अक्षर आकार:

श्रीशारदास्तवः ४

Shri Sharada Stava 4

श्रीशारदास्तवः ४

(पृथ्वी) नमामि धवलांशुकां सरसिजासनां शारदां नमामि तिमिरापहां सकलबुद्धिदां देवताम् । नमाम्यमरपूजितां विविध-गीत-सन्तोषितां नमामि शरणार्थिनां व्यसननाशिनीं सिद्धिदाम् ॥ १॥ नमामि सरसीरुहासन-विभूषितां सुन्दरीं करे स्फटिकमालिकां विदधतीं प्रसन्नाननाम् । सदाऽध्ययनतत्परान् सततभक्तिसेवारतान् जनानवसि शारदे सकल सौख्यदे देवते ॥ २॥ न राज्यमपि कामये न च सूखेऽपि मे कामना न कीर्तिमपि काङ्क्षते मम मनो यशोदायिनि । मदीयहृदये दयामयि सदा निवासं कुरु त्वदीयगुणकीर्तने मम रतिः सदा वर्धताम् ॥ ३॥ त्वमेव वरदायिनी सकलवाङ्मयाधीश्वरी सुकीर्तिधनदायिनी त्वमसि देवि वीणाधरे । नमन्ति विबुधाः सदा तव पदारविन्दद्वयं त्वमेव भव शारदे भवनिधौ ममोद्धारिणी ॥ ४॥ तवैव कृपया विधिः सृजति देवि विश्वावलीं सरस्वति मुरारिणा जगदिदं सुसंरक्षितम् । तवैव कृपया हरो हरति विश्वपापावलीं कृपा न तव चेत्कथं हरिहरादयः पान्तु नः ॥ ५॥ त्रिलोकभयनाशिनी त्रिविधतापसंहारिणी सुधामधुरभाषिणी सुमनसां यशोदायिनी । सुवर्णपदधारिणी नवरसैश्च सन्तोषिणी ममागुणविनाशिनी भवतु साऽथ तेजस्विनी ॥ ६॥ सदैव कविमानसे विजयसे जगन्मोहिनी मरालनृपवाहिनी मधुरमालपन्ती सदा । नितान्तरमणीयतां विदधती सुवर्णायुता मदीयमनसि स्थिता भवतु दिव्यवागीश्वर ॥ ७॥ अनल्पसुखदायिनी दुरितदुःखविध्वंसिनी सुभाषितसुभाषिणी नवरसाम्बुसन्तोषिणी । मनोमलविनाशिनी सकलसौख्यनिष्यन्दिनी मदन्तरनिवासिनी भव सदैव मेधाविनी ॥ ८॥ इमं संस्तवं शारदायाः सुरम्यं पठेत् प्रत्यहं सादरं मानवो यः । जडत्वं मतेस्तस्य नीत्वा विनाशं प्रसन्ना भवेत् शारदा ज्ञानदात्री ॥ ९॥ इति श्री आपटीकरविरचितः श्रीशारदास्तवः सम्पूर्णः ।