अक्षर आकार:

श्रीशारदावर्णमालास्तवः

Shri Sharada Varnamala StavaH

श्रीशारदावर्णमालास्तवः

श्रीशिवापूज्यपादाब्जा श्रीकन्धरसहोदरी । श्रीधुतस्फटिका भूयात् श्रियै मे शारदाऽनिशम् ॥ १॥ शारदाभ्रसदृग्वस्त्रां नीलनीरदकुन्तलाम् । पारदां दुःखवाराशेः शारदां सततं भजे ॥ २॥ रत्नचित्रितभूषाढ्यां प्रत्नवाक्स्तुतवैभवाम् । नूत्नसारस्यदां वाणीं कृत्स्नज्ञानाप्तये स्तुमः ॥ ३॥ दाडिमीबीजरदनां दान्त्यादिगुणदायिनीम् । दानधिक्कृतकल्पद्रुं दासोऽहं नौमि शारदाम् ॥ ४॥ यैः सदा पूजिता ध्याता यैषा श‍ृङ्गपुरस्थिता ॥ शारदाम्बा लोकपूज्यास्त एव हि नरोत्तमाः ॥ ५॥ नमत्सुरीकैश्यगन्धलुब्धभ्रमरराजितम् । नतेष्टदानसुरभिं वाणीपादाम्बुजं स्तुमः ॥ ६॥ मस्तराजचन्द्रलेखा पुस्तशोभिकराम्बुजा ॥ त्रस्तैणनयना वाणी ध्वस्ताघं मां तनोत्वरम् ॥ ७॥ शारदापादसरसीरुहसंसक्तचेतसाम् । यतिनां रचितं स्तोत्रं पठतां शिवदायकम् ॥ ८॥ इति श्रीचन्द्रशेकरभारती विरचितं श्रीशारदावर्णमालास्तवः सम्पूर्णः ।