अक्षर आकार:

श्रीशारदास्तोत्रम् ३

Shri Sharada Stotram 3

श्रीशारदास्तोत्रम् ३

निदानमनुकम्पायाः पदाधःकृतपङ्कजाम् । सदा नम्रालिसुखदां कदा द्रक्ष्यामि शारदाम् ॥ १॥ विदामग्रसरो भूयाद्यदालोकनमात्रतः । रदालिजितकुन्दां तां कदा द्रक्ष्यामि शारदाम् ॥ २॥ अम्भोदनीलचिकुरां कुम्भोद्भवनिषेविताम् । दम्भोलिधारिसंसेव्यां कदा द्रक्ष्यामि शारदाम् ॥ ३॥ रम्भानिभोरुयुगलां कुम्भाभस्तनराजिताम् । शुम्भादिदैन्यशमनीं कदा द्रक्ष्यामि शारदाम् ॥ ४॥ अव्याजकरुणामूर्तिं सुव्याहारप्रदायिनीम् । रव्यादिमण्डलान्तःस्थां कदा द्रक्ष्यामि शारदाम् ॥ ५॥ मह्यम्ब्वादिजगद्रूपां मह्यं लोकेषु ये जनाः । द्रुह्यन्ति तेषां भयदां कदा द्रक्ष्यामि शारदाम् ॥ ६॥ शल्यापहारचतुरां वल्याशासितमार्दवाम् । कल्याणदाननिरतां कदा द्रक्ष्यामि शारदाम् ॥ ७॥ अस्मानवाप्तकामांस्ते यस्मात्प्रकुरुते कृपा । तस्मात्कृतोपकारां त्वां कदा द्रक्ष्यामि शारदाम् ॥ ८॥ कुन्देन्दुदुग्धधवलां मन्देतरधनं जवात् ॥ विन्देद्यदङ्घ्रिनम्रस्तां कदा द्रक्ष्यामि शारदाम् ॥ ९॥ वन्दारुजनवृन्दानां मन्दारव्रतधारिणीम् । वृन्दारकेन्द्रविनुतां कदा द्रक्ष्यामि शारदाम् ॥ १०॥ क्षमानिर्धूतवसुधां शमादिगुणदायिनीम् । रमासंस्तुतचारित्रां कदा द्रक्ष्यामि शारदाम् ॥ ११॥ समाराधयतां नैव यमाद्भीर्यत्पदाम्बुजे । समाधिमात्रगम्यां तां कदा द्रक्ष्यामि शारदाम् ॥ १२॥ सुमालिविलसद्ग्रीवां समानाधिकवर्जिताम् । कुमारगणनाथेड्यां कदा द्रक्ष्यमि शारदाम् ॥ १३॥ सामादिवेदविनुतां भूमानन्दप्रदायिनीम् । सीमातिलङ्घिकरुणां कदा द्रक्ष्यामि शारदाम् ॥ १४॥ गण्डाग्रराजत्कस्तूरी खण्डान्यसुखदायिनीम् । शुण्डालास्याग्निभूसेव्यां कदा द्रक्ष्यामि शाग्वाम् ॥ १५॥ तुण्डाधरीकृतविधुं चण्डाज्ञाननिवारिणीम् । भण्डादिदैत्यदर्पघ्नीं कदा द्रक्ष्यामि शारदाम् ॥ १६॥ जुष्ट्वा वेदशिरोवाग्भिरिष्ट्वा च विविधैर्मखैः । दृष्ट्वा हृष्यन्ति लोके यां कदा द्रक्ष्यामि शारदाम् ॥ १७॥ तेजोविजितगाङ्गेयां रजोगुणनिवारिणीम् । भुजोद्धृतबिसाहन्तां कदा द्रक्ष्यामि शारदाम् ॥ १८॥ दिवाकरेन्दुताटङ्कां प्रवाहकविताप्रदाम् । सवादिकर्मभिस्तुष्टां कदा द्रक्ष्यामि शारदाम् ॥ १९॥ लवाद्यस्याः कटाक्षस्य सवाजिरथकुञ्जराम् । अवाप्नुयाच्छ्रियं लोकः कदा द्रक्ष्यामि शारदाम् ॥ २०॥ दुर्लभां दुष्टमनसां सुलभां शुद्धचेतसाम् । वलन्मुक्तासरां कण्ठे कदा द्रक्ष्यामि शारदाम् ॥ २१॥ द्राक्षासदृक्षवाग्दात्रीं वीक्षापालितविष्टपाम् । लाक्षारञ्जितपादाब्जां कदा द्रक्ष्यामि शारदाम् ॥ २२॥ धृत्वा लक्ष्यं भ्रुवोर्मध्ये कृत्वा कुम्भकमादरात् । ध्यात्वा हृष्यन्ति यां लोकाः कदा द्रक्ष्यामि शारदाम् ॥ २३॥ निष्पापाराध्यचरणां दुष्प्रापामकृतात्मभिः । पुष्पालिगर्भितकचां कदा द्रक्ष्यामि शारदाम् ॥ २४॥ नीलाम्बुजतुल्यनयनां बालाब्जविलसत्कचाम् । कैलासनाथविनुतां कदा द्रक्ष्यामि शारदाम् ॥ २५॥ लीलानिर्मितलोकालिं लोलामम्बुजसम्भवे । कालाटवीदवशिखां कदा द्रक्ष्यामि शारदाम् ॥ २६॥ पुराणागमसंवेद्यां विरागिजनसेविताम् । कराग्रविलसन्मालां कदा द्रक्ष्यामि शारदाम् ॥ २७॥ मुरारिमुखसंसेव्यां सुरारिमदमर्दिनीम् । स्वरादिभुवनाधीशां कदा द्रक्ष्यामि शारदाम् ॥ २८॥ सुराचार्यसदृक्षः स्याद्गिरा यत्पदपूजकः । चराचरजगत्कर्त्रीं कदा द्रक्ष्यामि शारदाम् ॥ २९॥ वीराराध्यपदाम्भोजां क्रूरामयविनाशिनीम् । घोरापस्मारशमनीं कदा द्रक्ष्यामि शारदाम् ॥ ३०॥ शरणं सर्वलोकानां शरदभ्रनिभाम्बराम् । करराजद्बोधमुद्रां कदा द्रक्ष्यामि शारदाम् ॥ ३१॥ स्मरणात्सर्वपापघ्नीं चरणाम्बुजयोः सकृत् । वरदां पदनम्रेभ्यः कदा द्रक्ष्यामि शारदाम् ॥ ३२॥ पर्णाहारैः सेव्यमानां कर्णाग्रलसदुत्पलाम् । स्वर्णाभरणसंयुक्तां कदा द्रक्ष्यामि शारदाम् ॥ ३३॥ पूर्णचन्द्रसमानास्यां तूर्णमिष्टप्रदायिनीम् । चूर्णयन्तीं पापवृन्दं कदा द्रक्ष्यामि शारदाम् ॥ ३४॥ प्रभाजिततटित्कोटिं सभासु प्रतिभाप्रदाम् । विभावरीशतुल्यास्यां कदा द्रक्ष्यामि शारदाम् ॥ ३५॥ मत्तमातङ्गगमनां चित्तपद्मगतां सताम् । वित्तनाथार्चितपदां कदा द्रक्ष्यामि शारदाम् ॥ ३६॥ यतिनाथसमाराध्यां मतिदानधुरन्धराम् । पतितायापि वरदां कदा द्रक्ष्यामि शारदाम् ॥ ३७॥ यथा दुष्टा लिपिर्वैधी वृथा स्यान्नम्रफालगा । तथा करोति यद्‍ध्यानं कदा द्रक्ष्यामि शारदाम् ॥ ३८॥ रोगालिवारणचणां भोगानां पूगदायिनीम् । योगाभ्यासरतध्येयां कदा द्रक्ष्यामि शारदाम् ॥ ३९॥ विधातुममरान्नम्रान्सुधाकलशधारिणीम् । क्रुधारहितहृल्लभ्यां कदा द्रक्ष्यामि शारदाम् ॥ ४०॥ वीतां निर्जरनारीभिर्गीतां गन्धर्वगायकैः । पीताम्बरादिविनुतां कदा द्रक्ष्यामि शारदाम् ॥ ४१॥ शिक्षिताखिलदैतेयां कुक्षिस्थितजगत्त्रयीम् । रक्षितामरसन्दोहां कदा द्रक्ष्यामि शारदाम् ॥ ४२॥ शिखाभिर्गीतमाहात्म्यां सुखाराध्यपदां श्रुतेः । नखांशुजितचन्द्राभां कदा द्रक्ष्यामि शारदाम् ॥ ४३॥ शोकापहारचतुरां राकाचन्द्रसमाननाम् । केकासदृशवाग्भङ्गीं कदा द्रक्ष्यामि शारदाम् ॥ ४४॥ श‍ृङ्गाद्रिवासनिरतां गङ्गाधरसहोदरीम् । तुङ्गातटचरीं भूयः कदा द्रक्ष्यामि शारदाम् ॥ ४५॥ श‍ृङ्गारजन्मधरणिं गङ्गां तापनिवारणे । तुङ्गां पयोधरयुगे कदा द्रक्ष्यामि शारदाम् ॥ ४६॥ सुयशोदाननिरतां शयनिर्जितपल्लवाम् । इयत्तातीतसौन्दर्यां कदा द्रक्ष्यामि शारदाम् ॥ ४७॥ स्वर्गापवर्गसुखदां दुर्गापद्विनिवारिणीम् । दुर्गाशाकम्भरीरूपां कदा द्रक्ष्यामि शारदाम् ॥ ४८॥ कदा श‍ृङ्गगिरिं द्रक्ष्ये कदा तुङ्गां पिबाम्यहम् । कदा स्तोष्येऽग्रतो देव्याः कदा द्रक्ष्यामि शारदाम् ॥ ४९॥ कदा पापक्षयो भूयात्कदा पुण्यसमागमः । कदा पदे नमस्यामि कदा द्रक्ष्यामि शारदाम् ॥ ५०॥ सुहृदः शत्रवो वा मे ये सन्ति भुवि शारदे । अविशेषेण सर्वांस्तान्पाहि दत्त्वा शुभां धियम् ॥ ५१॥ शारदे त्वत्पदाम्भोजलोलम्बायितमानसः । अकार्षं स्तोत्रमेतच्छ्रीसच्चिदानन्दनामकः ॥ ५२॥ य इदं प्रपठेद्भक्त्या शारदास्तोत्रमण्डलम् । प्राप्नोति सततं लोके मङ्गलानां स मण्डलम् ॥ ५३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं शारदास्तोत्रं (३) सम्पूर्णम् ।