अक्षर आकार:

श्रीशारदास्तवनम् २

Shri Sharada Stavanam

श्रीशारदास्तवनम् २

(रागः केदार) देवि शारदे निर्मल-मतिदे शरणं तव पदकमलम् । प्रसन्नवदने सुधांशुवसने नाशय मम मति-तिमिरम् ॥ १॥ विश्ववन्दिते गानरञ्जिते तन मे मनसि निवासम् । सत्वरमुद्धर मां भवसागरपतितं हा विलपन्तम् ॥ २॥ बहुसुखदायिनि दुरितविनाशिनि संहर तापत्रितयम् । सुवर्णरचिते नवरसमुदिते करुणां कुरु विनतोऽहम् ॥ ३॥ वीणाधारिणि मयूरवाहिनि हृदये वस मे सततम् । ज्ञानकरीमज्ञानसंहरी वन्देऽहं त्वामनिशम् ॥ ४॥ वादयसि त्वं वीणां सततं नयसि लयं च विषादम् । ज्ञानविहीनं व्यर्थं सकलं कथयसि तत्त्वं विमलम् ॥ ५॥ स्वयम्भु-तनये दयाद्रहदये व्यपनय मानस-तापम् । प्रतिभाशालिनि सरोजवासिनि कुरु मे प्रतिभावन्तम् ॥ ६॥ प्रणत-भक्तजन-दुःख-विनाशनमेतत् त्वदीयकार्यम् । अध्ययने ये निरताः सदये वितरसि तेषु ज्ञानम् ॥ ७॥ तनयमधीरं जननि सत्वरं पायय दिव्य-स्तन्यम् । घनान्धतिमिरे सुघोरविपिने धीरय मार्गभ्रष्टम् ॥ ८॥ तव पदकमले विलसतु विमले मदीय-जीवनपद्मम् । नान्यकामनां नान्ययाचनां काङ्क्षति भगवति चित्तम् ॥ ९॥ इति श्री आपटीकरविरचितं श्रीशारदास्तवनं सम्पूर्णम् ।