अक्षर आकार:

श्रीशारदास्तुतिः २

Shri Sharada Stutih 2

श्रीशारदास्तुतिः २

(श्रीशारदागौरीसहोत्सवकाले) इयं प्रजावती तस्मात्सृष्टिकर्तुः सती यतः । तस्मात्प्रजावतीं त्यक्त्वा स्थातुमीष्टे न भारती ॥ १॥ को वाऽऽत्मानं विना तिष्ठेद्ब्रूत विद्वद्वरा भुवि । प्रजावत्या ततः साकं भातीयं शारदाम्बिका ॥ २॥ तिष्ये युगे दुष्टतरान्तरङ्गजनस्य तत्त्वप्रतिबोधनाय । नालं ममैकं वपुरित्यवेत्य द्वैरूप्यमङ्गीकुरुषे किमम्ब ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशारदास्तुतिः (२) सम्पूर्णा ।