शारिका वरदा भवेत् ॥ ६॥ चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिव्यत्यये । दत्त्वा बलिं सुरां मुद्रां मत्स्यं मांसं सभक्तकम् ॥ ७॥ वब्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविप्यति । यः पठेद्देवि लोलायां चितायां शवसन्निधौ ॥ ८॥ पायम्पायं त्रिवारं तु तस्य पुण्यफलं श‍ृणु । ब्रह्महत्यां गुरोर्हत्यां मद्यपानं च गोवधम् ॥ ९॥ महापातकसङ्घातं गुरुतल्पगतोद्भवम् । स्तेयं वा भ्रूणहत्यां वा नाशयेन्नात्र संशयः ॥ १०॥ स एव हि रमापुत्रो यशस्वी लोकपूजितः । वरदानक्षमो देवि वीरेशो भूतवल्लभः ॥ ११॥ चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ । त्रिवारं श्रद्धया युक्तः स भवेद्भैरवेश्वरः ॥ १२॥ किङ्किं न लभते देवि साधको वीरसाधकः । पुत्रवान् धनवांश्चैव सत्याचारपरः शिवे ॥ १३॥ शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं परामयम् । इह लोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ १४॥ इति नामसहस्रं तु शारिकाया मनोरमम् । गुह्याद्गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ १५॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीशारिकायाः सहस्रनामावलिः समाप्ता ॥ There are nine instances of name devI to be considered in different context.