अक्षर आकार:

श्रीशारदास्तवकदम्बम्

Shri Sharada Stavakadambam

श्रीशारदास्तवकदम्बम्

(श्रीकालटिक्षेत्रे) हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम् । कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम् ॥ १॥ नास्तिक्यबुद्धिहतमानसवारिजातां- स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान् । कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख- वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व ॥ २॥ ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो- र्लोकान्तरं च निजकर्मकृतां सुखापम् । पापानि पापफलदाश्च तथैव लोका इत्यम्ब लोकततये वितराशु बुद्धिम् ॥ ३॥ ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या रज्जूरगादिवदतो न हि सौख्यलेशः । तस्मादिति प्रवितराम्ब दृढां मनीषां नम्रालयेऽतिसुखमाप्स्यति येन शीघ्रम् ॥ ४॥ या श‍ृङ्गशैलशिखरे यतिरूपधर्त्रा संस्थापितापि गिरिजापतिना पुरा सा । कालट्यभिख्यविषयेऽपि मयार्थिता त्वं वासं कुरुष्व जगतामवनाय वाणि ॥ ५॥ नाकाधिराजमुखलेखवरार्चितायै रकाशशाङ्कनिभवस्त्रविभूषितायै । मूकालयेऽपि तरसा कविताप्रदायै एकाजपुण्यततये तनुमो नमांसि ॥ ६॥ सरस्वति सरस्वति प्रपतितानबोधाह्वये शरीरजमुखाख्यषण्मकरतोऽतिसम्भीषणे । षडूर्मिसहिते जनान्करुणया तु निर्व्याजया समुद्धर समुद्धर द्रुहिणपुण्यराशे जवात् ॥ ७॥ मुद्रापुस्तकमालिकाऽमृतघटभ्राजत्कराम्भोरुहे विद्राव्याशु चिरात्तमान्ध्यमखिलं दुस्त्याज्यमन्यैर्जनैः । शीघ्रं तत्त्वमसीति बोधमचलं दत्त्वा कृपावारिधे वाणि त्वच्चरणारविन्दशरणं शुद्धान्तरङ्गं कुरु ॥ ८॥ किं ब्रूषे वचसां सवित्रि जनतानास्तिक्यबुद्धिर्ध्रुवा कालात्तिष्ययुगान्न चान्यथयितुं शक्येति किं सुष्ठु तत् । कालाखर्वमनःसमुन्नतिहरश्रीशम्भुसोदर्यपि त्वं भूत्वा कथमद्य कालकलितं दौःस्थ्यं ब्रवीष्यम्बिके ॥ ९॥ यस्माज्जडानुग्रहदीक्षितस्य शम्भोः स्वसारं भवतीं वदन्ति तस्मात्स्वसृत्वं गिरिशस्य सार्थं कुरुष्व शीघ्रं मम धीप्रदानात् ॥ १०॥ आजन्मनस्तेऽङ्घ्रियुगं गतानां चित्तं सितं चेत्प्रकरोषि वाणि चित्रं न तत्तन्मलिनाग्रगण्यं मत्कं सितं कुर्वरमम्ब चित्तम् ॥ ११॥ सान्निध्यमस्मिन्कुरु मूर्तिवर्ये चिरं कृपातो जगदम्ब वाणि । प्रवर्तयासेतुतुषारशैलं सद्धर्ममेनं जगतां हिताय ॥ १२॥ सन्ध्यादिकर्माण्यपि हा विहाय रात्रिन्दिवं स्वोदरपूरणेच्छून् । नरानिमान्पापभयेन शून्यान्ततो विधायाश्वव वाक्सवित्रि ॥ १३॥ var शून्यान्सतो मालासुधाकुम्भविबोधमुद्राविद्याविराजत्करवारिजाताम् । अपारकारुण्यसुधाम्बुराशिं श्रीशारदाम्बां प्रणतोऽस्मि नित्यम् ॥ १४॥ समागतोऽध्येतुमयं ध्वनिं किं कीरार्भकस्त्वत्करपद्मसंस्थः । तवाधरे बिम्बधियात्तुमम्ब समागतो वा वद धातृजाये ॥ १५॥ वाणि पाणिजितरक्तपयोजे शोणिताम्बरधरेऽधरकान्त्या । पाणिना धरसि किं शुकमेनं प्राणिबोधनकृतेऽखिलगुप्तेः ॥ १६॥ शारदाम्बुदसमाननिजाभां नीरजाभकचसंहतिरम्याम् । पारदां लघु भवाख्यपयोधेः शारदाम्ब कलयामि तनुं ते ॥ १७॥ बालचन्द्रपरिचुम्बितशीर्षां लीलयैव परिरक्षितलोकाम् । नीलनागसदृशाकृतिवेणीं शीलयामि हृदये विधिकान्ताम् ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशारदास्तवकदम्बं सम्पूर्णम् ।