अक्षर आकार:

श्रीशारदास्तोत्रम्

Shri Sharada Stotram

श्रीशारदास्तोत्रम्

(श्रीश‍ृङ्गाद्रौ श्रीशारदानवरात्रोत्सवसमये) रत्नावलीनिर्मितशैलश‍ृङ्गविभ्राजदापूर्णसुधाकराभम् । आकण्ठरक्ताम्बरसंवृताङ्ग्या मुखाम्बुजं भाति जगज्जनन्याः ॥ १॥ आकण्ठमानम्रजनानुरागो ममेति लोकस्य विबोधनाय । आकण्ठरक्ताम्बरसंवृताङ्गी पद्मोत्थजाया प्रविभाति नूनम् ॥ २॥ एवं सर्वजगन्त्यप्युत्सङ्गे सन्निधाय रक्षामि । इति बोधनाय जगतामङ्के बालं दधासि मातस्त्वम् ॥ ३॥ शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव । अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥ ४॥ स्थालीपुलाकाख्यनयेन मातर्जगन्ति सर्वाण्यपि पालयामि । इत्येतदर्थस्य विबोधनाय बालं निजाङ्के विदधासि किं त्वम् ॥ ५॥ एकमेवाम्बरं वाणि विरूपं च वदन्ति हि । नवाम्बराणि धत्से त्वं सुरूपाणि कथं वद ॥ ६॥ आकाशवत्सर्वगतश्च नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य । प्रत्नत्वमेकत्वमपि प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥ ७॥ पुराणवस्त्राणि न धारयामि नवाम्बराण्येव तु धारयामि । इति प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥ ८॥ भवन्तु विजरामराः पदसरोजनम्रा इति प्रकृष्टदयया विधेः सखि सरोजतुल्यानने । करस्थकलशामृतं नतजनाय दातुं स्वयं महार्हमणिनिर्मितं चषकमम्ब धत्से किमु ॥ ९॥ त्यक्ष्यामि नैव रागं कालत्रितयेऽपि नम्रवर्गेषु । इति बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥ १०॥ हंसैरेव परैः सेव्या नाहमन्यैर्जनैरिति । प्रबोधनकृते मातर्हंसं वाहं करोषि किम् ॥ ११॥ हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय । विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥ १२॥ हंसोऽप्यहंस इति बोधमवाप्य मुक्तिं प्राप्तः परस्तव पदाम्बुजसंश्रयाद्यत् । तस्मात्तवाम्ब पदयुग्ममयं मुमुक्षु- र्हंसः समाश्रयति वाहनतामवाप्य ॥ १३॥ विरिञ्चिहृदयाम्बुजप्रमददानसूर्यप्रभे विचित्रगतिचातुरीप्रथितपादपङ्केरुहे । करोति किमयं सदा गमनचातुरीप्राप्तये मरालकुलनायकस्तव पदाब्जसेवां मुदा ॥ १४॥ हंसो बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायी पद्मानामेष मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ । अप्यामोदप्रदात्र्या नतहृदयसरोजातपङ्क्तेरधस्तात् भूतो हीत्येव बोधं रचयितुमिव किं हंसमारोहसीशे ॥ १५॥ कर्तुमात्मनि सार्था किं वृषेन्द्रः पुर एतु नः । इत्यादिकां श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥ १६॥ वृषभो वृषभो नो चेत्कथं तव पदाम्बुजम् । वाणि सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥ १७॥ वृषं पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः । द्रुतं पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्के ॥ १८॥ पशुपः शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु । पशुतानिवृत्तयेऽयं वृषभस्त्वां सेवते मातः ॥ १९॥ शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं भीतः पलाय्य तव सन्निधिमागतः किम् । उक्षाधिपः सरसिजासनधर्मपत्नि ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु ॥ २०॥ पुनरुपनयनं पुंसो वृषाधिरोहे न कामिन्याः । दर्शयति तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥ २१॥ नीलकण्ठस्य सार्वज्ञ्यमूलं त्वत्पादसेवनम् । इति सम्बोधयन्नीलकण्ठस्त्वां सेवते किमु ॥ २२॥ शिखी मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति । द्योतनाय शिखी किं वा मातस्त्वामेव सेवते ॥ २३॥ निशम्य सम्प्रेषितवान्मयूरमुद्धर्ष इत्येव पितृष्वसुः किम् । षडाननो ब्रूहि गिरां सवित्रि नम्रस्य सन्देहयुजो ममाशु ॥ २४॥ किं वर्णयामि तव सुन्दरतां मनुष्यो यत्सुन्दरत्वमभिवीक्ष्य मयूरपक्षी । हित्वा विरूप इति षण्मुखमाशु मातः वासं करोति तव पादसरोजमूले ॥ २५॥ दृष्ट्वा त्वदीयकचसन्ततिनीलमेघं सर्वर्तुषूदयनमेत्य मयूर एष । नित्यप्रहर्षदतया विरहासहिष्णुः नूनं त्वदङ्घ्रिनिकटे स्थितिमातनोति ॥ २६॥ केका न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि । इति नाम्नैव हि वक्तुं भाति त्वत्सन्निधौ केकी ॥ २७॥ शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय पालयामीदम् । जगदिति निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥ २८॥ शम्भौ सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा सागर्भ्यं त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि । वक्त्रारक्तपटीसुवाहमिषतः सेवां सदा कुर्वते मोदादेव हि ते न चात्र विशयः कश्चिद्गिरां देवते ॥ २९॥ केकातोऽपि मनोहरेण वचसा त्वन्निर्जितः केक्ययं पादाम्भोजयुगं प्रपन्न इति मच्चित्ते विभात्यम्बिके । जेतुः पादयुगप्रपत्तिरथवा देशान्तरावस्थितिः युक्तं चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति ॥ ३०॥ शिखिवच्छुद्ध एवेति नाम्नैवाह यतः शिखी । तस्मात्त्वद्वाहता चास्य युक्तैव विधिवल्लभे ॥ ३१॥ मुक्ताहारमिमं जगज्जननि ते शुभ्राहिबुद्‍ध्या किमु ग्रीवास्थं ह्ययमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः । नायं सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज- न्नैवालङ्कृतिलक्ष्यतः परमहो धत्ते बुधः पूर्ववत् ॥ ३२॥ आद्या मत्समयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपु- स्तद्युग्मं त्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः । तस्माच्चक्रयुगं तवोरसि कुचव्याजेन भात्यम्बिके तस्मादेव खगेश्वरश्च सततं त्वां सेवते मोदतः ॥ ३३॥ विष्णौ वीक्ष्य जडाधिवासमथ च स्वामित्रशायित्वम- प्यण्डोद्भूतपतिर्विहाय तमिमं विज्ञानरूषामयम् । त्वामेवाद्य निषेवते खलु मुदा वाग्देवि युक्तं च त- त्को वा शत्रुसहासिकां हि सहते लोकेषु विद्वज्जनः ॥ ३४॥ भूताकाशचरेट् त्वमेव भुवने सिद्धं हि का तेन मे वृद्धिश्चाभवदित्यवेत्य खगराण्णूनं गिरां देवते । हार्दाकाशचराधिपत्यमपि मे भूयादितीच्छाबशात् तत्प्राप्त्यै तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥ ३५॥ विनतातनूद्भवत्वं प्रकटं प्रभवेद्विनत्यैव । इति बुद्‍ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणी ॥ ३६॥ मानसविहरणशीलां देवीं त्यक्त्वान्यदेवतासेवा । नैवोचितेति खगराड्वहति त्वां तादृशी नूनम् ॥ ३७॥ सुवर्णनीकाश भवत्प्रतीककान्तेः परिष्वङ्गत एव सार्था । मुपर्णतेत्यात्मन आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेवाम् ॥ ३८॥ आगत्य कालाहिधिया हि वेणी गिहीतुकामः खगराण्णिरीक्ष्य । निह्नोतुमिच्छत्ययमम्ब नैजां भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥ ३९॥ लोके ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह । द्वावपि शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥ ४०॥ हस्तान्तरस्थपरशुं शम्भोर्भूषार्थमागतान्नागान् । दृष्ट्वा भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥ ४१॥ धत्ते कुरङ्गं विधुरेष पूर्णो मदास्यचन्द्रस्तमधः करोति । इत्येतयोर्भेदविबोधनाय कुरङ्गमम्ब त्वमधः करोषि ॥ ४२॥ समाश्रयेयं यदि पुष्करस्थ- मब्जं तदा स्यात्पतनं हि दर्शे । ममेति मत्वा मृगशाबकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥ ४३॥ शुक्लादौ शशिनं स्वकीयशरणं पूर्ण विचिन्वन्मृगो वाण्यास्यं तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः । प्राप्तश्चेति तवाङ्घ्रिसन्निधिमसावागत्य वेगात्ततो नास्मिन्नास्ति ममावकाश इति किं तिष्ठत्ययं भारति ॥ ४४॥ पुरा तव पदाम्बुजं हरिण एष सम्पूज्य यो जगत्प्रभुशिरःस्थिते शशिनि संस्थितं प्राप्तवान् । किमद्य हृदि संस्मरंस्तव पदाब्जसेवाफलं महोत्सवदिदृक्षया चरणसन्निधिं प्राप्तवान् ॥ ४५॥ पिबेयुरपि मां सुरा यदि वसामि चन्द्रे तदे- त्यपायरहितं पदं जिगमिषुश्चिरं सञ्चरन् । अपायवचनोज्झितं तव पदाब्जयोरन्तरं विलोक्य मृगशाबको वसति तत्र वाग्देवि किम् ॥ ४६॥ भक्ताज्ञानमहेभा मद्वाहनसन्निरीक्षणादेव । निर्यान्त्विति सहसा किं सिंहं वाहं करोषि मातस्त्वम् ॥ ४७॥ लालयति वाणि किं त्वां पञ्चास्यः स्कन्धमारोप्य । युक्तमिदं भ्रातृणां सोदर्यालालनं लोके ॥ ४८॥ विष्ण्वर्धत्वात्पालकत्वं ममास्ते संहर्तृत्वं नैजमेवास्ति किं तु । स्रष्टुर्भावो वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वां सेवते पञ्चवक्त्रः ॥ ४९॥ तवाम्बराभावशशीयश‍ृङ्ग- नीकाशमध्यत्वमयं निशम्य । वलग्नकार्श्याध्ययनाय किं वा पदाब्जसेवां विदधाति सिंहः ॥ ५०॥ नताय पादाम्बुजयोर्जनाय राजाधिराजत्वविधित्सया किम् । सिंहासनं त्वं वद दातुमम्ब सिहं सदा सन्निधिगं करोषि ॥ ५१॥ वने जातः सिंहः पुनरपि दरीवासनिरतः स्वसाम्यं यत्र स्यात्सततवसतिं तत्परिसरे । चिकीर्षन्भ्रान्त्या किं तव पदवनेजे नतमनो गुहावासे दृष्ट्वा वसतिमकरोत्तत्परिसरे ॥ ५२॥ नाथस्यापि ममानिवेद्य हरिणः सेवां कथं प्रातनो- द्वाग्देव्याश्चरणाब्जयोरिति रुषा सारङ्गबालं भृशम् । कृत्वा शीघ्रपलायनोत्सवपरं सेवां करोत्यादराद्- दृश्येशः स्वयमित्यवैमि करुणावारान्निधे शारदे ॥ ५३॥ कुरङ्गवेगस्तव दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि । इतीव गर्वादधिगम्य मातस्तुरङ्गमस्त्वां परिसेवते किम् ॥ ५४॥ तुरङ्गवच्चञ्चलमम्ब चित्तं बद्‍ध्वा दृढं भक्तिगुणेन शीघ्रम् । स्थिरं करोमीति गुणैस्तुरगं नियम्य किं बोधयसे जनांस्त्वम् ॥ ५५॥ त्वमश्वपूर्वां श्रियमानताय ददामि तूर्णं त्विति बोधनाय । तुरङ्गमग्रे विदधासि मातरितीव मन्ये वद किं तथैव ॥ ५६॥ उन्नम्य पादद्वितयं तुरङ्गो वदन्नितीवास्ति गिरां सवित्रि । विलङ्घ्यतां किं सरिदीश्वरोऽयमुत्प्लुत्य गच्छेयमथाम्बरं वा ॥ ५७॥ पदे पदे दानवश्यता मे भवेच्छचीनाथसमीपवासे । उच्चैःश्रवा इत्यधिगम्य मातस्तवाङ्घ्रिसेवां प्रकरोति किं वा ॥ ५८॥ अश्वो वाहनतां न याति दिविषद्वृन्दयस्य वेदा इति प्राहुस्तं च निशम्य रोषसहितस्त्वत्सन्निधिं प्राप्य किम् । मिथ्या कर्तुमहो तदीयवचनं देव्यास्तवाम्बानिशं वाहत्वं कुतुकी जगाम तुरगाधीशो गिरां देवते ॥ ५९॥ विहङ्गं कुरङ्गं तुरङ्गं च वाहं विधायाशुगं भ्रान्तिमासाद्य कि त्वम् । गजं मन्दगं वाहमद्यातनोषि प्रणम्रस्य मे ब्रूहि वाचामधीशे ॥ ६०॥ नतेष्टदानाय सदा जलार्द्रकराम्बुजा त्वं यत एव वाणि । तस्मादिभोऽप्येष तवाङ्घ्रिसङ्गाद्दानाम्बुसंसिक्तकरो विभाति ॥ ६१॥ केचित्प्राहुरनैपुणास्तु कुचयोः साम्यं हि कुम्भस्थले शुण्डायामथवोरुतौल्यमिभराडिच्छस्तवागादिति । नैतत्सम्भविता तनौ कठिनता यस्मात्ततः शारदे मन्ये ह्युत्सवसेवनाय हरिणा सम्प्रेषितः स्यादिति ॥ ६२॥ मम कौशिकवाहनता भवेद्धर्यश्वस्य सेवने किमिति । शुक्लेभस्तव वाहः समभून्मातर्न सन्देहः ॥ ६३॥ जम्भारौ कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं त्यक्त्वा ह्रीसाध्वसाभ्यामयमिभकुलराट्टौ शरच्चन्द्रशुभ्रः । इन्द्रोपेन्द्रादिसेव्यामपि सकलसुराराध्यपादारविन्दां त्वामेवातिप्रमोदात्कमलजदयिते सेवते नूनमेतत् ॥ ६४॥ मत्पादाब्जप्रणम्रं नरमतितरसा सेवते चेभमुख्या लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव बोधम् । कर्तुं हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्से वाणि प्रब्रूहि किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥ ६५॥ एकः शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल । शुकोऽपरस्तु को ब्रूहि शारदे प्रणताय मे ॥ ६६॥ एकं शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम् । मोक्षाय नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम् ॥ ६७॥ दन्तेषु किं दाडिमबीजबुद्‍ध्या तवाधरे बिम्बधियाथवायम् । शुकः कुतस्त्वन्निकटे चकास्ति सन्देहयुक्ताय वदाशु मातः ॥ ६८॥ श्रुत्वा तवाम्ब निनदं किल कीरडिम्भः कण्ठे तवास्ति शुक इत्ययमाकलय्य । इच्छन्विनिर्गमनमस्य बहिस्तवाद्य हस्ताम्बुजे स्थिरतया वसतीति मन्ये ॥ ६९॥ क्षुधाऽऽतुरः कश्चन कीरडिम्भ- स्तृषार्दितोऽन्यश्च तयोर्हि मातः । एकस्तु कर्णोत्पलमत्तुमिच्छ- त्यन्यः करस्थामृतपानकामः ॥ ७०॥ पादनम्रपुरुषान्किं बोधयितुं लज्जया गिरां देवि । अपिधाय नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥ ७१॥ प्रसवित्र्यां हि सुतानां नैव भवेत्साध्वसं कदाचिदपि । मत्वेति बोधनकृते गुरुवररूपं दधासि किं मातः ॥ ७२॥ सर्वात्मकत्वमथवा बोधयितुं स्वस्थ सर्वलोकानाम् । स्वीकुरुषे किं पौरुषमम्बुजसञ्जातमानिनि ब्रूहि ॥ ७३॥ झषौ स्वजातिदोषं किमबलस्वकुलाशनम् । मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ ॥ ७४॥ अशक्नुवन्स्तोतुमहीश्वरस्त्वन्मुखस्य सौन्दर्यमयं जगाम । रसातलं वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥ ७५॥ अशक्नुवन्तस्तव सुन्दरत्वं स्तोतुं महेशाग्निभबाब्जजाताः । निनिन्दुरास्येषु हि पञ्चकत्वं षट्ट्वं चतुष्ट्वं च गिरां सवित्रि ॥ ७६॥ नीलोप्यलोत्थः खलु नीलमेघो नम्रास्यमध्यात्कविताप्रवाहम् । प्रवर्तयत्याशु वदन्ति चैनं मातस्तवाक्षिप्रभवं कटाक्षम् ॥ ७७॥ नीलोत्पले त्वन्नयने हि मात- स्तदुत्थमेघः करुणाकटाक्षः । स नम्रवक्त्रात्कविताप्रवाहं प्रवर्तयत्याशु न संशयोऽत्र ॥ ७८॥ माला विभात्यम्ब तवाद्य कण्ठे क्वचिच्च रक्ता कचिदच्छवर्णा । बिम्बाधरस्य प्रभया हि नासा- मणेश्च कन्त्येति वितर्कयामि ॥ ७९॥ अक्षीणो नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम- श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो गिरां देवते । क्षीणेनाङ्कयुजा बहिःस्थिततमोमात्रापनोदक्षमे- णाब्जेनायमहो कथं स लभतां साम्यं जगन्मातृके ॥ ८०॥ देबानामनिमेषताद्य सफला जाता तवाम्बानिशं वक्त्राब्जस्य निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता । गौरीशस्य दशाक्षता कमलजस्याष्टाक्षता भारति क्रौञ्चारेर्द्विषडक्षतापि फलयुग्जातेति जानीमहे ॥ ८१॥ अस्याब्जस्य समाश्रये मं भवेन्मोदो रजन्यां परं नैवाह्नीत्यत एव चम्पकसुमेनालोच्य नीलोत्पले । सेवेते तव वक्त्रपद्ममनिशं नेत्रापदेशान्मुदा रात्रौ वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥ ८२॥ चन्द्रः सौहार्दमिच्छंस्तव मुखशशिना प्राप्य वृद्धिं वलक्षे पक्षे प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम् । दृष्ट्वाथ त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तं लज्जायुक्तस्ततोऽयं प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥ ८३॥ दृष्टं वाग्देवताया वदनसरसिजं येन भूमौ कदाचि- च्छृङ्गाद्रौ तस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि । नीहाराद्रेर्गुहातः सुरवरतटिनी यद्वदाश्वप्रयत्ना- न्निर्गच्छत्येव तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित् ॥ ८४॥ एकापि नानाविधरूपधर्त्री- त्येतादृशार्थस्य विबोधनाय । वेण्यां भुजङ्गी नयने कुरङ्गी मध्ये च सिंही प्रतिभासि किं त्वम् ॥ ८५॥ कम्बौ पद्मं भाति बिम्बं हि तस्मिन् मल्लीपङ्क्तिश्चापि नीलोत्पले द्वे । सर्वं ह्येतद्भाति हैम्यां लतायां शैले चास्मिन्पश्यतैतद्विचित्रम् ॥ ८६॥ विराजते कश्चन वारिराशि- र्मीनेन युक्तो न हि कम्बवोऽत्र । कम्बूपरिस्थस्त्वयमेव मातः सनेत्रमास्यं तव चैनमाहुः ॥ ८७॥ अकलङ्कः किमु चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम् । सौन्दयर्युतवपुष्मद्वक्त्रं किं वा तवाम्ब न हि जाने ॥ ८८॥ भुजगी वा तव वेणी किं वा करपद्मपुष्परसलोभात् । आगतमधुलिट्पटली जानीमो नैव विधिकान्ते ॥ ८९॥ नागेन्द्रकुम्भावुत हेमकुम्भौ किमम्ब कोकौ तव किं कुचौ वा । विवेक्तुमत्रास्ति न नोऽद्य शक्ति- स्त्वमेव मातर्वद धातृजाये ॥ ९०॥ पयोजौ कूर्मौ वा सुरवरशिरोभूषणमणी तरू वा कल्पाद्यौ नतजनचयाभीष्टवरदौ । पदे वा मातस्ते न तदिति विवेक्तुं हि विभवो वयं तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥ ९१॥ निर्गत्य शैलमध्यात्कुहरं काचिद्गता भुजगी । तां शंसन्ति हि सुधियो मातस्तव नाभिरोमालिम् ॥ ९२॥ सरस्या जातेयं न हि खलु कलिन्दाख्यगिरितः समुद्रं नो याता ह्यपि तु वरशैलद्वयगता । विभातीत्थं काचित्त्वयि खलु गिरा देवि यमुना वदन्त्येनां नाभिप्रसृततनुजालिं कविवराः ॥ ९३॥ किं तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम । तत्र सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥ ९४॥ दृष्टं वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भा- स्तम्भावूरुद्वयं तत्तदुपरि गगनं मध्यभागो हि नूनं मन्ये नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालं शैलद्वन्द्वं कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥ ९५॥ मां द्रष्टुमाकाशगतं हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः । इतीव मत्वा धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥ ९६॥ तवास्यलक्ष्याद्धरणीं गतस्य सुधांशुबिम्बस्य निषेवणाय । मुक्तासराणां मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥ ९७॥ शारदे तव पदं प्रसमीक्ष्य प्राप्तुमस्य सदृशत्वमहो किम् । कण्ठदघ्नसलिले प्रतिघस्रं पङ्कजान्युरुतपः प्रचरन्ति ॥ ९८॥ शारदे तव पदाम्बुजयुग्मं ये स्मरन्ति मनुजा भुविलोके । श्रीमतां च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥ ९९॥ वाताहताब्धिलहरीततितौल्यभाजो वाचः प्रयत्नमनपेक्ष्य मुखारविन्दात् । वादेषु यत्करुणया प्रगलन्ति पुंसां वाग्देवता भवतु वाञ्छितसिद्धये सा ॥ १००॥ यस्त्वामिन्दुनिबद्धदिव्यमकुटां शुक्लाम्बरालङ्कृतां मुद्रापुस्तकमालिकामृतघटान्सम्बिभ्रतीं ध्यायति । तस्यास्यात्सरसा सुवर्णघटिता सालङ्कृता वाक्तति- स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥ १०१॥ अनायासादास्यादमरतटिनीपूरसदृशी ततिर्वाचामाशु प्रसरति शिशोरप्यनुदिनम् । कृपालम्बापाङ्गे कृशतरवलग्नेऽकृशकुचे न सन्देह्यत्राहं सरसिजभवप्राणदयिते ॥ १०२॥ कदाचिदपि यो नरस्तव पदाम्बुजं भक्तितो विभावयति शारदे हृदयपङ्कजे तस्य हि । व्रजेयुरपि दासतां नृपवरास्तथा वाक्ततिः सुधाशितटिनीसखी वदनपद्मतो निःसरेत् ॥ १०३॥ जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं प्रपद्य सुरनायकं जयति सत्वरं सम्पदा । मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरी- विनिर्जितसुरापगास्मयभरश्च सञ्जायते ॥ १०४॥ शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता तुषारशैलगह्वरं जगाम जह्नुकन्यका । ततस्ततोऽपि तावकप्रणम्रकीर्तितर्जिता शिवस्य शैलकन्यका जटाख्यदुर्गमाविशत् ॥ १०५॥ के वा न कुर्युर्भुवि काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय । चित्रं त्वदङ्घ्रिं परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्भिः ॥ १०६॥ पञ्चास्यषण्मुखचतुर्मुखनागराजाः स्तोतुं न तेऽम्ब चरितं प्रभवन्ति किञ्चित् । एकाननः कथमहं तव शक्नुयां तत् स्तोतुं तथापि चपलं प्रसहस्व सूनोः ॥ १०७॥ यावद्वाचां सवित्रि प्रणतजनवचोदानबद्धादरे ते पादाम्भोजं प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः । तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य मध्या- दुत्थायाशु प्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥ १०८॥ मुक्ताहारमिषाज्जगज्जननि ते सेवां करोत्यादरात् देवानां सरिदित्यहो मकरराडालोच्य सेवां स्वयम् । कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति म- च्चिते भाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम् ॥ १०९॥ पापीयानिति सञ्जहासि करुणावारान्निधे शारदे सर्वाघौघपयोधिबाडवशिखे त्वं मामनाथं यदि । तर्ह्येतादृशपापकोटिसहितं सर्वैश्च दूरीकृतं को वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥ ११०॥ भक्तिहीन इति मां जहासि किं मातरद्य जलजासनप्रिये । सन्त्यजन्तु भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥ १११॥ विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चिते प्रणम्रजडतातमस्ततिविभेदसूर्यप्रभे । नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव- न्मरन्दतटिनीप्लवत्पदसरोरुहे पाहि माम् ॥ ११२॥ ज्वरादिनिखिलामयान्करुणया गिरामम्बिके निवारय विभावरीपतिसमानवक्त्राम्बुजे । स्वरादिभुवनाधिपप्रणतपादपाथोरुहे करादृतसुधेऽनिशं दिश सुखं जनानां मुदा ॥ ११३॥ पद्मासनस्थे सरसीरुहोत्थजाये वस त्वं हृदये सदा मे । तेनाहमाशाः सकला जयेयं न तत्र सन्देहलवोऽस्ति मेऽम्ब ॥ ११४॥ यं देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः मन्देतराप्यं सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि ॥ ११५॥ समस्तवस्तून्यपि सन्ति मातस्त्वत्सनिधौ किं तु न मन्मनोऽस्ति । तत्र प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु सन्निधौ ते ॥ ११६॥ लोकप्रसिद्धाब्धिततेस्तु मानमाहुर्द्विलक्षाधिकयोजनानि । नाद्राक्ष्म नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥ ११७॥ न पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः । न संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन् ॥ ११८॥ नैवाहमानीय सुमानि दिव्यान्याराधनं तेऽकरवं कदापि । तथापि मातः सहजानुकम्पायुतैः कटाक्षैः परिपासि मां त्वम् ॥ ११९॥ var परिपाहि ये प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय । ते नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥ १२०॥ अव्याजकारुण्यमयि प्रसीद सुव्याहृतीनां ततिमाशु यच्छ । नव्यानि काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥ १२१॥ तिष्ये युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः । नासासदृक्षत्वमहोऽधिगन्तुं मालात्वमापुः खलु चम्पकानि ॥ १२२॥ चम्पकसुमानि मातर्नूनं नासासदृक्षतां गन्तुम् । सततं मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥ १२३॥ अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे । नवनवकवित्वदानप्रवणे कञ्जातजन्मसुकृतमयि ॥ १२४॥ करुणापूरितनयने वरुणादिदिगीशसेव्यपदपद्मे । अरुणाधरजितबिम्बे तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥ १२५॥ स्फुर जगदम्ब सदा मे मानसपद्मे सरोजभवजाये । वरदाननिरतपाणे वीणापाणेऽधरे शोणे ॥ १२६॥ राकाचन्द्रसदृक्षं तव मुखपद्मं हृदम्बुजे स्मरताम् । कविता चेटीभूयात्तत्राम्ब, न मेऽस्ति सदेहः ॥ १२७॥ कन्यां कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः । नौकां भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम् ॥ १२८॥ काञ्चन काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम् । कमनीयकवनदात्रीं कमलासनसुकृतसन्ततिं कलये ॥ १२९॥ तनुजितगाङ्गेयरुचिः करधृतरुद्राक्षमालिकाकुम्भा । तनुतात्तामरसासनजाया जाड्यौघवारणं शीघ्रम् ॥ १३०॥ मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र । व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥ १३१॥ ममास्यमध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे । - स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे ॥ १३२॥ यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः पाशापनोदचतुरां परमेष्टिपत्नीम् । तां तुच्छसर्वविषयेषु विरक्तिदात्रीं श्रीशारदां कलितचन्द्रकलां नमामि ॥ १३३॥ ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः । ते पावयन्ति धरणीं स्वपदाञ्जसङ्गा- न्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि ॥ १३४॥ चन्द्रश्चकोरालिमयं करैः स्वैः करोति तृप्तां सितपक्ष एव । तवास्यचन्द्रस्तु नमच्चकोरान् करोति मातः सततं हि तृप्तान् ॥ १३६॥ आगच्छत मत्पादौ प्रणमत भजतेष्टनिखिलसम्पत्तीः । इति नम्रांस्त्वयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥ १३६॥ वाणी वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ । स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति मन्ये ॥ १३७॥ पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय । पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥ १३८॥ आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः । किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम् ॥ १३९ ]] । आदर्शवत्स्वच्छतरेषु चित्तेष्वेवाङ्घ्रिपद्मं मम भाति सम्यक् । इत्यर्थमावेदयितुं नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥ १४० ॥ सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य । तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥ १४१॥ लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे । एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥ १४२॥ कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम् । कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥ १४३॥ सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम् । पद्मे निवासं प्रकरोषि मातः कि पद्मयोनेर्दयिते वदास्मै ॥ १४४॥ हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किं चाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य । अध्यास्ते स्थैर्यसिद्‍ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रं मातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥ १४५॥ रथस्थितां मां मनुजा जगत्या पश्यन्ति ये भक्तियुतान्तरङ्गाः । मनोरथावाप्तिरशेषतः स्यात्तेषामिति द्योतयितुं रथस्था ॥ १४६॥ पद्मासनस्थितौ मम पदयोः स्फुटता भवेन्नैव । नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥ १४७॥ उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत् । इति तिष्ठसि किमु नम्रांस्तन्द्राहीनावितुं गिरां देवि ॥ १४८॥ मत्पादाम्बुजसेवकानतिजवात्संसारवारान्निधे- राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात् । यो वा कश्चिदिहेत्य जन्मजलधौ मग्नोऽहमस्मीत्यतो मां रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम् ॥ १४९॥ आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम् । तथैव त्वन्मुखाम्भोजं नतचित्तानि शारदे ॥ १५० ॥ धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम् ॥ १५१॥ कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी । करोतु मम कल्याणं कमलासनकामिनी ॥ १५२॥ कञ्जभवपुण्यराशे कम्रस्मितजितचकोरबन्धुचये । कंसमदमर्दनचणे कञ्चन पुरुषार्थमर्थयन्नौमि ॥ १५३॥ मतिजितसुरगुरुगर्वान् प्रकुर्वतीं शीघ्रमेव पदनम्रान् । कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥ १५४॥ उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम् । यामिनीकामिनी ताराकुसुमानि चिनोति किम् ॥ १५५॥ तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा- त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम् । संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धीन् भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥ १५६॥ वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः । वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम् ॥ १५७॥ ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु । वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥ १५८॥ अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् । इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥ १५९॥ दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः । दण्डितेद्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥ १६० ॥ वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्यो नाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके । तच्चन्द्राब्जप्रमुखनिबिडाहङ्कृतेर्भेददक्षं नित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम् ॥ १६१॥ अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः । कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥ १६२॥ ऐङ्कारस्तव बीजं वदने मम वसतु सर्वदा वाणि । तेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥ १६३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशारदास्तोत्रं सम्पूर्णम् ।