अक्षर आकार:

शारदास्तुतिः

shAradAstutiH

शारदास्तुतिः

श्रीशारदाम्बायै नमः । कल्याणमूर्तिः करुणालवाला कलाधरोत्तंसकिरीटकोटिः । कलावती काङ्क्षितकल्पवल्ली करोतु कल्याणपरम्परां नः ॥ १॥ चक्रीकृतोल्लोचशिरःफणीन्द्रफणामणीभासुरतूलिकाढ्ये । श्रीमंटपान्तर्मृगराजपीठे विद्योतते नः कुलभागधेयम् ॥ २॥ ज्ञेयं मुनीन्द्रैश्चिरयोगसिद्धैस्सविन्मयं तत्परदेवतायाः । लीलागृहितं यदुपासकानां ध्ययोपलब्ध्यै विवृणोमि रूपं ॥ ३॥ श‍ृणोमि वाचं यदि लोचनेन पश्यामि चेत्पादतलेन रूपम् । पास्यामि चेदञ्जलिना महाब्धिं कल्पेय देव्या गुणवर्णनाय ॥ ४॥ तथापि वाचंयमसार्वभौमकृपालवालाप्तवचोभिरम्बाम् । स्तोष्यामि किञ्चित्प्रतिभातदृष्टश्रुतानुभूतोरुगुणप्रवाहैः ॥ ५॥ रत्नावजीकर्बुरितेन्दुरेखापरिष्कृतानर्घ्यकिरीटकोटिम् । लावण्यवापीपुलिनायमा न ललाटखेलच्चिकुरालिचक्राम् ॥ ६॥ उन्निद्रचाम्पेयपरागगन्धि मधुव्रतश्रीमदरालकेशीम् । भोगीन्द्रभोगोपमनीलवेणी विषक्तचूडामणिनागपालीम् ॥ ७॥ लावण्यकुल्यायितशोणकान्ति सीमन्तरेखाग्रचलल्ललन्तीम् । भ्रूचापसंयोजितमारबाणनिभाक्षिलक्षीकृतधातृवक्त्राम् ॥ ८॥ प्रवर्ष्षकाम्भोधरकीर्यमाणवर्षोपलस्पर्धिकटाक्षवीक्षाम् । हीरप्रभाभासुरचम्पकाभनासाग्रविस्फारिमणिप्रवेकाम् ॥ ९॥ विकस्वराम्भोरुहकेसराभरदांशुसन्मिश्रितमुग्धहासाम् । रदच्छदापाटलकुन्दकोशमाला प्रतिस्पर्धिशिताग्रदन्ताम् ॥ १०॥ वर्णावलीवादनशोणरत्न कोणायमानाग्रविलोलजिह्वाम् । कपोलपालीमणिदर्पणान्तः स्फुरत्प्रभाविम्बितकर्णपूराम् ॥ ११॥ विसृत्वरस्मेरमुखेन्दुबिम्ब ज्योत्स्नासुधापीनजगच्चकोराम् । विपञ्चिकाञ्चत्कलनादभङ्गी विभावनामोदविलोलवक्त्राम् ॥ १२॥ वक्राब्जनालप्रतिमान कण्ठमृणाल काण्डायित हरिहाराम् । रेखात्रयीसूचित भर्तृभाग्यमाङ्गल्य सूत्राञ्चित कम्बुकञ्ठीम् ॥ १३॥ ओष्ठप्रभालक्तकरूषित श्रीकौशेयकूर्पासपिनद्धवक्षाम् । सुवृत्तमुक्तावलि काङ्क्ष्यमाणस्तन्यामृतापीन कुचाब्जकोशाम् ॥ १४॥ चिरागतानेक सुतावलोक स्रुतस्तन क्षीरकणार्द्रहाराम् । अभष्टिदान प्रथितामरद्रु शाखायमानां सलबाहुपाशां ॥ १५॥ शाणोपलोल्लीढ मणिप्रवेक केयूरवल्लीवलयाङ्गुलीयाम् । प्रपन्नलोकाभयदान मुद्रापुस्ताक्षमालां कुशपाशहस्ताम् ॥ १६॥ वैडूर्यशोणोपलहीर नीलप्रत्युप्त हेमाङ्गदकङ्कणाढ्याम् । ताटङ्क शोणोपल बीजपूर बीजभ्रमोत्कण्ठकराग्रकीराम् ॥ १७॥ आपीनवक्षोरुहभार भुग्नवलित्रयीपात पिनद्धमध्याम् । सुवर्ण काञ्चीमणिसूत्रनद्धस्पर्शानुमेयाम्बरगूढगछ्छाम् ॥ १८॥ रत्न प्रवेकाञ्चितनूपुराग्र मणिप्रभापिञ्जर पादपद्मां । शरत्प्रसन्नेन्दु कलाभिराम नखांशुविद्रावितहार्दतापां ॥ १९॥ प्रतप्तजाम्बूनद कायकान्तिच्छटापि शङ्गीकृतसौधमालां । श‍ृत्यन्त सीमान्त विभाग रेखाप्रमाणदण्डायितगात्रयष्टिं ॥ २०॥ शीतांशुतारालि तुषारहीर निभोत्तरासङ्गसमृद्धशोभां । सर्वज्ञताध्यापन लब्धवर्णप्रसाददाना दृतपक्ष्यलाक्षि ॥ २१॥ जगत्रयापत्यसपीति मोदपर्यासवक्षोरुह पूर्णकुम्भां । लोकत्रयी संवननप्रयुक्त यन्त्रोपमासचेनवक्त्रबिम्बां ॥ २२॥ सांसिद्धिकागन्तुक कान्तिपूरतरङ्गरिङ्गत्तरलागशोभां । निजाङ्ग संसर्गविशेषरम्यदुकूल रत्नाभरण प्रसूनाम् ॥ २३॥ पूर्णेन्दु कल्लोलितदुग्ध सिन्धुफेनायमानाम्बवर संवृताङ्गी । भेदभ्रमोन्मूलनदक्षतत्व विज्ञानमुद्राञ्चितपाणिपद्माम् ॥ २४॥ मृणालसूत्रीविशदोपवीत मुक्ताक्षमालाकनकालुरम्याम् । भ्रूवल्लरीकोमलरुन्दकल्प काश्मीरपङ्कार्द्रतमालपत्राम् ॥ २५॥ सिन्दूरपाली सुषुमानुषङ्ग किम्मीरकालागरुचैत्रकाढ्याम् । विरञ्चिनेत्राष्टकपीयमान सौन्दर्यपीयूषमुखेन्दुलक्ष्मीम् ॥ २६॥ ध्यानायन यच्चजगद्गुरूणा क्षेमायनं भक्तिपरायणानाम् । रसायनं धातृविलोचनानामेकायनं नश्शरणागतानाम् ॥ २७॥ भक्तावलीमानसराजहंसी श्रीचक्रराजाश्रितदिव्यमूर्तिम् । श्रीश‍ृङ्गशैलेन्द्रविहारलोलां श्रीशारदाम्बां सततं स्मरामि ॥ २८॥ श्रीहरीमतीमन्दवखण्डचूडः दयारसल्लिन्नविलोचनान्ताम् । चकोरसाहित्यनिदानवक्त्रां स्मरामि भक्तेष्टदकल्पवल्लीं ॥ २९॥ तालीपलाशाञ्चितकर्णजाहा काश्मीररेखोज्ज्वलफालमूला । निशाह्वयाचूर्णविमृष्टगण्डा धातुःपुरन्ध्री हृदि सन्निधत्ताम् ॥ ३०॥ प्रतिष्ठितां श्रीगुरुशङ्करार्यैः समर्चिता संयमिसार्वभौमैः । तपोभिरेषां सुसमिद्धशक्तिं स्थाने श्रुतिस्त्वां गुरुमूर्तिमाह ॥ ३१॥ नारायणोरस्थलगेहिनीति विरिञ्चिवक्राब्जकुटुम्बिनीति । श्रीकण्ठवामाङ्गवशंवदेति यथाभिलाषं समुपासते त्वाम् ॥ ३२॥ श्रुत्वा स्वरासि प्रकृतिः पदेषु वाक्येषु हेतुः प्रमितिः प्रमाणे । क्रियाफला तत्प्रतिभूस्त्वमेव सर्वात्मना व्याप्य विभासि विश्वं ॥ ३३॥ कल्या प्रदुग्धे चतुरः पुमर्थान् हिंसा च घोरा मुषती विधत्ते । शक्तिद्वयी तेऽम्ब निसर्गसिद्धा नवास्बुदस्येव सुवृष्टिवज्रे ॥ ३४॥ या ते प्रतिष्ठेति कला प्रसिद्धा भूमौ यया व्याप्तमिदं समग्रम् । तयैकया विश्वमिदं बिभर्षि विश्वम्भरां त्वां हृदि भावयामि ॥ ३५॥ मातश्चतुष्षष्टिकलाभिरेतच्चराचरं विश्वमनुप्रविश्य । त्वमेव तच्चेतयसीह सर्वचैतन्यरूपां शरणं प्रपद्ये ॥ ३६॥ विद्येत्यविद्येति च यत्स्वरूपे मोक्षाय बन्धाय च हेतुभूते । लीला तवैवाम्ब नचेत्कुतावो तमःप्रकाशौ सहयोगिनौ स्तः ॥ ३७॥ याश्शक्तयस्सर्गविधौ विधातुरुच्चावचाः कारणतां प्रसन्नाः । तासां परासां च समष्टिरूपामम्बामहं भावनयाऽवलम्बे ॥ ३८॥ अव्याकृतं पूर्वमिदं समग्रं तत्तद्विशेषग्रहणाय नाम्ना । तद्व्याकरोस्त्वं वचसां सवित्रि तत्त्वां विना चेतयते न किञ्चित् ॥ ३९॥ ऋचा नुवाकेन च सामशस्त्रैर्विधिप्रयोगान् विविधान्विधाय । ददासि लोकद्वयसौख्यमेषां तां वाङ्गमयीं शान्तिकलामुपासे ॥ ४०॥ सुधासवर्णां तरुणारुणाभामाराध्य केचिद्वृणुते स्वकामान् । जुषन्ति भोगान्विहितान् त्वयैव ते वञ्चितास्त्वन्महिमानभिज्ञाः ॥ ४१॥ संविन्मयीं त्वां समुपासते ये संवित्स्वरूपाः खलु ते भवन्ति । श्रद्धामयोयं पुरुषश्रुतश्च कीटोपि पेशस्करतां प्रयाति ॥ ४२॥ सेवालसोहं न च कामकामी सेवार्थिनी त्वं नहि पूर्णकामा । नैवावयोस्सेवकसेव्यभावस्तद्भेदहानौ किमुशिष्यते सा ॥ ४३॥ ब्रह्माहमस्मीति निदशर्यन्तु गवेषितं तैरपि तावदेव । तस्यापि चैतन्य मुपानयन्ती चिद्रूपिणीं त्वामहमित्यवैमि ॥ ४४॥ दयाम्बुधिं त्वां जननीति मत्वा विधूयगर्वाज्जननीतिमम्ब । अत्याचरं धर्मपथं च मूढो मामुद्धरेति प्रलपन्नलज्जे ॥ ४५॥ त्वत्पादपङ्केरुहदासमेनं नैवप्रतीकर्तुमलं सुरा वा । इति प्रमत्तः करवाणि पापं यशस्त्वकीयं परिरक्ष मा वा ॥ ४६॥ न प्रार्थितामेव सुरराजलक्ष्मीर्नवाञ्छितं वा भुवनाधिपत्यम् । इयन्मया प्रीयितमेव देहि तवाम्ब पादाम्बुरुहस्य दास्यं ॥ ४७॥ बालस्य मूकस्य जडस्य चापि दयाम्बुरारो दयसे त्वमम्ब । मामडेमूकं समुपेक्षसे किं विश‍ृङ्खला ते प्रभुता धरित्र्यां ॥ ४८॥ मातुर्दयापात्रमहं भवेयं परुत्परार्यैषम इत्यवेक्ष्य । इयन्ति वर्षाण्यतिवाहितानि फले विलम्बः किमभाववादः ॥ ४९॥ अनुग्रहं वा मयि निग्रहं वा यत्कर्तुकामासि कुरुष्व तूर्णं । द्वयेपि तस्मिन्विहिते त्वयैकः सूतेत्रिवर्गन्त्वपरोपवर्गः ॥ ५०॥ त्वय्यर्पिते कर्मणि तत्फले च मांमाविकुर्यादिति निव्वृतेपि । सा वासना मां नजहाति किं तत् त्वया गृहीतन्नु समुज्झितं नु ॥ ५१॥ उपासनाभिर्दहरात्मविद्याविशेषावज्ञीननिवर्तिताभिः । प्रीणासिचेत्त्वं तदबोधयन्त्या त्वयैव मातर्ननु वञ्चितास्स्मः ॥ ५२॥ गुरूपदेशैर्निगमावबोधैस्सतां चरित्रैर्मनसः प्रसादैः । निश्चप्रचन्ते करुणामयी त्वं कथं मृषोद्यं तदिति प्रतीमः ॥ ५३॥ नापेक्षसे त्वं विधिवत्सपर्यां न योगसिद्धिं न दृढां च भक्तिम् । सकृत्प्रणामाञ्जलिनैव तुष्टा तनोषि कल्याणपरम्परां नः ॥ ५४॥ स्मृतापि तापत्रयदारिणीति कृतापराधेपि दयामयीति । मत्वा शरण्यां शरणागतोहमीदृग्गुणान्या क्व च वा वदान्या ॥ ५५॥ शोणाश्मनीकाशतनुप्रकाशां विकोशितश्यामकुशेशयाक्षीं । दिशामहेशाश्रितपाददेशां स्मरामि कामेश्वरकोशनाथां ॥ ५६॥ एणीनिभाक्षीं करुणाम्बुराशिद्रोणीकृतापाङ्गझरीं पुराणीं । श्रोणीतटालम्बितचारुवेणीं वाणीं भजे मोहलताकृपाणीं ॥ ५७॥ वीटीरसापाटलदन्तवाटी चेटीकृताशेषसुपर्वकोटी । पाटीरगौरा त्रिजगन्नटीयमाटीकतां चेतसि वाग्वधूटी ॥ ५८॥ कराग्रसंलालितराजकीरान् प्रालम्बिमुक्ताफलतारहारान् । गिरांविदूरान्निगमान्तसारान् समाश्रयामो विधिधर्मदारान् ॥ ५९॥ श्रीशारदेति चतुरास्यकुटुम्बिनीति वाग्वादिनीति वरदेति च नामपङ्क्तौ । एकैकमेव निखिलार्थकरं तदन्यदाम्रेडितं हि चरितार्थपदेषु रूढम् ॥ ६०॥ बालार्कपाटलमरीचलसद्दुकूला लीलास्मितद्विगुणमौक्तिकरम्यमालां । वेलातिलन्घितदयोर्मिलनेत्रखेलां बालां नमामि कुटिलालकशोभिफालाम् ॥ ६१॥ धात्री समस्तजगतां दुरिताब्धियानपात्री समग्रनिगमान्तगिरां सवित्री । दात्री त्रिवर्गविभवस्य दयासुधायाः पात्रीकरोतु हृदि मां सुकृतस्य गोप्त्री ॥ ६२॥ अभ्यर्चितासि विनुतासिनतासि मातरुष्ट्रासिकांसमवलम्ब्यनिरीक्षितासि । जानासि मामशरणं फलदासि नूनं काले दयस्व समयाप्तफलं सखाय ॥ ६३॥ निखिलभुवनरक्षा दक्षिणा नेक्षसे मां व्यवहितनिकटस्था न प्रलापं श‍ृणोषि । मयि ननु कुलदासे यद्युपेक्षां कृषीष्टाः भवतु मम हि चेतस्त्वस्मृतिं नैव जह्यात् ॥ ६४॥ सरसललितसूक्तैः फुल्लमल्लीमतल्ली विगलितमकरदस्फारमाधुर्यसिक्तैः । कृतनुतिरतिवेलं जातचेतःप्रसक्तिः श‍ृतिविततिसवित्री शारदां संस्मरामि ॥ ६५॥ इति कुक्के. सुब्रह्मण्यशास्त्रीविरचितम् शारदास्तुतिः सम्पूर्णा ।