अक्षर आकार:

श्रीशारदास्तुतिः

Shri Sharada Stutih

श्रीशारदास्तुतिः

करोतु कल्याणपरम्परां नः कारुण्यवाराशिरपाङ्गपातैः । कल्याणशैलप्रतिमस्तनाढ्या कञ्जातसञ्जातमनोज्ञजाया ॥ १॥ एणाङ्कगर्वापहृतिप्रचण्ड- तुण्डाधराधःकृतपक्वबिम्बा । एकान्तवासादरशालिमौनि- लभ्याङ्घ्रिपद्मावतु वाक्सवित्री ॥ २॥ ईशाजविष्ण्वादिसुरार्च्यमाना कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः । ईहावियुक्ताप्यनिजस्वरूपा बालेन्दुचूडावतु भारती नः ॥ ३॥ लक्ष्मीशिवाशोभितपार्श्वभागा शचीप्रमुख्यामरमानिनीड्या । ललामराजन्निटिलप्रदेशा वीणालसत्पाणिरवत्वजस्रम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशारदास्तुतिः समाप्ता ।