अक्षर आकार:

श्रीशारदास्तुतिः ३

Shri Sharada Stutih 3

श्रीशारदास्तुतिः ३

(जैत्रयात्रां निर्वर्त्य श्रीश‍ृङ्गगिरिप्रवेशकाले) दूरीकृत्य परीक्षणस्य करणं किं ते गिरां देवते युक्तं वर्षचतुष्टयोपरि कियद्घस्रान्कृपावारिधे । मन्दो मत्पदयुग्मविरहं सोढुं न शक्नोत्ययं कञ्चित्कालमपीति पद्मजसखि ज्ञात्वापि मातर्भृशम् ॥ १॥ यद्यप्यम्ब सरोजयोनिदयिते लोकानशेषानपि श्रद्धाभक्तियुतान्विधाय नितरां कार्याणि सर्वाण्यपि । दुःसाध्यान्यपि लोकसन्ततिबहुश्रेयस्कराण्यादरा- त्सपूर्णान्यकरोस्तथापि पदयोर्दूरं न सोढुं क्षमः ॥ २॥ त्वत्पादाम्बुजयोः कदापि विरहो मा भूदितो वा गिरां मातर्नम्रजनावनव्रतधरे कारुण्यवारान्निधे । चेन्मय्यस्ति कृपा मनोरथततिं सम्पूरयात्रैव मे दुःसाध्यामितरैरशेषजनताश्रेयस्करीं शारदे ॥ ३॥ मन्तूनां ततिरस्ति च प्रभवति स्यादेव चाग्रे मम प्रालेयोस्रशिशूत्तमाङ्गसहजे सन्देहगन्धोऽपि न । तस्याश्चेद्गणनां करोषि हृदया त्वं चापि मातस्तदा निर्व्याजा करुणा निराश्रयतया कुत्रापि लीना भवेत् ॥ ४॥ सरस्वति कृपानिधे सरसिजासनप्रेयसि प्रणम्रजनपालिनि प्रचुरबोधसन्दायिनि । समस्तसुकलास्वपि प्रसृतबोधमेनं जवात् सुरासुरनमस्कृते कुरु करात्तचिन्मुद्रिके ॥ ५॥ कामं सन्तु सुरा निजाङ्घ्रिकमलासक्तान्तरङ्गान्दिवा- रात्रं पूजनदेहदण्डनपरान्पातुं चिरायाम्बिके । नाहं तत्पदपङ्कजानुसरणं कर्तुं समर्थो गिरां मातस्त्वत्पदमेव सत्वरमनोऽभीष्टप्रदं संश्रये ॥ ६॥ बाणीसिन्धुसुतागिरीन्द्रतनयारूपाणि धृत्वा पुरा देवानां परिरक्षणं त्रिजगतामप्यादराद्याकरोत् । सा त्वं सम्प्रति श‍ृङ्गशैलनिलया श्रीशारदम्बाभिधां धृत्वा श्रोत्रमनोहरां प्रकुरुषे लोकावनं सादरम् ॥ ७॥ मूकानामपि वाग्विधानचतुरा यस्याः पदाम्भोजयोः कादाचित्कनमस्क्रिया भुवि भवेच्छ्रीशारदे निश्चितम् । तां त्वामङ्घ्रिसरोजनम्रजनतासंरक्षणैकव्रतां दृष्ट्वा तृप्तिमहो कदापि न भजेतां मे ध्रुवं चक्षुषी ॥ ८॥ ज्वालामालिनिकाविनिर्मितशुचिप्राकारमध्यस्थिते- त्याह्वां नम्रजनस्य किं प्रथयितुं ज्वालावलीमध्यतः । सुस्थाया अपि नैव वह्निजनिता बाधा भवेदित्यहो चित्रं कौतुकतः प्रदर्शितवती वाचां परा देवते ॥ ९॥ अग्नावग्नेः प्रवृत्तिर्न हि भवति कदापीति वातात्मजोक्तिं प्रत्यक्षीकर्तुमेवानतजनविततेर्वाणि श‍ृङ्गाद्रिवासे । अत्युग्राप्पित्तकीलास्थिततरुमयवेश्मस्थितामात्ममूर्तिं मल्लीपुष्पादियुक्तामपि तनुवसनां कीटयुक्तामरक्षः ॥ १०॥ प्रोक्तं केनागमान्ते किमु परममहःसन्निधौ स्वस्वकार्या- शक्ता देवा बभूवुः शुचिपवनमुखा इत्यमुं मुख्यमर्थम् । जानन्त्वात्माङ्घ्रिनम्रा इति विधिरमणी दारुगेहे स्थितासी- ज्ज्वालामालाकुलेऽस्मिन्सुमवसनयुता दाहगन्धेन शून्या ॥ ११॥ लोकानामवनार्थमादिगुरुणा संस्थापिताहं पुरा भूस्थानामपि तान्प्रमत्तहृदयान्नैव त्यजामि क्वचित् । आत्मानात्मविवेकमुख्यसुगुणान्दत्त्वा दृढान्सन्ततं रक्षामीति विबोधनाय विहितं चित्रं गिरां देवते ॥ १२॥ स्मृत्वा संयमिचक्रवर्तिरचितां त्वं प्रार्थनां शारदे सृष्टे स्वेन जगत्यहेतुककृपामालोच्य नैजां मुहुः । देवागारविनिर्मितेस्तु समये प्राप्तामशुद्धिं परां सोढ्वा सन्निधिमातनोतु भवती वाचां परा देवता ॥ १३॥ माता पुत्रकृतामशुद्धिविततिं सोढ्वा पुनः शारदे ह्युत्सङ्गे विनिवेश्य लालनमहो यद्वत्करोत्यादरात् । त्वं माता जगतां तथैव बहुधा जातामशुद्धिं मुहुः सोढ्वा सन्निधिमातनोतु भवती वाचां परा देवता ॥ १४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशारदास्तुतिः (३) सम्पूर्णा ।