अक्षर आकार:

श्रीशारदास्तवः १

Shri Sharada Stavah 1

श्रीशारदास्तवः १

(श्रीजगद्गुरुश्रीनरसिंहभारतीविषयकः) लीला नाम महीपतेस्तु महिषी स्वाङ्गेऽपि दग्धे यथा- पूर्वं त्वत्करुणाकटाक्षवशतः पूर्वं समागाद्यथा । तद्वच्छ्रीनरसिंहभारतिगुरुर्मद्भाग्यपुञ्जः कदा वाण्यायास्यति सत्वरं वद तथा कुर्याः प्रसादं मयि ॥ १॥ मृताश्च पुनरुत्थिताः कपिवरा यथा शारदे रघूत्तमकृपावशादपि यथापुरं सङ्गताः । तथा मम यथापुरं कलितदिव्यभव्याकृति- र्नृसिंहगुरुरादराद्द्रुततरं समागच्छतु ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशारदास्तवः (१) समाप्तः । शिष्याशीर्वचनात्मकस्तवाः । (The following stuties on different deities upto Narasimha stotraM are prayers for bestowing Graces on the author’s disciples such as the sons of King Chamaraja and others. )