अक्षर आकार:

श्रीशारदास्तोत्रम् २

Shri Sharadastotram 2

श्रीशारदास्तोत्रम् २

वाग्देवते ! भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे । बोधं विशुद्धं भवती विधत्तां कलापवित्रा सितविग्रहा मे ॥ १॥ अङ्कप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहन्तुम् । अङ्कप्रविणा कलहंसपत्रा सरस्वती शश्वदपोहतां वः ॥ २॥ ब्राह्मि विजेषाष्ठ विनिन्द्रकुन्दप्रभावदाता घनगर्जितस्य ! स्वरेण जैत्री ऋतुना स्वकीय प्रभावदाता घनर्गर्जितस्य ॥ ३॥ मुक्ताक्षमालालसदौषधीशाऽभिशूजजवला भाति करे त्वदीये । मुक्ताक्षमालालसदौषधीशा यां प्रेक्ष्य भेजे मुनयोपि हर्षम् ॥ ४॥ ज्ञानं प्रदातुं प्रवणा ममातिशयालुनानाभवपातकानि । त्वं नेमुषां भारति ! पुण्डरीकशयालु नानाभवपातकानि ॥ ५॥ प्रौढप्रभावासमपुस्तकेनः द्याताऽसि येनाम्ब ! विराजिहस्ता । प्रौढप्रभावासमपुस्तकेन विद्यासुघापूरमदूरदुःखा ॥ ६॥ तुभ्यं प्रणामः क्रियते न येन मरालयेन प्रमदेन मातः । कीर्ति प्रतापौ भुवि तस्य नम्रमरालयेन प्रमदेन मातः ॥ ७॥ रूच्चारविन्दभ्रमदं करोति, वेलं यदीयोऽर्चति तेऽङ्घ्रियुग्मम् । रूच्चारविन्दभ्रमदं करोति स स्वस्थ गोष्ठीं विदूषां प्रविश्य ॥ ८॥ पादप्रसादात् वद्रव रूप-सम्पत्लेखाभिरामोदितमानवेशः । भवेन्नरः सूक्तिभिरम्ब ! चित्रोल्लेखाभिरामोदितमानवेशः ॥ ९॥ सितांशुकान्ते नयनाभिरामामूर्ति समाराध्य भवेन्मनुष्यः । सितांशुकानन्ते नयनाभिरामान्धकारसूर्यः क्षितिपावतंसः ॥ १०॥ येन स्थितं त्वामनु सर्वतीर्थ्यैः सभाजिता मानतमस्तकेन । दुर्वादिनां निर्दलितं नरेन्द्रसभाजिता मानतमस्तकेन ॥ ११॥ सर्वज्ञवक्त्रवरमारसाङ्कलीना मालिं घ्नती प्रणयमन्थरया दशैव । सर्वज्ञवक्त्रवरतामरसाङ्कलीना प्रीणात् विश्रुतयशाः श्रुतदेवता नः ॥ १२॥ कॢप्तस्तुतिर्निबिडभक्तिजडत्वपृक्तै- र्गुम्फैर्गिरामिति गिराभधिदेवता सा । बालऽनुकम्प्य इति रोपयतु प्रसाद- स्मेरा दृशं मयि जिनप्रभसूरिवर्ण्या ॥ १३॥ ॥ इति श्रीशारदास्तोत्रं (२) सम्पूर्णम् ॥