अक्षर आकार:

श्रीशारदाम्बास्तोत्रमालिका

Shri Sharadambastotramalika

श्रीशारदाम्बास्तोत्रमालिका

(श्रीकालटिक्षेत्रे) आसेतुशीतगिरिमध्यनिवासलोकान् स्वस्वाश्रमाद्युचितकर्मनिषक्तचित्तान् । श्रीघ्रं विधाय करुणामृतवारिराशे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १॥ हंसादिमस्करिवरार्चितपादपद्मे हंसाग्र्ययाननिरते मुखनिर्जिताब्जे । कंसारिमुख्यसुरनायकपूज्यमाने श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २॥ श्वेताम्बुसम्भवनिवासनिषक्तबुद्धे शीतांशुराजतमहीधरतुल्यवर्णे । वाताम्बुमात्रपरितुष्टजनालिसेव्ये श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३॥ क्रव्यादवैरिमुखदेववरेड्यपादे सुव्याहृतिप्रदपदाम्बुजजातुपाते । निर्व्याजपूर्णकरुणामृतजन्मभूमे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ४॥ भक्त्यादिगन्धरहितान्गुरुपादपद्मे तत्सेवने च सुतरां विनिवृत्तभावान् । लोकानवाम्ब परिशुद्धहृदो विधाय श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ५॥ अज्ञातवेदनिचयस्मृतिमुख्यगन्धान् कामार्थमात्रपुरुषार्थधियो मनुष्यान् । आम्नायमार्गपथिकांस्तरसा विधाय श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ६॥ देहात्मवादनिरतान्सततं हि मोदा- त्तत्पालनैकनिरतानपि नीचवृत्त्या । किं च स्ववृत्तिविमुखान्परिपालयन्ती श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ७॥ पापाम्बुराशिविनिमज्जनमुह्यमान- मेनं दुरन्तविषयाशमजास्यवासे । लोकं निवार्य तरसा कृपया दुराशां श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ८॥ उद्वेगकालपरितुष्टहृदम्बुजात- मप्यैहिकादिनिचये स्पृहया विहीनम् । भीत्या रुषा च सुतरां रहितं विधाय श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ९॥ आकल्पकालटिनिवासनिबद्धदीक्षा भूत्वा तथाखिलजगत्यपि धर्मवृद्धिम् । प्रापय्य लोकपरिरक्षणमाचरन्ती श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १०॥ भाग्याब्धिपूर्णशरदिन्दुसमूहरूपे भक्तौघसस्यसितभिन्नपयोदपङ्क्ते । वेधोमनोऽम्बुजनिबालदिवाकराभे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ११॥ प्राणादिवायुनिचयं विनिरुद्‍ध्य चेतो हृत्पङ्कजे चिरतरं तव दिव्यमूर्तेः । ध्यानं विभुं रचयितुं प्रविधाय मातः श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १२॥ काणादकापिलमुखेषु समस्तशास्त्रे- ष्वव्याहतां प्रतिभया सहितां मनीषाम् । जात्वप्यकर्णविषयेषु वितीर्य तूर्णं श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १३॥ लक्ष्येऽखिलश्रुतिमहादिमवाक्यपङ्क्तेः ऋक्षेशगर्वपरिशातनदक्षवक्त्रे । यक्षेशपाशिमुखदिक्पतिपूज्यपादे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १४॥ दारात्मजावसथपालनसक्तचित्तां- स्तत्पालनात्तबहुदुःखततीश्च सोढ्वा । स्वप्नेऽपि सौख्यरहितान्परिपाल्य लोकान् श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १५॥ कारुण्यपूर्णनयने कलिकल्मषघ्नि कन्दर्पवैरिसहजे कमलायताक्षि । कस्तूरिकामकरिकाश्रितगण्डभागे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १६॥ नैवापहाय निजधर्ममतीव कष्ट- कालेऽपि वाणि सुतरां निजधर्मवाञ्छाः । भूयासुराशु पुरुषाः कुरु तद्वदम्ब श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १७॥ ईहाविहीनजनसन्ततिचिन्त्यमान- पादारविन्दयुगले प्रणतव्रजाय । ईशित्वसिद्धिमुखसिद्धिततिप्रदात्रि श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १८॥ बालारुणाधरविनिर्जितपक्वबिम्बे चेलावधूतशरदभ्रसनस्तगर्वे । लीलाविनिर्मितविचित्रजगत्समूहे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १९॥ भक्तिं वितीर्य सुदृढां तव पादपद्मे दुःखालयेषु विषयेषु विरक्तिदार्ढ्यम् । औत्सुक्यमप्यविरलं निगमान्तपाठे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २०॥ दूर्वादिमत्तगजसिंहधुरन्धरत्वं शर्वादिसेवितपदे तरसा वितीर्य । दुर्वासनां हृदि गतां तरसा प्रमथ्य श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २१॥ पादाम्बुजप्रणतलोकविचित्रकाव्य- कर्तृत्वदानचतुरे चतुरास्यजाये । कुम्भीन्द्रकुम्भपरिपन्थिकुचे कुमारि श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २२॥ चापल्यनैजजनिभूमिहृदम्बुजातं पापाम्बुराशिदृढमग्नमपेतपुण्यम् । आत्मावबोधविधुरं गुरुभक्तिहीनं श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २३॥ रङ्कोऽपि यत्करुणया प्रभवेत्सुरेशो मूकोऽपि तद्गुरुमहो वचसा जयेच्च । सा त्वं प्रभूतधनवाग्विभवप्रदात्रि श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २४॥ अम्बाशु बोधय कृपाभरितैः कटाक्षै- स्तत्त्वं परं यदवलोकनतो न भूयात् । भूयोऽपि जन्म पदनम्रततेः कदाचित् श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २५॥ कालट्यभिख्यपुरवासनिबद्धभावे कालप्रतीपसहजे कलकण्ठकण्ठे । कायप्रभाजिततुषारसितांशुशोभे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २६॥ यत्त्वं हि वीक्षणलवेन नतार्भकाणां सम्पोषणं प्रकुरुषे जगदम्ब सार्थम् । मीनाम्बकत्वमभजद्भवतीह तस्मात् श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २७॥ अष्टाङ्गयोगमखिलं तरसोपदिश्य नीत्वा च मध्यपदवीं सहशक्तिवायुम् । चेतश्च धामनि परे दृढमारचय्य श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २८॥ ऐक्यावबोधनकृते प्रणमज्जनानां वक्त्रे विधुत्वमथ नेत्रयुगे झषत्वम् । मध्ये च पञ्चमुखतां परिधारयन्ती श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २९॥ श्रीशङ्करार्यकरपङ्कजपूजिताङ्घ्रे पाशं विभिद्य तरसा भवनामभाजम् । साशंसदाहिविषयेऽप्युपभुक्तपूर्वे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३०॥ कीरार्भकप्रविलसत्करपङ्कजाते स्वाराज्यदानपरितोषितनम्रवृन्दे । स्मेरास्यकान्तिपरिधूतसुधांशुबिम्बे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३१॥ कारुण्यसागरनिमग्नहृदम्बुजाते लावण्यजन्मसदनीकृतनैजदेहे । कारुण्यनित्यविहृतेर्निलयाङ्गसौधे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३२॥ श्रीशेशपद्मजमुखामरपूजिताङ्घ्रे श्रीबोधदाननिरते प्रणमज्जनेभ्यः । श्रीकण्ठसोदरि कृपामृतवरिराशे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३३॥ पूर्णानदीतटविहारविलोलचित्ते तूर्णानतेष्टततिदाननिबद्धदीक्षे । चूर्णायिताखिलचिरात्तहृदन्धकारे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३४॥ वैराग्यजन्मनिलयैः परिसेव्यमाने वैयासकिप्रमुखमौनिजनैर्नितान्तम् । सच्चित्सुखात्मकतनो विधिपुण्यराशे श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३५॥ यां वेत्तुमिच्छति मखानशनाद्युपायै- र्लोके द्विजावलिरसौ बहुपुण्यपाकात् । सोपायहीनमपि नैजकृपातिरेकात् श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशारदाम्बास्तोत्रमालिका सम्पूर्णा ।