अक्षर आकार:

श्रीशारदास्तवः ३

Shri Sharada Stavah 3

श्रीशारदास्तवः ३

(शिष्याशीर्वचनात्मकस्तवाः) श्रीरामलक्ष्मणाविव सौहार्दं प्राप्य सुस्थिरं सुचिरम् । श्रीचामराजपुत्रौ जीयास्तां शारदाम्ब तव कृपया ॥ १॥ भारति सम्पद्भरितौ बुद्‍ध्या चैवातितीक्ष्णया पूर्णौ । आयुष्मन्तौ सुखिनौ भूयास्तां चामराजसुकुमारौ ॥ २॥ राज्याभिवृद्धिमतुलां प्रापय्याश्वेभपत्तिवृद्धिं च । पालय कमलजजाये चामक्षितिपालवर्यसुकुमारौ ॥ ३॥ गजतुरगवाहनस्थावपि रथमध्येषु सुस्थितौ वाणि । संरक्ष सन्ततं बहुकरुणे श्रीचामराजसुकुमारौ ॥ ४॥ देवद्विजगुरुभक्तिं सुदृढां दत्त्वा च विनयसम्पत्तिम् । पालय पद्मजमानिनि सततं श्रीचामराजसुकुमारौ ॥ ५॥ गिरिसानुषु गहनेष्वपि मार्गेष्वनिशं समस्तदेशेषु । सर्वापद्भ्यः पालय विधिभामिनि चामराजसुकुमारौ ॥ ६॥ वाक्पाटवमतिदृढतां नीरोगत्वं च वपुषि सुयशश्च । दत्त्वाब्जयोनिजाये कारुण्यात्पाहि चामनृपपुत्रौ ॥ ७॥ वश्यान्विधाय नृपतीन्दत्त्वा चैकातपत्रसाम्राज्यम् । श्रीचक्रकृतनिवासे वाण्यव चामावनीपसुकुमारौ ॥ ८॥ श्रीनाथमुखनिषेव्ये श्रीविद्यादानदक्षपदविनुते । श्रीशारदाम्ब पाहि श्रीमन्तौ चामराजसुकुमारौ ॥ ९॥ वाणि तावकविलाससमुत्थौ पाणिनिर्जितपयोरुहगर्वौ । सामवेदनुतदिव्यचरित्रे चामभूपतनयौ परिपाहि ॥ १०॥ यद्यस्ति मयि कृपा तव विनुता स्तुत्यानया गिरां देवि । शिष्याविमौ मदीयौ पाहि श्रीचामराजसुकुमारौ ॥ ११॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः शारदास्तवः (३) सम्पूर्णः ।