अक्षर आकार:

श्रीशारदामहिम्नस्तवः

Shri ShAradamahimnastava

श्रीशारदामहिम्नस्तवः

श‍ृङ्गाद्रिवासाय विधिप्रियाय कारुण्यवाराम्बुधये नताय । विज्ञानदायाखिलभोगदाय श्रीशारदाख्याय नमो महिम्ने ॥ १॥ तुङ्गातटावासकृतादराय भृङ्गालिविद्वेषिकचोज्ज्वलाय । अङ्गाधरीभूतमनोज्ञहेम्ने श‍ृङ्गारसीम्नेऽस्तु नमो महिम्ने ॥ २॥ वीणालसत्पाणिसरोरुहाय शोणाधरायाखिलभाग्यदाय । काणादशास्त्रप्रमुखेषु चण्डप्रज्ञाप्रदायास्तु नमो महिम्ने ॥ ३॥ चन्द्रप्रभायेशसहोदराय चन्द्रार्भकालङ्कृतमस्तकाय । इन्द्रादिदेवोत्तमपूजिताय कारुण्यसान्द्राय नमो महिम्ने ॥ ४॥ इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः श्रीशारदामहिम्नस्तवः ।