अक्षर आकार:

श्रीशारदासहस्रनामस्तोत्रम्

Shri Sharada Sahasranama Stotram

श्रीशारदासहस्रनामस्तोत्रम्

श्री गणेशाय नमः । श्रीभैरवी उवाच भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत । सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १॥ कृपापरोऽसि देवेश शरणागतवत्सल । पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २॥ तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर । प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३॥ श्रीभैरव उवाच देवदेवी पुरा सत्यं सुरासुररणाजिरे । वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४॥ श्रीभैरवी उवाच भगवन् या महादेवी शारदाऽऽख्या सरस्वती । काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५॥ तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् । साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६॥ श्रीभैरव उवाच रहस्यमेतदखिलं देवानां परमेश्वरि । परापररहस्यं च जगतां भुवनेश्वरि ॥ ७॥ या देवी शारदाख्येति जगन्माता सरस्वती । पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८॥ तया ततमिदं विश्वं तया सम्पाल्यते जगत् । सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९॥ देवदेवी महाविद्या परतत्त्वैकरूपिणी । तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता। क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्। त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥ ॥ करन्यासः ॥ ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं क्लीं तर्जनीभ्यां नमः । ॐ ह्रूं क्लूं मध्यमाभ्यां नमः । ॐ ह्रैं क्लैं अनामिकाभ्यां नमः। ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा । ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुं । ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् । पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥ श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥ योनिमुद्रां दर्शयेत् ॥ ॥ श्रीशारदा गायत्री ॥ ॐ शारदायै विद्महे । वरदायै धीमहि। तन्नो मोक्षदायिनी प्रचोदयात् ॥ श्रीशारदासहस्रनामस्तोत्रम् ॥ श्री गणेशाय नमः । श्रीभैरवी उवाच भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत । सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १॥ कृपापरोऽसि देवेश शरणागतवत्सल । पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २॥ तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर । प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३॥ श्रीभैरव उवाच देवदेवी पुरा सत्यं सुरासुररणाजिरे । वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४॥ श्रीभैरवी उवाच भगवन् या महादेवी शारदाऽऽख्या सरस्वती । काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५॥ तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् । साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६॥ श्रीभैरव उवाच रहस्यमेतदखिलं देवानां परमेश्वरि । परापररहस्यं च जगतां भुवनेश्वरि ॥ ७॥ या देवी शारदाख्येति जगन्माता सरस्वती । पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८॥ तया ततमिदं विश्वं तया सम्पाल्यते जगत् । सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९॥ देवदेवी महाविद्या परतत्त्वैकरूपिणी । तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता। क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्। त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥ ॥ करन्यासः ॥ ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं क्लीं तर्जनीभ्यां नमः। ॐ ह्रूं क्लूं मध्यमाभ्यां नमः ।ॐ ह्रैं क्लैं अनामिकाभ्यां नमः। ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः ।ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः॥ ॥ हृदयादि न्यासः ॥ ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा। ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुम्। ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट। ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् । पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥ श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥ योनिमुद्रां दर्शयेत् ॥ ॥ श्रीशारदा गायत्री ॥ ॐ शारदायै विद्महे । वरदायै धीमहि। तन्नो मोक्षदायिनी प्रचोदयात् ॥ ॥ श्रीशारदा मन्त्रः ॥ ॐ ह्रीं क्लीं शारदायै नमः ॥ ॥ अथ श्रीशारदासहस्रनामस्तोत्रम् ॥ ॐ ह्रीं क्लीं शारदा शान्ता श्रीमती श्रीशुभङ्करी । शुभा शान्ता शरद्बीजा श्यामिका श्यामकुन्तला ॥ १॥ शोभावती शशाङ्केशी शातकुम्भप्रकाशिनी । प्रताप्या तापिनी ताप्या शीतला शेषशायिनी ॥ २॥ श्यामा शान्तिकरी शान्तिः श्रीकरी वीरसूदिनी । वेश्या वेश्यकरी वैश्या वानरी वेषभान्विता ॥ ३॥ वाचाली शुभगा शोभ्या शोभना च शुचिस्मिता । जगन्माता जगद्धात्री जगत्पालनकारिणी ॥ ४॥ हारिणी गदिनी गोधा गोमती जगदाश्रया । सौम्या याम्या तथा काम्या वाम्या वाचामगोचरा ॥ ५॥ ऐन्द्री चान्द्री कला कान्ता शशिमण्डलमध्यगा । आग्नेयी वारुणी वाणी कारुणा करुणाश्रया ॥ ६॥ नैरृती ऋतरूपा च वायवी वाग्भवोद्भवा । कौबेरी कूबरा कोला कामेशी कामसुन्दरी ॥ ७॥ खेशानी केशनीकारा मोचनी धेनुकामदा । कामधेनुः कपालेशी कपालकरसंयुता ॥ ८॥ चामुण्डा मूल्यदा मूर्तिर्मुण्डमालाविभूषणा । सुमेरुतनया वन्द्या चण्डिका चण्डसूदिनी ॥ ९॥ चण्डांशुतेजसाम्मूर्तिश्चण्डेशी चण्डविक्रमा । चाटुका चाटकी चर्चा चारुहंसा चमत्कृतिः ॥ १०॥ ललज्जिह्वा सरोजाक्षी मुण्डसृङ्मुण्डधारिणी । सर्वानन्दमयी स्तुत्या सकलानन्दवर्धिनी ॥ ११॥ धृतिः कृतिः स्थितिर्मूर्तिः द्यौवासा चारुहासिनी । रुक्माङ्गदा रुक्मवर्णा रुक्मिणी रुक्मभूषणा ॥ १२॥ कामदा मोक्षदानन्दा नारसिंही नृपात्मजा । नारायणी नरोत्तुङ्गनागिनी नगनन्दिनी ॥ १३॥ नागश्रीर्गिरिजा गुह्या गुह्यकेशी गरीयसी । गुणाश्रया गुणातीता गजराजोपरिस्थिता ॥ १४॥ गजाकारा गणेशानी गन्धर्वगणसेविता । दीर्घकेशी सुकेशी च पिङ्गला पिङ्गलालका ॥ १५॥ भयदा भवमान्या च भवानी भवतोषिता । भवालस्या भद्रधात्री भीरुण्डा भगमालिनी ॥ १६॥ पौरन्दरी परञ्ज्योतिः पुरन्दरसमर्चिता । पीना कीर्तिकरी कीर्तिः केयूराढ्या महाकचा ॥ १७॥ घोररूपा महेशानी कोमला कोमलालका । कल्याणी कामना कुब्जा कनकाङ्गदभूषिता ॥ १८॥ केनाशी वरदा काली महामेधा महोत्सवा । विरूपा विश्वरूपा च विश्वधात्री पिलम्पिला ॥ १९॥ पद्मावती महापुण्या पुण्या पुण्यजनेश्वरी । जह्नुकन्या मनोज्ञा च मानसी मनुपूजिता ॥ २०॥ कामरूपा कामकला कमनीया कलावती । वैकुण्ठपत्नी कमला शिवपत्नी च पार्वती ॥ २१॥ काम्यश्रीर्गारुडीविद्या विश्वसूर्वीरसूर्दितिः । माहेश्वरी वैष्णवी च ब्राह्मी ब्राह्मणपूजिता ॥ २२॥ मान्या मानवती धन्या धनदा धनदेश्वरी । अपर्णा पर्णशिथिला पर्णशालापरम्परा ॥ २३॥ पद्माक्षी नीलवस्त्रा च निम्ना नीलपताकिनी । दयावती दयाधीरा धैर्यभूषणभूषिता ॥ २४॥ जलेश्वरी मल्लहन्त्री भल्लहस्ता मलापहा । कौमुदी चैव कौमारी कुमारी कुमुदाकरा ॥ २५॥ पद्मिनी पद्मनयना कुलजा कुलकौलिनी । कराला विकरालाक्षी विस्रम्भा दर्दुराकृतिः ॥ २६॥ वनदुर्गा सदाचारा सदाशान्ता सदाशिवा । सृष्टिः सृष्टिकरी साध्वी मानुषी देवकी द्युतिः ॥ २७॥ वसुधा वासवी वेणुः वाराही चापराजिता । रोहिणी रमणा रामा मोहिनी मधुराकृतिः ॥ २८॥ शिवशक्तिः पराशक्तिः शाङ्करी टङ्कधारिणी । क्रूरकङ्कालमालाढ्या लङ्काकङ्कणभूषिता ॥ २९॥ दैत्यापहरा दीप्ता दासोज्ज्वलकुचाग्रणीः । क्षान्तिः क्षौमङ्करी बुद्धिर्बोधाचारपरायणा ॥ ३०॥ श्रीविद्या भैरवीविद्या भारती भयघातिनी । भीमा भीमारवा भैमी भङ्गुरा क्षणभङ्गुरा ॥ ३१॥ जित्या पिनाकभृत् सैन्या शङ्खिनी शङ्खरूपिणी । देवाङ्गना देवमान्या दैत्यसूर्दैत्यमर्दिनी ॥ ३२॥ देवकन्या च पौलोमी रतिः सुन्दरदोस्तटी । सुखिनी शौकिनी शौक्ली सर्वसौख्यविवर्धिनी ॥ ३३॥ लोला लीलावती सूक्ष्मा सूक्ष्माऽसूक्ष्मगतिर्मतिः । वरेण्या वरदा वेणी शरण्या शरचापिनी ॥ ३४॥ उग्रकाली महाकाली महाकालसमर्चिता । ज्ञानदा योगिध्येया च गोवल्ली योगवर्धिनी ॥ ३५॥ पेशला मधुरा माया विष्णुमाया महोज्ज्वला । वाराणसी तथाऽवन्ती काञ्ची कुक्कुरक्षेत्रसुः ॥ ३६॥ अयोध्या योगसूत्राद्या यादवेशी यदुप्रिया । यमहन्त्री च यमदा यमिनी योगवर्तिनी ॥ ३७॥ भस्मोज्ज्वला भस्मशय्या भस्मकालीसमर्चिता । चन्द्रिका शूलिनी शिल्या प्राशिनी चन्द्रवासिनी ॥ ३८॥ पद्महस्ता च पीना च पाशिनी पाशमोचनी । सुधाकलशहस्ता च सुधामूर्तिः सुधामयी ॥ ३९॥ व्यूहायुधा वरारोहा वरधात्री वरोत्तमा । पापाशना महामूर्ता मोहदा मधुरस्वरा ॥ ४०॥ मधुपा माधवी माल्या मल्लिका कालिका मृगी । मृगाक्षी मृगराजस्था केशिकीनाशघातिनी ॥ ४१॥ रक्ताम्बरधरा रात्रिः सुकेशी सुरनायिका । सौरभी सुरभिः सूक्ष्मा स्वयम्भूकुसुमार्चिता ॥ ४२॥ अम्बा जृम्भा जटाभूषा जूटिनी जटिनी नटी । मर्मानन्ददा ज्येष्ठा श्रेष्ठा कामेष्टवर्द्धिनी ॥ ४३॥ रौद्री रुद्रस्तना रुद्रा शतरुद्रा च शाम्भवी । श्रविष्ठा शितिकण्ठेशी विमलानन्दवर्धिनी ॥ ४४॥ कपर्दिनी कल्पलता महाप्रलयकारिणी । महाकल्पान्तसंहृष्ठा महाकल्पक्षयङ्करी ॥ ४५॥ संवर्ताग्निप्रभा सेव्या सानन्दाऽऽनन्दवर्धिनी । सुरसेना च मारेशी सुराक्षी विवरोत्सुका ॥ ४६॥ प्राणेश्वरी पवित्रा च पावनी लोकपावनी । लोकधात्री महाशुक्ला शिशिराचलकन्यका ॥ ४७॥ तमोघ्नी ध्वान्तसंहर्त्री यशोदा च यशस्विनी । प्रद्योतिनी च द्युमती धीमती लोकचर्चिता ॥ ४८॥ प्रणवेशी परगतिः पारावारसुता समा । डाकिनी शाकिनी रुद्धा नीला नागाङ्गना नुतिः ॥ ४९॥ कुन्दद्युतिश्च कुरटा कान्तिदा भ्रान्तिदा भ्रमा । चर्विताचर्विता गोष्ठी गजाननसमर्चिता ॥ ५०॥ खगेश्वरी खनीला च नागिनी खगवाहिनी । चन्द्रानना महारुण्डा महोग्रा मीनकन्यका ॥ ५१॥ मानप्रदा महारूपा महामाहेश्वरीप्रिया । मरुद्गणा महद्वक्त्रा महोरगा भयानका ॥ ५२॥ महाघोणा करेशानी मार्जारी मन्मथोज्ज्वला । कर्त्री हन्त्री पालयित्री चण्डमुण्डनिषूदिनी ॥ ५३॥ निर्मला भास्वती भीमा भद्रिका भीमविक्रमा । गङ्गा चन्द्रावती दिव्या गोमती यमुना नदी ॥ ५४॥ विपाशा सरयूस्तापी वितस्ता कुङ्कुमार्चिता । गण्डकी नर्मदा गौरी चन्द्रभागा सरस्वती ॥ ५५॥ ऐरावती च कावेरी शताह्रवा च शतह्रदा । श्वेतवाहनसेव्या च श्वेतास्या स्मितभाविनी ॥ ५६॥ कौशाम्बी कोशदा कोश्या काश्मीरकनकेलिनी । कोमला च विदेहा च पूः पुरी पुरसूदिनी ॥ ५७॥ पौरूरवा पलापाली पीवराङ्गी गुरुप्रिया । पुरारिगृहिणी पूर्णा पूर्णरूपा रजस्वला ॥ ५८॥ सम्पूर्णचन्द्रवदना बालचन्द्रसमद्युतिः । रेवती प्रेयसी रेवा चित्रा चित्राम्बरा चमूः ॥ ५९॥ नवपुष्पसमुद्भूता नवपुष्पैकहारिणी । नवपुष्पशुभामाला नवपुष्पकुलानना ॥ ६०॥ नवपुष्पोद्भवप्रीता नवपुष्पसमाश्रया । नवपुष्पललत्केशा नवपुष्पललन्मुखा ॥ ६१॥ नवपुष्पललत्कर्णा नवपुष्पललत्कटिः । नवपुष्पललन्नेत्रा नवपुष्पललन्नसा ॥ ६२॥ नवपुष्पसमाकारा नवपुष्पललद्भुजा । नवपुष्पललत्कण्ठा नवपुष्पार्चितस्तनी ॥ ६३॥ नवपुष्पललन्मध्या नवपुष्पकुलालका । नवपुष्पललन्नाभिः नवपुष्पललत्भगा ॥ ६४॥ नवपुष्पललत्पादा नवपुष्पकुलाङ्गनी । नवपुष्पगुणोत्पीठा नवपुष्पोपशोभिता ॥ ६५॥ नवपुष्पप्रियोपेता प्रेतमण्डलमध्यगा । प्रेतासना प्रेतगतिः प्रेतकुण्डलभूषिता ॥ ६६॥ प्रेतबाहुकरा प्रेतशय्या शयनशायिनी । कुलाचारा कुलेशानी कुलका कुलकौलिनी ॥ ६७॥ स्मशानभैरवी कालभैरवी शिवभैरवी । स्वयम्भूभैरवी विष्णुभैरवी सुरभैरवी ॥ ६८॥ कुमारभैरवी बालभैरवी रुरुभैरवी । शशाङ्कभैरवी सूर्यभैरवी वह्निभैरवी ॥ ६९॥ शोभादिभैरवी मायाभैरवी लोकभैरवी । महोग्रभैरवी साध्वीभैरवी मृतभैरवी ॥ ७०॥ सम्मोहभैरवी शब्दभैरवी रसभैरवी । समस्तभैरवी देवी भैरवी मन्त्रभैरवी ॥ ७१॥ सुन्दराङ्गी मनोहन्त्री महाश्मशानसुन्दरी । सुरेशसुन्दरी देवसुन्दरी लोकसुन्दरी ॥ ७२॥ त्रैलोक्यसुन्दरी ब्रह्मसुन्दरी विष्णुसुन्दरी । गिरीशसुन्दरी कामसुन्दरी गुणसुन्दरी ॥ ७३॥ आनन्दसुन्दरी वक्त्रसुन्दरी चन्द्रसुन्दरी । आदित्यसुन्दरी वीरसुन्दरी वह्निसुन्दरी ॥ ७४॥ पद्माक्षसुन्दरी पद्मसुन्दरी पुष्पसुन्दरी । गुणदासुन्दरी देवी सुन्दरी पुरसुन्दरी ॥ ७५॥ महेशसुन्दरी देवी महात्रिपुरसुन्दरी । स्वयम्भूसुन्दरी देवी स्वयम्भूपुष्पसुन्दरी ॥ ७६॥ शुक्रैकसुन्दरी लिङ्गसुन्दरी भगसुन्दरी । विश्वेशसुन्दरी विद्यासुन्दरी कालसुन्दरी ॥ ७७॥ शुक्रेश्वरी महाशुक्रा शुक्रतर्पणतर्पिता । शुक्रोद्भवा शुक्ररसा शुक्रपूजनतोषिता ॥ ७८॥ शुक्रात्मिका शुक्रकरी शुक्रस्नेहा च शुक्रिणी । शुक्रसेव्या शुक्रसुरा शुक्रलिप्ता मनोन्मना ॥ ७९॥ शुक्रहारा सदाशुक्रा शुक्ररूपा च शुक्रजा । शुक्रसूः शुक्ररम्याङ्गी शुक्रांशुकविवर्धिनी ॥ ८०॥ शुक्रोत्तमा शुक्रपूजा शुक्रेशी शुक्रवल्लभा । ज्ञानेश्वरी भगोत्तुङ्गा भगमालाविहारिणी ॥ ८१॥ भगलिङ्गैकरसिका लिङ्गिनी भगमालिनी । बैन्दवेशी भगाकारा भगलिङ्गादिशुक्रसूः ॥ ८२॥ वात्याली वनिता वात्यारूपिणी मेघमालिनी । गुणाश्रया गुणवती गुणगौरवसुन्दरी ॥ ८३॥ पुष्पतारा महापुष्पा पुष्टिः परमलाघवी । स्वयम्भूपुष्पसङ्काशा स्वयम्भूपुष्पपूजिता ॥ ८४॥ स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमार्चिता । स्वयम्भूपुष्पसरसी स्वयम्भूपुष्पपुष्पिणी ॥ ८५॥ शुक्रप्रिया शुक्ररता शुक्रमज्जनतत्परा । अपानप्राणरूपा च व्यानोदानस्वरूपिणी ॥ ८६॥ प्राणदा मदिरा मोदा मधुमत्ता मदोद्धता । सर्वाश्रया सर्वगुणाऽव्यस्था सर्वतोमुखी ॥ ८७॥ नारीपुष्पसमप्राणा नारीपुष्पसमुत्सुका । नारीपुष्पलता नारी नारीपुष्पस्रजार्चिता ॥ ८८॥ षड्गुणा षड्गुणातीता शशिनःषोडशीकला । चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ८९॥ द्विभुजा चैक षट्कोणा त्रिकोणनिलयाश्रया । स्रोतस्वती महादेवी महारौद्री दुरन्तका ॥ ९०॥ दीर्घनासा सुनासा च दीर्घजिह्वा च मौलिनी । सर्वाधारा सर्वमयी सारसी सरलाश्रया ॥ ९१॥ सहस्रनयनप्राणा सहस्राक्षसमर्चिता । सहस्रशीर्षा सुभटा शुभाक्षी दक्षपुत्रिणी ॥ ९२॥ षष्टिका षष्टिचक्रस्था षड्वर्गफलदायिनी । अदितिर्दितिरात्मा श्रीराद्या चाङ्कभचक्रिणी ॥ ९३॥ भरणी भगबिम्बाक्षी कृत्तिका चेक्ष्वसादिता । इनश्री रोहिणी चेष्टिः चेष्टा मृगशिरोधरा ॥ ९४॥ ईश्वरी वाग्भवी चान्द्री पौलोमी मुनिसेविता । उमा पुनर्जया जारा चोष्मरुन्धा पुनर्वसुः ॥ ९५॥ चारुस्तुत्या तिमिस्थान्ती जाडिनी लिप्तदेहिनी । लिढ्या श्लेष्मतराश्लिष्टा मघवार्चितपादुकी ॥ ९६॥ मघामोघा तथैणाक्षी ऐश्वर्यपददायिनी । ऐङ्कारी चन्द्रमुकुटा पूर्वाफाल्गुनिकीश्वरी ॥ ९७॥ उत्तराफल्गुहस्ता च हस्तिसेव्या समेक्षणा । ओजस्विनी तथोत्साहा चित्रिणी चित्रभूषणा ॥ ९८॥ अम्भोजनयना स्वातिः विशाखा जननी शिखा । अकारनिलयाधारा नरसेव्या च ज्येष्टदा ॥ ९९॥ मूला पूर्वाषाढेशी चोत्तराषाढ्यावनी तु सा । श्रवणा धर्मिणी धर्म्या धनिष्ठा च शतभिषक् ॥ १००॥ पूर्वभाद्रपदस्थानाऽप्यातुरा भद्रपादिनी । रेवतीरमणस्तुत्या नक्षत्रेशसमर्चिता ॥ १०१॥ कन्दर्पदर्पिणी दुर्गा कुरुकुल्लकपोलिनी । केतकीकुसुमस्निग्धा केतकीकृतभूषणा ॥ १०२॥ कालिका कालरात्रिश्च कुटुम्बजनतर्पिता । कञ्जपत्राक्षिणी कल्यारोपिणी कालतोषिता ॥ १०३॥ कर्पूरपूर्णवदना कचभारनतानना । कलानाथकलामौलिः कला कलिमलापहा ॥ १०४॥ कादम्बिनी करिगतिः करिचक्रसमर्चिता । कञ्जेश्वरी कृपारूपा करुणामृतवर्षिणी ॥ १०५॥ खर्बा खद्योतरूपा च खेटेशी खड्गधारिणी । खद्योतचञ्चला केशी खेचरी खेचरार्चिता ॥ १०६॥ गदाधारी महागुर्वी गुरुपुत्रा गुरुप्रिया । गीतवाद्यप्रिया गाथा गजवक्त्रप्रसूगतिः ॥ १०७॥ गरिष्ठगणपूज्या च गूढगुल्फा गजेश्वरी । गणमान्या गणेशानी गाणापत्यफलप्रदा ॥ १०८॥ घर्मांशुनयना घर्म्या घोरा घुर्घुरनादिनी । घटस्तनी घटाकारा घुसृणोल्लसितस्तनी ॥ १०९॥ घोरारवा घोरमुखी घोरदैत्यनिबर्हिणी । घनच्छाया घनद्युतिः घनवाहनपूजिता ॥ ११०॥ टवकोटेशरूपा च चतुरा चतुरस्तनी । चतुराननपूज्या च चतुर्भुजसमर्चिता ॥ १११॥ चर्माम्बरा चरगतिः चतुर्वेदमयी चला । चतुःसमुद्रशयना चतुर्दशसुरार्चिता ॥ ११२॥ चकोरनयना चम्पा चम्पाबकुलकुन्तला । च्युतचीराम्बरा चारुमूर्तिश्चम्पकमालिनी ॥ ११३॥ छाया छद्मकरी छिल्ली छोटिका छिन्नमस्तका । छिन्नशीर्षा छिन्ननासा छिन्नवस्त्रवरूथिनी ॥ ११४॥ छन्दिपत्रा छन्नछल्का छात्रमन्त्रानुग्राहिणी । छद्मिनी छद्मनिरता छद्मसद्मनिवासिनी ॥ ११५॥ छायासुतहरा हव्या छलरूपा समुज्ज्वला । जया च विजया जेया जयमण्डलमण्डिता ॥ ११६॥ जयनाथप्रिया जप्या जयदा जयवर्धिनी । ज्वालामुखी महाज्वाला जगत्त्राणपरायणा ॥ ११७॥ जगद्धात्री जगद्धर्त्त्री जगतामुपकारिणी । जालन्धरी जयन्ती च जम्भारातिवरप्रदा ॥ ११८॥ झिल्ली झाङ्कारमुखरा झरी झङ्कारिता तथा । ञनरूपा महाञमी ञहस्ता ञिवलोचना ॥ ११९॥ टङ्कारकारिणी टीका टिका टङ्कायुधप्रिया । ठुकुराङ्गी ठलाश्रया ठकारत्रयभूषणा ॥ १२०॥ डामरी डमरूप्रान्ता डमरूप्रहितोन्मुखी । ढिली ढकारवा चाटा ढभूषा भूषितानना ॥ १२१॥ णान्ता णवर्णसम्युक्ता णेयाऽणेयविनाशिनी । तुला त्र्यक्षा त्रिनयना त्रिनेत्रवरदायिनी ॥ १२२॥ तारा तारवया तुल्या तारवर्णसमन्विता । उग्रतारा महातारा तोतुलाऽतुलविक्रमा ॥ १२३॥ त्रिपुरा त्रिपुरेशानी त्रिपुरान्तकरोहिणी । तन्त्रैकनिलया त्र्यस्रा तुषारांशुकलाधरा ॥ १२४॥ तपः प्रभावदा तृष्णा तपसा तापहारिणी । तुषारपरिपूर्णास्या तुहिनाद्रिसुता तु सा ॥ १२५॥ तालायुधा तार्क्ष्यवेगा त्रिकूटा त्रिपुरेश्वरी । थकारकण्ठनिलया थाल्ली थल्ली थवर्णजा ॥ १२६॥ दयात्मिका दीनरवा दुःखदारिद्रयनाशिनी । देवेशी देवजननी दशविद्या दयाश्रया ॥ १२७॥ द्युनदी दैत्यसंहर्त्री दौर्भाग्यपदनाशिनी । दक्षिणा कालिका दक्षा दक्षयज्ञविनाशिनी ॥ १२८॥ दानवा दानवेन्द्राणी दान्ता दम्भविवर्जिता । दधीचीवरदा दुष्टदैत्यदर्पापहारिणी ॥ १२९॥ दीर्घनेत्रा दीर्घकचा दुष्टारपदसंस्थिता । धर्मध्वजा धर्ममयी धर्मराजवरप्रदा ॥ १३०॥ धनेश्वरी धनिस्तुत्या धनाध्यक्षा धनात्मिका । धीर्ध्वनिर्धवलाकारा धवलाम्भोजधारिणी ॥ १३१॥ धीरसूर्धारिणी धात्री पूः पुनी च पुनीस्तु सा । नवीना नूतना नव्या नलिनायतलोचना ॥ १३२॥ नरनारायणस्तुत्या नागहारविभूषणा । नवेन्दुसन्निभा नाम्ना नागकेसरमालिनी ॥ १३३॥ नृवन्द्या नगरेशानी नायिका नायकेश्वरी । निरक्षरा निरालम्बा निर्लोभा निरयोनिजा ॥ १३४॥ नन्दजाऽनङ्गदर्पाढ्या निकन्दा नरमुण्डिनी । निन्दाऽऽनिन्दफला निष्ठा नन्दकर्मपरायणा ॥ १३५॥ नरनारीगुणप्रीता नरमालाविभूषणा । पुष्पायुधा पुष्पमाला पुष्पबाणा प्रियंवदा ॥ १३६॥ पुष्पबाणप्रियङ्करी पुष्पधामविभूषिता । पुण्यदा पूर्णिमा पूता पुण्यकोटिफलप्रदा ॥ १३७॥ पुराणागममन्त्राढ्या पुराणपुरुषाकृतिः । पुराणगोचरा पूर्वा परब्रह्मस्वरूपिणी ॥ १३८॥ परापररहस्याङ्गा प्रह्लादपरमेश्वरी । फाल्गुनी फाल्गुणप्रीता फणिराजसमर्चिता ॥ १३९॥ फणप्रदा फणेशी च फणाकारा फलोत्तमा । फणिहारा फणिगतिः फणिकाञ्ची फलाशना ॥ १४०॥ बलदा बाल्यरूपा च बालराक्षरमन्त्रिता । ब्रह्मज्ञानमयी ब्रह्मवाञ्छा ब्रह्मपदप्रदा ॥ १४१॥ ब्रह्माणी बृहतिर्व्रीडा ब्रह्मावर्तप्रवर्तनी । ब्रह्मरूपा पराव्रज्या ब्रह्ममुण्डैकमालिनी ॥ १४२॥ बिन्दुभूषा बिन्दुमाता बिम्बोष्ठी बगुलामुखी । ब्रह्मास्त्रविद्या ब्रह्माणी ब्रह्माऽच्युतनमस्कृता ॥ १४३॥ भद्रकाली सदाभद्री भीमेशी भुवनेश्वरी । भैरवाकारकल्लोला भैरवी भैरवार्चिता ॥ १४४॥ भानवी भासुदाम्भोजा भासुदास्यभयार्तिहा । भीडा भागीरथी भद्रा सुभद्रा भद्रवर्धिनी ॥ १४५॥ महामाया महाशान्ता मातङ्गी मीनतर्पिता । मोदकाहारसन्तुष्टा मालिनी मानवर्धिनी ॥ १४६॥ मनोज्ञा शष्कुलीकर्णा मायिनी मधुराक्षरा । मायाबीजवती मानी मारीभयनिसूदिनी ॥ १४७॥ माधवी मन्दगा माध्वी मदिरारुणलोचना । महोत्साहा गणोपेता माननीया महर्षिभिः ॥ १४८॥ मत्तमातङ्गा गोमत्ता मन्मथारिवरप्रदा । मयूरकेतुजननी मन्त्रराजविभूषिता ॥ १४९॥ यक्षिणी योगिनी योग्या याज्ञिकी योगवल्लभा । यशोवती यशोधात्री यक्षभूतदयापरा ॥ १५०॥ यमस्वसा यमज्ञी च यजमानवरप्रदा । रात्री रात्रिञ्चरज्ञी च राक्षसी रसिका रसा ॥ १५१॥ रजोवती रतिः शान्ती राजमातङ्गिनी परा । राजराजेश्वरी राज्ञी रसास्वादविचक्षणा ॥ १५२॥ ललना नूतनाकारा लक्ष्मीनाथसमर्चिता । लक्ष्मीश्च सिद्धलक्ष्मीश्च महालक्ष्मी ललद्रसा ॥ १५३॥ लवङ्गकुसुमप्रीता लवङ्गफलतोषिता । लाक्षारुणा ललत्या च लाङ्गूली वरदयिनी ॥ १५४॥ वातात्मजप्रिया वीर्या वरदा वानरेश्वरी । विज्ञानकारिणी वेण्या वरदा वरदेश्वरी ॥ १५५॥ विद्यावती वैद्यमाता विद्याहारविभूषणा । विष्णुवक्षस्थलस्था च वामदेवाङ्गवासिनी ॥ १५६॥ वामाचारप्रिया वल्ली विवस्वत्सोमदायिनी । शारदा शारदाम्भोजवारिणी शूलधारिणी ॥ १५७॥ शशाङ्कमुकुटा शष्पा शेषशायीनमस्कृता । श्यामा श्यामाम्बरा श्याममुखी श्रीपतिसेविता ॥ १५८॥ षोडशी षड्रसा षड्जा षडाननप्रियङ्करी । षडङ्घ्रिकूजिता षष्टिः षोडशाम्बरपूजिता ॥ १५९॥ षोडशाराब्जनिलया षोडशी षोडशाक्षरी । सौम्बीजमण्डिता सर्वा सर्वगा सर्वरूपिणी ॥ १६०॥ समस्तनरकत्राता समस्तदुरितापहा । सम्पत्करी महासम्पत् सर्वदा सर्वतोमुखी ॥ १६१॥ सूक्ष्माकरी सती सीता समस्तभुवनाश्रया । सर्वसंस्कारसम्पत्तिः सर्वसंस्कारवासना ॥ १६२॥ हरिप्रिया हरिस्तुत्या हरिवाहा हरीश्वरी । हालाप्रिया हलिमुखी हाटकेशी हृदेश्वरी ॥ १६३॥ ह्रींबीजवर्णमुकुटा ह्रीं हरप्रियकारिणी । क्षमा क्षान्ता च क्षोणी च क्षत्रियी मन्त्ररूपिणी ॥ १६४॥ पञ्चात्मिका पञ्चवर्णा पञ्चतिग्मसुभेदिनी । मुक्तिदा मुनिवृन्देशी शाण्डिल्यवरदायिनी ॥ १६५॥ ॐ ह्रीं ऐं ह्रीं च पञ्चार्णदेवता श्रीसरस्वती । ॐ सौं ह्रीं श्रीं शरद्बीजशीर्षा नीलसरस्वती ॥ १६६॥ ॐ ह्रीं क्लीं सः नमो ह्रीं ह्रीं स्वाहा बीजा च शारदा ॥ १६७॥ ॥ फलश्रुतिः ॥ शारदानामसाहस्रमन्त्रं श्रीभैरवोदितम् । गुह्यं मन्त्रात्मकं पुण्यं सर्वस्वं त्रिदिवौकसाम् ॥ १॥ यः पठेत्पाठयेद्वापि श‍ृणुयाच्छ्रावयेदपि । दिवा रात्रौ च सन्ध्यायां प्रभाते च सदा पुमान् ॥ २॥ गोगजाश्वरथैः पूर्णं गेहं तस्य भविष्यति । दासी दासजनैः पूर्णं पुत्रपौत्रसमाकुलम् ॥ ३॥ श्रेयस्करं सदा देवी साधकानां यशस्करम् । पठेन्नामसहस्रं तु निशीथे साधकोत्तमः ॥ ४॥ सर्वरोगप्रशमनं सर्वदुःखनिवारणम् । पापरोगादिदुष्टानां सञ्जीवनिफलप्रदम् ॥ ५॥ यः पठेद्भक्तियुक्तस्तु मुक्तकेशो दिगम्बरः । सर्वागमे सः पूज्यः स्यात्सविष्णुः समहेश्वरः ॥ ६॥ बृहस्पतिसमो वाचि नीत्या शङ्करसन्निभः । गत्या पवनसङ्काशो मत्या शुक्रसमोऽपि च । तेजसा दिव्यसङ्काशो रूपेण मकरध्वजः ॥ ७॥ ज्ञानेन च शुको देवि चायुषा भृगुनन्दनः । साक्षात् स परमेशानि प्रभुत्वेन सुराधिपः ॥ ८॥ विद्याधिषणया कीर्त्या रामो रामो बलेन च । स दीर्घायुः सुखी पुत्री विजयी विभवी विभुः ॥ ९॥ नान्यचिन्ता प्रकर्तव्या नान्यचिन्ता कदाचन ॥ १०॥ वातस्तम्भं जलस्तम्भं चौरस्तम्भं महेश्वरि । वह्निशैत्यं करोत्येव पठनं चास्य सुन्दरि ॥ ११॥ स्तम्भयेदपि ब्रह्माणं मोहयदपि शङ्करम् । वश्ययेदपि राजानं शमयेद्धव्यवाहनम् ॥ १२॥ आकर्षयेद्देवकन्यां उच्चाटयति वैरिणम् । मारयेदपकीर्तिं च संवश्येच्च चतुर्भुजम् ॥ १३॥ किं किं न साधयेदेवं मन्त्रनामसहस्रकम् । शरत्काले निशीथे च भौमे शक्तिसमन्वितः ॥ १४॥ पठेन्नामसहस्रं च साधकः किं न साधयेत् । अष्टम्यामाश्वमासे तु मध्याह्ने मूर्तिसन्निधौ ॥ १५॥ पठेन्नामसहस्रं तु मुक्तकेशो दिगम्बरः । सुदर्शनो भवेदाशु साधकःपर्वतात्मजे ॥ १६॥ अष्टम्यां सर्वरात्रं तु कुङ्कुमेन च चन्दनैः । रक्तचन्दनयुक्तेन कस्तूर्या चापि पावकैः ॥ १७॥ मृगनाभिर्मनःशिलाकल्कयुक्तेनवारिणा । लिखेद्भूर्जे जपेन्मन्त्रं साधको भक्तिपूर्वकम् ॥ १८॥ धारयेन्मूर्ध्नि वा बाहौ योषिद्वामकरे शिवे । रणे रिपून्विजित्याशु मातङ्गानिव केसरी ॥ १९॥ स्वगृहं क्षणमायाति कल्याणि साधकोत्तमः । वन्ध्या वामभुजे धृत्वा चतुर्थेऽहनि पार्वति ॥ २०॥ अमायां रविवारे यः पठेत्प्रेतालये तथा । त्रिवारं साधको देवि भवेत् स तु कवीश्वरः ॥ २१॥ सङ्क्रान्तौ ग्रहणे वापि पठेन्मन्त्रं नदीतटे । स भवेत्सर्वशास्त्रज्ञो वेदवेदाङ्गतत्त्ववित् ॥ २२॥ शारदाया इदं नाम्नां सहस्रं मन्त्रगर्भकम् । गोप्यं गुह्यं सदा गोप्यं सर्वधर्मैकसाधनम् ॥ २३॥ मन्त्रकोटिमयं दिव्यं तेजोरूपं परात्परम् । अष्टम्यां च नवम्यां च चतुर्दश्यां दिने दिने ॥ २४॥ सङ्क्रान्ते मङ्गलौ रात्र्यां योऽर्चयेच्छारदां सुधीः । त्रयस्त्रिंशत्सुकोटीनां देवानां तु महेश्वरि ॥ २५॥ ईश्वरी शारदा तस्य मातेव हितकारिणी । यो जपेत्पठते नाम्नां सहस्रं मनसा शिवे ॥ २६॥ स भवेच्छारदापुत्रः साक्षाद्भैरवसन्निभः । इदं नाम्नां सहस्रं तु कथितं हितकाम्यया ॥ २७॥ अस्य प्रभावमतुलं जन्मजन्मान्तरेष्वपि । न शक्यते मयाऽऽख्यातुं कोटिशो वदनैरपि ॥ २८॥ अदातव्यमिदं देवि दुष्टानामतिभाषिणाम् । अकुलीनाय दुष्टाय दीक्षाहीनाय सुन्दरि ॥ २९॥ अवक्तव्यमश्रोतव्यमिदं नामसहस्रकम् । अभक्तेभ्योऽपि पुत्रेभ्यो न दातव्यं कदाचन ॥ ३०॥ शान्ताय गुरुभक्ताय कुलीनाय महेश्वरि । स्वशिष्याय प्रदातव्यं इत्याज्ञा परमेश्वरि ॥ ३१॥ इदं रहस्यं परमं देवि भक्त्या मयोदितम् । गोप्यं रहस्यं च गोप्तव्यं गोपनीयं स्वयोनिवत् ॥ ३२॥ ॥ इति श्रीरुद्रयामलतन्त्रे पार्वतीपरमेश्वरसंवादे श्रीशारदासहस्रनामस्तवराजः सम्पूर्णः ॥