अक्षर आकार:

सारस्वतमन्त्रगर्भितं श्रीशारदास्तवनम्

sArasvatamantragarbhitaM shrIshAradAstavanam

सारस्वतमन्त्रगर्भितं श्रीशारदास्तवनम्

ॐ नमस्त्रिदशवन्दितक्रमे! सर्वविद्वज्जनपद्मभृङ्गिके! । बुद्धिमान्द्यकदलीदलीक्रियाशस्त्रि! तुभ्यमधिदेवते! गिराम् ॥ १॥ कुर्वते नभसि शोणशोचिषो भारति! क्रमनखांशवस्तव । नम्रनाकिमुकुटांशुमिश्रिता ऐन्द्रकार्मुकपरम्परामिव ॥ २॥ दन्तह्रीन्दुकमलश्रियो मुखं यैर्व्यलोकि तव देवि! सादरम् । ते विविक्तकवितानिकेतनं के न भारति! भवन्ति भूतले ? ॥ ३॥ श्रीन्द्रमुख्यविबुधार्चितक्रमां ये श्रयन्ति भवतीं तरीमिव । ते जगज्जननि! जाड्यवारिधिं निस्तरन्ति तरसा रसास्पृशः ॥। ४। द्रव्यभावतिमिरापनोदिनीं तावकीनवदनेन्दुचन्द्रिकाम् । यस्य लोचनचकोरकद्वयी पीयते भुवि स एव पुण्यभाक् ॥ ५॥ विभ्रदङ्गकमिदं त्वदर्पितस्नेहमन्थरदृशा तरङ्गितम् । वर्णमात्रवदनाक्षमोऽप्यहं स्वं कृतार्थमवयामि निश्चितम् ॥ ६॥ मौक्तिकाक्षवलयाब्जकच्छपीपुस्तकाङ्कितकरोपशोभिते । पद्मवासिनि! हिमोज्ज्वलाङ्गि वाग्वादिनि! प्रभव नो भवच्छिदे ॥ ७ विश्वविश्वभुवनैकदीपिके! नेमुषां मुषितमोहविप्लवे । भक्तिनिर्भरकवीन्द्रनन्दिते तुभ्यमस्तु गिरिदेवते नमः ॥ ८॥ उदारसारस्वतमन्त्रगर्भितं जिनप्रभाचार्यकृतं पठन्ति ये । वाग्देवतायाः स्फुटमेतदष्टकं स्फुरन्ति तेषा मधुरोज्ज्वला गिरः ॥ ९॥ ॥ इति श्रीजिनप्रभसूरिविरचितं सारस्वतमन्त्रगर्भितं श्रीशारदास्तवनम् सम्पूर्णम् ॥