अक्षर आकार:

श्रीशारदाशतश्लोकीस्तवः

Shri Sharada Shatashlokistavah

श्रीशारदाशतश्लोकीस्तवः

करोतु पदविन्यासान्कमलासनकामिनी । जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥ १॥ पापेऽपि शारदाम्ब त्वं कृत्वा बहुकृपां मयि । गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥ २॥ बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः । प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये ॥ ३॥ चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम् । शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥ ४॥ नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम् । पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥ ५॥ भक्तकेकिकुलतोषणव्रतं पद्मसम्भवहृदम्बराश्रितम् । गद्यपद्यमयवारिसन्ददन्मेघवत्तव मुखं विभाति मे ॥ ६॥ नेत्रोत्पलालङ्कृतमध्यभागं भ्रूवल्लिकाबम्भरपङ्क्तिरम्यम् । पक्ष्मालिशैवालयुतं विभाति तवास्यमेतत्सरसीव वाणि ॥ ७॥ सुचिल्लिकातोरणशोभमानं विशालफालाङ्गणरम्यरम्यम् । उत्तुङ्गमाणिक्यकिरीटहर्म्यं विभाति वेश्मेव तवाम्ब वक्त्रम् ॥ ८॥ नयनझषयुतोऽयं दन्तमुक्ताफलाढ्यो दशनवसननामश्रीप्रवालप्रभायुक् । प्रतिपदमभिवृद्धैः कान्तिपूरैः समेतः शरधिरिव विभाति त्वन्मुखं वाक्सवित्रि ॥ ९॥ कलय कलिविमोकं कालकालानुजाते कलय शुभसमृद्धिं भूमिमध्येऽखिलेऽस्मिन् । कलय रुचिसमृद्धिं स्वस्वधर्मे जनानां कलय सुखसमृद्धिं स्वस्वधर्मे रतानाम् ॥ १०॥ स्फुर ह्रुदयसरोजे शारदे शुभ्रवर्णे कलशममृतपूर्णं मालिकां बोधमुद्राम् । सरसिजनिभहस्तैर्बिभ्रती पुस्तकं च प्रणतहृदयमच्छं कुर्वती तूर्णमेव ॥ ११॥ पालय मां करुणाब्धे परिवारयुतं त्विहापि श‍ृङ्गाद्रौ । शारदशशिनिभवदने वरदे लघु शारदे सदये ॥ १२॥ ऐन्द्रीमाशामैन्दवीं वा कलामि- त्यादौ बीजं जातु मातस्त्वदीयम् । व्याजाद्वा यो व्याहरेत्तस्य वक्त्रा- द्दिव्या वाचो निःसरन्त्यप्रयत्नात् ॥ १३॥ शारदे तव पदाम्बुजयुग्मं बोधपुष्परसपूर्णमजस्रम् । मामकं हृदयसंज्ञकमीशे नैव मुञ्चतु सरः करुणाब्धे ॥ १४॥ कथितानि मदीप्सितानि मातर्मुहुरग्रे तव शारदाम्बिके त्वम् । न हि पूरयसे चिरायसे किं मदघौघात्किमु शक्त्यभावतो वा ॥ १५॥ अद्यैव मत्प्रार्थितमम्ब दद्या यदि त्वपारां करुणां विधाय । वेलाविहीनं सुखमाप्नुयां हि नैवात्र सन्देहलवोऽपि कश्चित् ॥ १६॥ कमनीयकवित्वदां जवाद्रमणीयाम्बुजतुल्यपद्युताम् । शमनीयभयापहारिणीं रमणीं पद्मभवस्य भावये ॥ १७॥ काङ्क्षे कमलजकामिनि कमनीयैः पद्यनिकुरुम्बैः । स्तोतुं वाचां निकरं स्वायत्तं कलय जगदम्ब ॥ १८॥ कामं मम फालतले लिखतु लिपिं दुःखदां विधिः सततम् । नाहं बिभेमि मातर्लुम्पामि त्वत्पदाब्जरजसा ताम् ॥ १९॥ किं कल्पवृक्षमुख्यैः किं करधृतमेरुणा शिवेनापि । किं कमलया च हृदि चेत्किङ्करसर्वेष्टदा वाणी ॥ २०॥ तुङ्गातटनिकटचरं भृङ्गावलिगर्वहरणचणचिकुरम् । श्रीशारदाभिधानं भाग्यं मम जयति श‍ृङ्गशैलाग्रे ॥ २१॥ निरणायि मया समस्तशास्त्रा- ण्यपि वीक्ष्य प्रणतार्तिहारि लोके । प्रविहाय तवाङ्घ्रिपङ्कजातं न परं वस्त्विति वाणि निश्चितं तत् ॥ २२॥ पद्मासनासि खलु भारति वागधीशे पद्मासनप्रियतमे करलग्नपद्मे । मत्कं मनोऽम्बुजमहो स्वयमेव मातः श्रीशारदाम्ब विजहासि किमत्र वाच्यम् ॥ २३॥ आनीय दिव्यकुसुमानि किरन्ति लोका ये त्वत्पदाब्जयुगलं वचसां सवित्रि । तान्प्राप्तराजपदवींस्तरसा किरन्ति पौराङ्गनाः कुसुमलाजचयेन नूनम् ॥ २४॥ आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बा साष्टाङ्गं योगमारादुपदिशति भवानौरसः सूनुरस्याः । इत्यप्यद्यापि मातर्न हि खलु करुणा जायते मय्यनाथे किं वा कुर्यां वदाम्ब प्रणतभयहरे शारदे चापलोऽहम् ॥ २५॥ नाहं निगृह्य करणानि सरोजजात- जाये त्वदीयपदपङ्कजयोर्हि सेवाम् । शक्नोमि कर्तुमलसाज्ञशिखामणिर्य- त्तस्मान्निसर्गकरुणां कुरु मय्यनाथे ॥ २६॥ वाणि सरस्वति भारति वाग्वादिनि वारिजातजनिजाये । काश्मीरपुरनिवासिनि कामितफलवृन्ददायिनि नमस्ते ॥ २७॥ शरणं त्वच्चरणं मे नान्यद्वाग्देवि निश्चितं त्वेतत् । तस्मात्कुरु करुणां मय्यनन्यशरणे द्रुतं मातः ॥ २८॥ शरदभ्रसदभ्रवस्त्रवीता करदूरीकृतपङ्कजाभिमाना । चरणाम्बुजलग्ननाकिमौलिर्वरदा स्यान्मम शारदा दयार्द्रा ॥ २९॥ स्थापय नरकेषु सदाप्यथ सुखकाष्ठासु दिव्यलोकेषु । न हि तत्र मे विचारः परं तु चित्तं तवाङ्घ्रिगतमस्तु ॥ ३०॥ श‍ृङ्गाद्रिवासलोले भृङ्गाहङ्कारहारिकचभारे । तुङ्गातीरविहारे गङ्गाधरसोदरि प्रसीद मम ॥ ३१॥ ऋष्यश‍ृङ्गजनिभूमिविभूषे कश्यपादिमुनिवन्दितपादे । पश्यदङ्घ्रिमुखपालनलोले वश्यपङ्कजभवेऽव सदा माम् ॥ ३२॥ कम्बुडम्बरनिवर्तककण्ठामम्बुधिं निरवधि करुणयाः । अम्बुदप्रतिमकेशसमूहामम्बुजोद्भवसखीं कलयेऽहम् ॥ ३३॥ भर्मगर्वहरसंहननाभां शर्मदां पदसरोजनतेभ्यः । कर्मभक्तिमुखपद्धतिगम्यां कुर्महे मनसि पद्मजजायाम् ॥ ३४॥ शम्भुसोदरि शशाङ्कनिभास्ये मन्दबुद्धिविततेरपि शीघ्रम् । वाक्प्रदायिनि कृपामृतराशे श‍ृङ्गशैलवरवासविलोले ॥ ३५॥ तुष्टिमेहि वचसां जननि त्वं मत्कृतेन विधिनाऽविधिना वा । ऐञ्जपेन परिपूरय वाञ्छां मामकीं च महतीमपि शीघ्रम् ॥ ३६॥ तवौरसं सूनुमहो त्वदीयभक्ताग्रगण्या मम देशिकेन्द्राः । प्राहुर्यतोऽतो मयि शारदाम्ब पाप्यग्रगण्येऽपि दया विधेया ॥ ३७॥ तवौरसं मां सुतमाहुरार्यास्त्वत्पादभक्ताग्रसरा यतोऽतः । सोढ्वा मदीयान्सकलापराधान्पुरो भवाम्बाशु गिरां सवित्रि ॥ ३८॥ भक्तेष्टपाथोनिधिपूर्णचन्द्रः कवित्वमाकन्दवसन्तकालः । जाड्यान्धकारव्रजपद्मबन्धुरम्ब प्रणामस्तव पादपद्मे ॥ ३९॥ मुखाम्बुजं भातु जगज्जनन्या हृदम्बुजे मे जितचन्द्रबिम्बम् । रदाम्बराधःकृतपक्वबिम्बं महाघविध्वंसनचञ्च्वजस्रम् ॥ ४०॥ यानेन हंसं वदनेन चन्द्रं श्रोणीभराच्छैलपतिं च कामम् । काञ्चिद्धसन्तीं कलये हृदब्जे चन्द्रार्धराजद्वरकेशपाशाम् ॥ ४१॥ विस्मृत्य देहादिकमम्ब सम्यक्समुच्चरंस्तावकमन्त्रराजम् । तुङ्गानदीपुण्यतटे कदाहं सुसैकते स्वैरगतिर्भवामि ॥ ४२॥ श्रीशादिसंसेवितपादपद्मे श्रीबोधदानव्रतबद्धदीक्षे । श्रीकण्ठसोदर्यमितानुकम्पे श्रीशारदाम्बाशु कृपां कुरुष्व ॥ ४३॥ हृद्यानि पद्यानि विनिःसरन्ति त्वदङ्घ्रिसम्पूजकवक्त्रपद्मात् । विना प्रयत्नं तरसा न चित्रं त्वमम्ब यस्माद्वचसां सवित्री ॥ ४४॥ गमागमविवर्जितैरसुभिरन्तरङ्गेऽनिशं गजास्यगुहनन्दिभिः सुरवरैर्मुदा चिन्तिते । गजाजिनधरानुजे गलिततृष्णलोकेक्षिते गतिं मम शुभां मतिं सपदि देहि वागीश्वरि ॥ ४५॥ जलोद्भवजभामिनि प्रणतसौख्यभूमप्रदे जडत्वविनिवारणव्रतनिषक्तचेतोऽम्बुजे । जगत्त्रयनिवासिभिः सततसेव्यपादाम्बुजे जगज्जननि शारदे जनय सौख्यमत्यद्भुतम् ॥ ४६॥ मदेभगमनेऽवने नतततेरनेकैः सुखै- रनारतमजामितं प्रवणहृत्सरोजेऽम्बिके । कुतो मयि कृपा न ते प्रसरति प्रसन्ने वद प्रपञ्चजननप्रभुप्रणयिनि प्रपद्येऽद्य कम् ॥ ४७॥ कदा वा श्रुङ्गाद्रौ विमलतरतुङ्गापरिसरे वसन्मातर्वाचां शिरसि निदधानोऽञ्जलिपुटम् । गिरां देवि ब्राह्मि प्रणतवरदे भारति जवा- त्प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ४८॥ जगन्नाथं गङ्गा विविधवृजिनोघैः परिवृतं यथाऽरक्षत्पूर्वं सकलमपि हत्वाऽऽशु दुरितम् । पुनश्चान्ते दत्त्वा करसरसिजं पूर्णकृपया जनैः सद्भिः प्राप्यां परमपदवीं प्रापितवती ॥ ४९॥ तथा शान्तं पापं सकलमपि कृत्वा मम जवा- द्धृदम्भोजे लग्नं कुरु तव पदाम्भोरुहयुगम् । कराम्भोजे पश्चात्परमकृपया देवि वचसां प्रदत्त्वाऽऽलम्बं मां गमय पदवीं निर्मलतराम् ॥ ५०॥ दवीयांसं त्वेनं परमकृपया देशिकमुखा- त्समानीयाम्ब त्वं तव पदपयोजातनिकटम् । अवित्वाऽऽपीयन्तं समयमधुना देवि भजसे यदौदास्यं तर्हि त्रिजगति ममान्यां वद गतिम् ॥ ५१॥ कामं सन्तु सुरा निरन्तरनिजध्यानार्चनाकारिणो लोकान्स्वेप्सितसर्वसौख्यसहितान्कर्तुं जगत्यां किल । पूजाध्यानजपादिगन्धरहितांस्त्रातुं पुनस्त्वां विना नान्यद्दैवतमस्तिपद्मजमनःपद्मार्भकार्कप्रभे ॥ ५२॥ कारुण्यं मयि धेहि मातरनिशं पद्मोद्भवप्रेयसि प्रारब्धं मम दुष्टमाशु शमय प्रज्ञां शुभां यच्छ मे । कर्तुं काव्यचयं रसौघभरितं शक्तिं दृढां भक्तिम- प्यंहःसञ्चयवारिणीं तव पदाम्भोजे कृपाम्भोनिधे ॥ ५३॥ कुर्यामद्य किमम्ब भक्तिरहितः पूजां जपं तर्पणं किं वैराग्यविवेकगन्धरहितः कुर्यां विचारं श्रुतेः । किं योगं प्रकरोमि चञ्चलमनाः श‍ृङ्गाद्रिवासप्रिये त्वत्पादप्रणतिं विहाय न गतिर्मेऽन्या गिरां देवते ॥ ५४॥ जह्यान्नैव कदापि तावकपदं मातर्मनो मामकं मान्द्यध्वान्तनिवारणोद्यतदिनेशाखर्वगर्वावलि । गौरीनाथरमाधवाब्जभवनैः सम्भाव्यमानं मुदा वाक्चातुर्यविधानलब्धसुयशःसम्पूरिताशामुखम् ॥ ५५॥ तुङ्गातीरविहारसक्तहृदये श‍ृङ्गारजन्मावने गङ्गाधारिमुखामरेन्द्रविनुतेऽनङ्गाहितापद्धरे । सङ्गातीतमनोविहाररसिके गङ्गातरङ्गायिता भृङ्गाहङ्कृतिभेददक्षचिकुरे तुङ्गागिरो देहि मे ॥ ५६॥ त्वत्पादाम्बुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनः स्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम् । कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनै- र्दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम् ॥ ५७॥ त्वत्पादाम्बुरुहं विहाय शरणं नास्त्येव मेऽन्यद्ध्रुवं वाचां देवि कृपापयोजलनिधे कुत्रापि वा स्थापय । अप्यूर्ध्वं ध्रुवमण्डलादथ फणीन्द्रादप्यधस्तत्र मे त्वन्न्यस्तैहिकपारलौकिकभरस्त्वासे न कापि व्यथा ॥ ५८॥ त्वत्पादाम्बुरुहं हृदाख्यसरसिस्याद्रूढमूलं यदा वक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला । कीर्तिर्यास्यति दिक्तटानपि नृपैः सम्पूज्यता स्यात्तदा वादे सर्वनयेष्वपि प्रतिभटान्दूरीकरोत्येव हि ॥ ५९॥ मातस्त्वत्पदवैभवं निगदितुं प्रारभ्य नागेश्वरा- स्वप्नाचार्यकवीन्दुशेखरदिनेशाद्याः प्रभग्ना मुहुः । क्वाहं तत्कथने जडेष्वचरमः कारुण्यपाथोनिधे वाचां देवि सुतस्य साहसमिदं क्षन्तव्यमेवाम्बया ॥ ६०॥ मातः श‍ृङ्गपुरीनिवासरसिके मातङ्गकुम्भस्तनि प्राणायाममुखैर्विनापि मनसः स्थैर्यं द्रुतं देहि मे । येनाहं सुखमन्यदुर्लभमहोरात्रं भजाम्यन्वहं प्राप्स्याम्यात्मपरैकबोधमचलं निःसंशयं शारदे ॥ ६१॥ वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभू- श्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम् । तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥ ६२॥ वैराग्यं दृढमम्ब देहि विषयेष्वाद्यन्तदुःखप्रदे- ष्वाम्नायान्तविचारणे स्तिरतरां चास्थां कृपावारिधे । प्रत्यग्ब्रह्मणि चित्तसंस्थितिविधिं सम्बोधयाश्वेव मां त्वं ब्रूषे सकलं ममेति गुरवः प्राहुर्यतः शारदे ॥ ६३॥ कमलासनवरकामिनि करधृतचिन्मुद्रिके कृपाम्भोधे । करकलितामलकाभं तत्त्वं मां बोधयतु जगदम्ब ॥ ६४॥ करविधृतकीरडिम्भां शरदभ्रसधर्मवस्त्रसंवीताम् । वरदाननिरतपाणिं सुरदां प्रणमामि शारदां सदयाम् ॥ ६५॥ कामाक्षीविपुलाक्षीमीनाक्षीत्यादिनामभिर्मातः । काञ्चीकाशीमधुरापुरेषु भासि त्वमेव वाग्जननि ॥ ६६॥ चन्द्रार्धशेखरापररूपश्रीशङ्करार्यकरपूज्ये । चन्द्रार्धकृतवतंसे चन्दनदिग्धे नमामि वाणि पदे ॥ ६७॥ जय जय चिन्मुद्रकरे जय जय श‍ृङ्गाद्रिविहरणव्यग्रे । जय जय पद्मजजाये जय जय जगदम्ब शारदे सदये ॥ ६८॥ दुर्वसनदत्तशापप्रतिपालनलक्ष्यतः समस्तानाम् । रक्षार्थमवनिमध्ये कृतचिरवासां नमामि वाग्देवीम् ॥ ६९॥ नवनवकवनसमर्थं पटुतरवाग्धूतवासवाचार्यम् । वनजासनवरमानिनि वरदे कुरु शीघ्रमङ्घ्रिनतम् ॥ ७०॥ भगवत्पदमण्डनयोर्वादमहे सकललोकचित्रकरे । अङ्गीकृतमाध्यस्थ्यां जगदम्बां नौमि शारदां सदयाम् ॥ ७१॥ सेवापूजानमनविधयः सन्तु दूरे नितान्तं कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब । मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा लक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥ ७२॥ आशावस्त्रः सदात्मन्यविरतहृदयस्त्यक्तसर्वानुरागः काये चक्षुर्मुखेष्वप्यनुदितममतः क्वापि कस्मिंश्च काले । शैलाग्रेऽरण्यकोणे क्वचिदपि पुलिने क्वापि रेवातटे वा गङ्गातीरेऽथ तुङ्गातटभुवि च कदा स्वैरचारी भवेयम् ॥ ७३॥ कल्पन्तां काम्यसिद्‍ध्यै कलिमलहतये चाक्षयैश्वर्यसिद्ध्यै कारुण्यापारपूराः कमलभवमनोमोददानव्रताढ्याः कात्यायन्यब्धिकन्यामुखसुररमणीकाङ्क्ष्यमाणाः कवित्व- प्राग्भाराम्भोधिराकाहिमकरकिरणाः शारदाम्बाकटाक्षाः ॥ ७४॥ कल्पादौ तन्महिम्ना कतिपयदिवसेष्वेव लुप्तेषु मार्गे- ष्वाम्नायप्रोदितेषु प्रवरसुरगणैः प्रार्थितः पार्वतीशः । आम्नायाध्वप्रवृद्‍ध्यै यतिवरवपुषागत्य यां श‍ृङ्गशैले संस्थाप्यार्चां प्रचक्रे निवसतु वदने शारदा सादरं सा ॥ ७५॥ तिष्ठाम्यत्रैव मातस्तव पदयुगलं वीक्षमाणः प्रमोदा- न्नाहं त्यक्त्वा तवाङ्घ्रिं सकलसुखकरं क्वापि गच्छामि नूनम् । छायां मत्कां विधत्स्व प्रवचननमनध्यानपूजासु शक्तां शुद्धामेकां त्रिलोकीजननपटुविधिप्राणकान्ते नमस्ते ॥ ७६॥ त्वद्बीजे वर्तमाने वदनसरसिजे दुर्लभं किं नराणां धर्मो वाऽर्थश्च कामोऽप्यथ च सकलसन्त्यागसाध्यश्च मोक्षः । काम्यं वा सार्वभौम्यं कमलजदयितेऽहेतुकारुण्यपूर्णे श‍ृङ्गाद्र्यावासलोले भवति सुरवराराध्यपादारविन्दे ॥ ७७॥ दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोका- न्दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य यद्वत्सुदूरम् । कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोव- त्सौख्यं चायुर्यथाब्जं विकसति वचसां देवि श‍ृङ्गाद्रिवासे ॥ ७८॥ नाहं त्वत्पादपूजामिह गुरुचरणाराधनं चाप्यकार्षं नाश्रौषं तत्त्वशास्त्रं न च खलु मनसः स्थैर्यलेशोऽपि कश्चित् । नो वैराग्यं विवेको न च मम सुदृढा मोक्षकाङ्क्षाऽपि नूनं मातः कावा गतिर्मे सरसिजभवनप्राणकान्ते न जाने ॥ ७९॥ नौमि त्वां शैववर्याः शिव इति गणनाथार्चका विघ्नहर्ते- त्यार्येत्यम्बाङ्घ्रिसक्ता हरिभजनरता विष्णुरित्यामनन्ति । यां तां सर्वस्वरूपां सकलमुनिमनःपद्मसञ्चारशीलां श‍ृङ्गाद्र्यावासलोलां कमलजमहिषीं शारदां पारदाभाम् ॥ ८०॥ यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य । चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥ ८१॥ याचन्ते नम्रलोका विविधगुरुरुजाक्रान्तदेहाः पिशाचै- राविष्टाङ्गाश्च तत्तज्जनितबहुतरक्लेशनाशाय शीघ्रम् । किं कुर्यां मन्त्रयन्त्रप्रमुखविधिपरिज्ञानशून्यश्चिकित्सां कर्तुं न त्वत्पदाब्जस्मरणलवमृते वाणि जानेऽत्र किञ्चित् ॥ ८२॥ रागद्वेषादिदोषैः सततविरहितैः शान्तिदान्त्यादियुक्तै- राचार्याङ्घ्र्यब्जसेवाकरणपटुतरैर्लभ्यपादारविन्दा । मुद्रास्रक्कुम्भविद्याः करसलिलरुहैः सन्दधाना पुरस्ता- दास्तां वाग्देवता नः कलिकृतविविधापत्तिविध्वंसनाय ॥ ८३॥ वारय पापकदम्बं तारय संसारसागरं तरसा । शोधय चित्तसरोजं बोधय परतत्त्वमाशु मामम्ब ॥ ८४॥ सच्चिद्रूपात्मनिष्ठः प्रगलितसकलाक्षादिवृत्तिः शयानो भुञ्जानः सत्यसौख्यं तदितरसुखतः प्राप्तनीरागभावः । पाषाणे वाथ तल्पे वनभुवि सदने पार्थिवस्याऽश्महेम्नो- र्नार्यां मृत्यौ च तुल्यः सततसुखिमनाः स्यां कदा शारदाम्ब ॥ ८५॥ किं पाठयेयं लघुचन्द्रिकां वा किं वा त्यजेयं सकलप्रपञ्चम् । स्वप्नेऽद्य मे ब्रूहि किमत्र कार्यं डोलायितं मामकमम्ब चेतः ॥ ८६॥ त्यागे वाऽध्यापने वा मम खलु न गिरां देवि काप्यस्ति शक्ति- स्त्वं वै सर्वत्र हेतुर्यदसि निरवधिर्वारिराशिः कृपायाः । तस्मात्स्वप्नेऽद्य कार्यं मम खलु निखिलं बोधयैवं कुरुष्वे- त्यज्ञानां बोधनार्थं त्वमिह बहुविधा अम्ब मूर्तीर्बिभर्षि ॥ ८७॥ वितर विधिप्रेयसि मे विमलधियं वाञ्छितं च तरसैव । विष्णुमुखामरवन्द्ये विधुबिम्बसमानवदनकञ्जाते ॥ ८८॥ शारदनीरदसन्निभवसने वनजासनान्तरङ्गचरे । वरटावल्लभयाने वरदे वाग्देवि शारदे पाहि ॥ ८९॥ सप्तदशघस्रमविरतमीशेन समस्तविद्यानाम् । विरचितवादां कुतुकात्सामोदं नौमि वाग्जननीम् ॥ ९०॥ सुरवरनिषेव्यपादे सुखलवाधूतकेकिकुलनिनदे सुरवनविहारबलदे सुरवरदे पाहि शारदे सुरदे ॥ ९१॥ कुन्दरदनेऽम्ब वाणि मुकुन्दरवीन्द्वादिदेववर्येड्ये । कुन्दरकृपावशान्मुकुन्दवराद्यांश्च मे निधीन्देहि ॥ ९२॥ स्फुरशरदिन्दुप्रतिभटवदने वाग्देवि मामके मनसि । वरदाननिरतपाणे सरसिजनयने सरोजजातसखि ॥ ९३॥ अस्थिरभक्तेर्मम देवि गिरां शीघ्रं दत्त्वा काञ्चित्सिद्धिम् । कुरु सुदृढां मम तव पादाब्जे भक्तिं श‍ृङ्गगिरीन्द्रनिवासे ॥ ९४॥ सहमानसोदरि सह प्रण्तकृता मानहीनमन्तुततीः । सहमानसोदरीत्वं त्यज वा युक्तं यदत्र कुरु वाणि ॥ ९५॥ वलभिन्मुखनिर्जरवरसेव्ये कलवचनन्यक्कृतपिकरावे । जलजप्रतिभटपदयुगरम्ये कलय प्रवरं कृतिनामेनम् ॥ ९६॥ करविलसद्वरपुस्तकमाले शरदब्जाहङ्कृतिहरचेले । अरणीसुमनिभकुङ्कुमफाले शरणं मम भव धृतशुकबाले ॥ ९७॥ var अरणीसुतनिभ कलयासक्तिं कमलजदयिते तुलनाशून्यामीम्मनुवर्ये । वलयाञ्चितकरसरसीजाते ललनाभिः सुरविततेः पूज्ये ॥ ९८॥ श‍ृङ्गक्ष्माभृत्कूटविहारे तुङ्गातटभूकृतसञ्चारे । वाचां देवि प्रार्थितमर्थं शीघ्रं देहि प्रणतायास्मै ॥ ९९॥ नाहं सोढुं कालविलम्बं शक्नोम्यम्ब प्रणतप्रवणे । ईप्सितमर्थं देहि तदाशु द्रुहिणस्वान्ताम्बुजबालघृणे ॥ १००॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशारदाशतश्लोकीस्तवः सम्पूर्णः ।