अक्षर आकार:

श्रीशारदासंस्तवनम्

Shri Sharada Samstavanam

श्रीशारदासंस्तवनम्

सर्वदा सर्व-दा शारदा सार-दा या विपत्पारदा सा पराम्बा मता । सङ्गता सर्व-देवैः प्रहर्षङ्गता वन्दिता विष्णुना जिष्णुना संस्तुता ॥ १॥ पण्डितो यत्कृपातो भवेन्मण्डितोऽ- खण्डितो देश सैषः सदा नन्दितः । पातु सा शारदा ब्रह्मलोकस्थिता सम्मता देवदेवैः स्वयं वन्दिता ॥ २॥ ब्रह्मणा विष्णुना शूलिना संस्तुता सर्वदेवैर्नरै दानवैः पूजिता । सर्वदा शं विदध्यान्मुदा शारदा शोकसंहारिकाऽज्ञान-तामिस्रहा ॥ ३॥ सेवकोऽयं सहायं विना दुःखित- स्त्वं विधत्तां सुरक्षां जगत्पालिके । सम्बलं सौख्यदे ! भक्तिदे ! देहि मे साधवोऽसाधवो लालिताः पालिताः ॥ ४॥ करालेऽस्मिन् काले वरसरसिजाक्षि सुविमले ! त्वमेवाद्याशक्तिः सततमनुरक्तिर्भवतु मे । अभद्रं भ्रूभङ्गाद्धरतु वर-वीणा धृत-करे ! सरस्वत्या मातुःश्चरण शरणं वाद्य निधनम् ॥ ५॥ ईति-भीतिभयात्पाहि शरदिन्दुनिभानने ! । अपहृत्य तमोजालं सर्वानर्थान् प्रपूरय ॥ ६॥ इति श्रीशारदासंस्तवनं सम्पूर्णम् । रचयिता-रामस्वरुपशास्त्री अमरः तालबेहट (ललितपुर) स्थः