अक्षर आकार:

श्रीशारदामाहात्म्यम्

shrIshAradAmAhAtmyam

श्रीशारदामाहात्म्यम्

ॐ अथ शारदामाहात्म्यम् ॥ भैरव्युवाच । वद सत्यं महादेव शारदावनमुत्तमम् । शाण्डिल्यो यत्र वै गत्वा सर्वान्कामानवाप्तवान् ॥ १॥ अनादिनिधना देवी यथा भूलोकमागमत् । शारदा नाम सा शक्तिस्त्रिधा रूपमधारयत् ॥ २॥ तस्या माहात्म्यमीशान वद लोकहितेप्सया । का च देवी परा यासौ शारदानामधारिणी ॥ ३॥ भैरव उवाच । श‍ृणु वक्ष्ये महादेवि शारदावनमुत्तमम् । यस्य दर्शनमात्रेण परां सिद्धिमवाप्नुयात् ॥ ४॥ मातङ्गकन्यासङ्गाच्च सम्भूतस्तत्सरूपकः । शाण्डिल्यो नाम तनुजो महर्षेर्भावितात्मनः ॥ ५॥ श्यामाङ्गः स तमोरूपः पित्राज्ञप्तश्चचार ह । घोरं तपो महादेवि महादेवाद्रिसंनिधौ ॥ ६॥ जगत्त्राणादिकृच्छक्तिजपध्यानपरायणः । निराहारो यतात्मा स दध्यौ देवीं सनातनीम् ॥ ७॥ एवं तु ध्यायतस्तस्य शाण्डिल्यस्य महात्मनः । प्रादुर्बभूव तु महच्छ्यामलं तेज उत्तमम् ॥ ८॥ अद्भुतं तन्मुनिर्दृष्ट्वा विस्मितो न शशाक ह । किञ्चिद्वक्तुं चेष्टितुं वा स्थाणुभूतो महेश्वरि ॥ ९॥ क्षणेनान्तर्दधे तत्तु तेजः श्यामलमुत्तमम् । मुनिः स विस्मितो भूयः प्रेक्ष्यान्तर्धानमागतम् ॥ १०॥ सस्मार पितरं तत्र शाण्डिल्यो वन उत्तमे । तेनापि प्रेषितस्तत्र नारदो मुनिसत्तमः ॥ ११॥ आगत्य नारदः प्राह शाण्डिल्यं मुनिसत्तमम् । ध्यायस्व भूयो विप्राग्र्य येन दर्शनमाप्स्यसि ॥ १२॥ श्यामलां श्यामलाङ्गीं तां शक्तिं शक्तिमतोऽनघाम् । दृष्ट्वा तु तामघं सर्वं नाशमायाति तत्क्षणात् ॥ १३॥ इत्युक्त्वान्तर्दधे तत्र नारदो मुनिसंनिधौ । श्रुत्वा देवर्षिवचनं पुनर्दध्यौ सुरेश्वरि ॥ १४॥ शतवर्षं ध्यानपरः श्यामाङ्गीं दृष्टवान्मुनिः । नुत्वा स्तुत्वा च विधिना श्यामाङ्गीं तां सुरेश्वरि ॥ १५॥ सोवाच तं महाभाग वरं वरय सुव्रत । श्रुत्वा तु तद्वचः सौम्यं वरदा चेन्महेश्वरि ॥ १६॥ ममाङ्गात् सकलं पापं विलयं यातु तत्क्षणात् । इति श्रुत्वा वचस्तस्य शाण्डिल्यस्य महात्मनः ॥ १७॥ प्रोवाच श्यामला देवी पुत्र सर्वमवाप्स्यसि । इति गच्छ महाराष्ट्रं श्यामलं नाम नामतः ॥ १८॥ तत्र द्रक्ष्यसि तां देवीं शारदां त्रिविधात्मिकाम् । ततः प्राप्स्यसि स्वं रूपं ब्राह्ममेव न संशयः ॥ १९॥ इत्युक्त्वा शाण्डिल्यमुनिं देवी चान्तर्दधे तदा । स्मृत्वा वचो महादेव्याः श्यामलाया मुनीश्वरः ॥ २०॥ प्रतस्थे श्यामलं नाम विषयं सार्वकामिकम् । तत्र गत्वा मुनिर्ध्यानरतो घोषं समृद्धिदम् ॥ २१॥ घोषे ध्यात्वा महादेवीं ददर्शाग्रस्थितां सतीम् । स्तुता तत्र महेशानी अग्र एवादिशन्मुनिम् ॥ २२॥ इतोऽदूरे मुनिश्रेष्ठ शारदाया वनं महत् । तत्र प्रविष्टस्य मुनेस्तमो नश्यति तत्क्षणात् ॥ २३॥ तमोनाशे च स्वामेव प्रकृतिं प्राप्स्यसि ध्रुवम् । इत्युक्त्वान्तर्दधे देवी हयशीर्षाश्रमे मुनिः ॥ २४॥ ततो वनं समासाद्य कृष्णगङ्गां समाश्रयत् । दृष्ट्वा स्पृष्ट्वा च विधिवच्श्यामां गङ्गां महामुनिः ॥ २५॥ सुवर्णार्धाङ्गके गत्वा परं तत्र विसिस्मिये । सौवर्णार्धाङ्गस्तद्वीक्ष्य ययौ भूयो महेश्वरि ॥ २६॥ तत्र वै शाण्डिल्यमुनिः सुवर्णार्धाङ्ग ईक्षितः । स देशः प्रथितोऽद्यापि सुर्वर्णार्धाङ्गसंज्ञया ॥ २७॥ सुवर्णार्धाङ्गके देशे स्नानदानजपार्चनैः । पुण्यं प्राप्नोति मनुजो वेदपारायणे प्रिये ॥ २८॥ तस्मात्सर्वप्रयत्नेन सुवर्णार्धाङ्गके कलौ । स्नानं तत्र विशेषेण ब्रह्महत्यां व्यपोहति ॥ २९॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । स्नात्वा श्रीकृष्णगङ्गायां मुच्येज्जन्मशतोद्भवैः ॥ ३०। ततस्तु गिरिमारुह्य मुनिः परमकारुणः । प्रतस्थे दर्शनाकाङ्क्षी देव्याः प्रापद्धि नाटकम् ॥ ३१॥ ददर्श नाटकं तत्र देवीनां विस्मितो मुनिः । नमस्कृत्य च देवीनां गणं रङ्गमुपेयिवान् ॥ ३२॥ देव्यस्तु दृष्ट्वा तत्रैव सुर्वर्णार्धाङ्गकं मुनिम् । परस्परमथोचुस्ताः सुवर्णार्धाङ्गको मुनिः ॥ ३३॥ सर्वाङ्गसुन्दरो भूत्वा गच्छेदिति न संशयः । तथेत्युक्त्वा महेशानि देवीनां गण उत्तमः ॥ ३४॥ नाट्यं कृत्वा तेन सह ततोऽन्तर्धानमागतः ॥ तत्र देवीगणं नाट्यपरं दृष्ट्वा स वै मुनिः ॥ ३५॥ तन्नालं प्रकटीभूतं रङ्गवाट्यां महेश्वरि । दृष्ट्वा देवीवनं तत्र रङ्गवाट्यभिधं परम् ॥ ३६॥ मुच्यते घोरपापौघैर्जन्मजन्मान्तरोद्भवैः । ततो दृष्ट्वाद्भुतं दिव्यं रङ्गवाटाभिधं वनम् ॥ ३७॥ गन्धर्वनगराकारं प्रतस्थे विस्मितो मुनिः । ततोऽग्रे तस्य देवेशि शाण्डिल्यस्य महामुनेः ॥ ३८॥ गोस्तम्भो ह्यभवत्तत्र रङ्गदर्शनविस्मितः । अनेलमूको ह्यभवद्यत्र वै विस्मितो मुनिः ॥ ३९॥ तद्वनं प्रथितं लोके गोस्तम्भनसमाख्यया । गोस्तम्भनवनं दृष्ट्वा स्नात्वा दत्त्वा यथाविधि ॥ ४०॥ मुच्यते घोरहत्याभिरिति सत्येन ते शपे । ततो ह्यनेलमूकः स मुनिः परमविस्मितः ॥ ४१॥ प्राप्य तेजवनं नाम गङ्गातीरे ददर्श सः । मुनिं गौतममासीनं गत्वा नत्वा च भूरिशः ॥ ४२॥ अनेलमूकं शाण्डिल्यमपृच्छत्कृपया मुनिः । दृष्टं किमद्भुतं ब्रह्मन् तत्र दिव्ये महावने ॥ ४३॥ शक्तिप्रसादात् प्राप्नोषि वरमेतन्न संशयः । तमोभूतस्तमोरूपस्तामसस्तामसोद्भवः ॥ ४४॥ सुवर्णाङ्गो भवान्यस्मात् संपन्नो दर्शनेन यः । स एवानेलमूकोऽसि विस्मयाद्द्विजसत्तम ॥ ४५॥ स्नानाच्च परमं तेजः स्थानं प्राप्स्यसि चोत्तमम् । श्रुत्वा तस्य वचो दिव्यं स्नात्वा पुण्ये च वारिणि ॥ ४६॥ गोस्तम्भान्मुक्तिमासाद्य तेजः परमवाप्तवान् । तत्तेजः परमं दृष्ट्वा मुनिः शाण्डिल्यनामकः ॥ ४७॥ गौतमं प्रत्युवाचैनं तेजस्वी परमादरात् । मुने कोऽयं प्रभावोऽस्ति क्षेत्रे यस्य प्रभावतः ॥ ४८॥ यस्य दर्शनतो जातं मम तेजः परं मुने । श्रुत्वा मुनेर्गौतमोऽपि वचस्तत्परमं प्रिये ॥ ४९॥ प्रत्युवाच मुनिं तत्र किमाश्चर्येण वै द्विज । इति श्रुत्वा प्रस्थितश्च भूयोऽग्रे सुरसुन्दरि ॥ ५०॥ यत्र मुक्तो महेशानि गोस्तम्भात्स मुनिः परः । तेजः परमकं प्राप स देशः पावनः स्मृतः ॥ ५१॥ तत्तत्तेजवनं नाम क्षेत्रं परमपावनम् । प्रयत्नेन तु तत्क्षेत्रे स्नातव्यममरेश्वरि ॥ ५२॥ मुच्यते घोरहत्याभिः स्नानध्यानजपार्चनैः । महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ ५३॥ उत्तेजने महाक्षेत्रे मुच्यते घोरसङ्कटात् । उत्तेजनसमं क्षेत्रं दिवि भुव्यन्तरिक्षके ॥ ५४॥ घोरपापहरं दिव्यं न भूतं न भविष्यति । ततो गिरिं समारुह्य शाण्डिल्यः प्रस्थितो मुनिः ॥ ५५॥ दृष्ट्वाग्रे गणपं दिव्यं विघ्नकर्तारमीश्वरम् । प्रसादयित्वा देवेशं विघ्नानां नायकं परम् ॥ ५६॥ तदाज्ञया जगामाग्रे वनं पुण्यमतन्द्रितः । दृष्ट्वा पुण्यं वनं दिव्यं शारदाया महेश्वरि । तत्राचरत्तपो घोरं दिव्यवर्षसहस्रकम् ॥ ५७॥ दिव्यवर्षसहस्रान्ते श्रीशैलशिखरात्प्रिये । श्यामला धवला देवी रक्ता चाविर्बभूव ह ॥ ५८॥ दृष्ट्वा तु देवीं तां तत्र शारां वर्षसहस्रकम् । यस्माद्रक्ता च श्यामा च श्वेता च वरवर्णिनि ॥ ५९॥ तस्मात्प्रोक्ता पुराविद्भिः शारदानामनामतः । शिखराग्रे च दृष्ट्वा तां देवीं त्रिविधविग्रहाम् ॥ ६०॥ मुनिर्विस्मयमापन्नस्तस्थौ स्मरणतत्परः । शारीभूता यतो देवी दृष्टा ते नात्र संशयः ॥ ६१॥ ततः प्रोक्ता पुराविद्भिः शारदेति महेश्वरि । शरत्काले यतो देवी पूजिता सर्वजन्तुभिः ॥ ६२॥ ततः प्रोक्ता पुराविद्भिः शारदानामनामतः । शबलेति यतो देवि प्रोक्ता त्रिविधविग्रहा ॥ ६३॥ शारदा नारदा चैव वाग्देवीति च सोच्यते । नारदस्योपदेशेन या दृष्टा श्यामलाङ्गका ॥ ६४॥ सरस्वतीति सा प्रोक्ता वाक्स्तम्भान्मुच्यते यया । निर्मला या च मुनिना दृष्टा त्रिविधविग्रहा ॥ ६५॥ श्रीशैलशिखरे पुण्ये शारदेति मता च सा । दृष्ट्वा देवीं तत्र मुनिः प्रणनाम चिरं मुदा ॥ ६६॥ दण्डवत्पतितो भूत्वा गिरा परमयैडयत् ॥ ६७॥ श्रीशाण्डिल्य उवाच । देवीं चिदानन्दमयीमजस्रं विश्वात्मिकां विश्वपरां जयन्तीम् । तमोऽपहर्त्रीं मनसा परेशीं तां शारदाख्यां शरणं प्रपद्ये ॥ ६८॥ पापैः शबलितो यस्मान्मोचितोऽस्मि स्वभावतः । तस्मात्त्वां शारदां नाम प्रवदन्ति मनीषिणः ॥ ६९॥ चिद्विमर्शमहाशक्तिं परमानन्ददायिनीम् । शरणं देवदेवेशीं त्वामेव गतवानहम् ॥ ७०॥ रजस्तमोव्यक्तरूपामोमित्येकाक्षरात्मिकाम् । शरणं यामि तां देवीं शारदां शबलां पराम् ॥ ७१॥ अघोरां घोररूपां तां घोरघोरतरां शुभाम् । शर्वाणीं चाथ रुद्राणीं मृडानीं तां नमाम्यहम् ॥ ७२॥ शतरुद्रां परां नित्यां शारदां तां नतोऽस्म्यहम् । महाकालाग्निना ग्रस्तं जगत्त्रातुमिहोद्यता ॥ ७३॥ परास्वरूपां परमां शारदां तां नतोऽस्म्यहम् । महाकालाग्निरूपां तां सृष्टिसंहारकारिणीम् ॥ ७४॥ जगत्स्थितिकरीं देवी शारदां शरणं श्रये । श्यामां शबलितापाङ्गां शर्मदां भार्गवार्चिताम् ॥ ७५॥ नारदानुग्रहकरीं शारदां शरणं श्रये । वाक्स्तम्भमोचनीं भद्रां महदुत्तेजनीं पराम् ॥ ७६॥ गौतमेनार्चितां दुर्गां शारदां वरदां भजे । चिन्त्यामचिन्त्यां चेत्यां च चिद्विमर्शविधायिनीम् ॥ ७७॥ चिद्रूपां चारुनयनां शारदां शरणं श्रये । घोरकाननसंलीनां त्रिविधां त्रिस्वरूपिणीम् ॥ ७८॥ श्रीशैले त्रिपुटां देवीं शारदां तां भजामहे । कामक्रोधभयोन्मादग्रस्तमोक्षविधायिनीम् ॥ ७९॥ त्रिपुरां त्रिविधावासां शारदां नारदां भजे । भक्ताभयकरीं देवीं वरचापशराङ्किताम् ॥ ८०॥ त्रिशूलखट्वाङ्गधरां त्रिनेत्रां चारुहासिनीम् । षड्भुजां षड्गुणां रम्यां गुणातीतां गुणात्मिकाम् ॥ ८१॥ प्रकृतिं विकृतिं दिव्यां शारदां वरदां भजे । अतीतानागतां दिव्यां महामायास्वरूपिणीम् ॥ ८२॥ ब्रह्मविष्णुशिवातीतपर्यङ्कासनसंस्थिताम् । महामोहपरिग्रस्तां महामोहस्वरूपिणीम् ॥ ८३॥ मोहान्धितजनोद्धारां शारदां वरदां भजे । दीनानाथपरित्राणपरायणपरायणाम् ॥ ८४॥ मादृक्प्रपन्नपशुपाशविमोचनीं तां सच्चिद्विमर्शविमलां परमार्थरूपाम् । मानप्रमातृरहितां स्थितिमप्रमेयां तां शारदां भुवनकोशगतां नतोऽस्मि ॥ ८५॥ इति स्तुत्वा महादेवीं शाण्डिल्यः कानने शुभे । चकार स मुनिस्तत्र तपः पापनिबर्हणम् ॥ ८६॥ वायुभक्षो निराहारो देवीदर्शनलालसः । एवं सञ्चरतस्तस्य दुश्चरं परमं तपः ॥ ८७॥ जगाम सुमहान्कालो देवी प्रीता बभूव ह । अत्रोपहारं वक्ष्यामि तच्छृणुष्व सुरेश्वरि ॥ ८८॥ सा च देवी प्रतुष्येत पशुं दृष्ट्वा वार्ध्रीणसम् । पशुरपि परां मुक्तिं लभते नात्र संशयः ॥ ८९॥ वैष्णवोऽपि नरस्तत्र ब्राह्मणः क्षत्रियोऽथवा । वैश्यो वापि प्रकुर्वीत होमं पशुपुरःसरम् ॥ ९०॥ वैष्णवो नैव भुञ्जीत व्रतधारी तथैव च । मांसं वार्ध्रीणसस्यास्य न दोषस्तत्र विद्यते ॥ ९१॥ अमांसभोजनः शम्भुस्तुष्यते नात्र संशयः । देवी चापि सुरेशानि सदा प्रीतिकरा भवेत् ॥ ९२॥ मोदकैर्मत्स्यमांसैश्च गणनाथं प्रपूजयेत् । इत्येष पटलो गुह्यो पावनः प्रीतिवर्धनः ॥ ९३॥ तथा तपसि सक्तस्य प्रसन्नाभून्महेश्वरी । देवी दुर्वाससा सार्धं मुनिभिश्च समाययौ ॥ ९४॥ दृष्ट्वा देवीं पुरस्तत्र शाण्डिल्यो दण्डवत्क्षितौ । पपात पुनरुत्थाप्य देवी शाण्डिल्यमब्रवीत् ॥ ९५॥ श्रीशैलोपरि शाण्डिल्य मत्पार्श्वे तु चिरं वस । मद्दर्शनाच्च यत्पुण्यं तद्भवद्दर्शनादपि ॥ ९६॥ उत्तिष्ठ शीघ्रं पुत्र त्वं मत्पार्श्वे सन्निधिं कुरु । दास्यामि वेदांस्तत्रैव साङ्गानपि च पुत्रक ॥ ९७॥ त्रिसृणाश्चैव मोक्ष्यामि सत्यं जानीहि मानद । इत्युक्त्वा तत्र शाण्डिल्यं देवदेवी महेश्वरी ॥ ९८॥ तत्रैवान्तर्हिता भूत्वा श्रीशैलोपरिसंस्थिता । शाण्डिल्योऽपि ययौ तत्र यत्र देवी प्रतिष्ठिता ॥ ९९॥ गच्छतस्तस्य देवेशि शाण्डिल्यस्य महात्मनः । अर्धाङ्गं तु सुवर्णस्य बभूव किल सुन्दरि ॥ १००॥ अर्धाङ्गं तु सुवर्णस्य दृष्ट्वा हृष्टो भवन् मुनिः । विस्मयं परमं प्राप्तो मनसैतदचिन्तयत् ॥ १०१॥ किं ममाङ्गं सुवर्णस्य फलं कस्यैष कर्मणः । राष्ट्रस्य महिमा कोऽपि तथा तीर्थजलस्य च ॥ १०२॥ अथवा देवदेव्यास्तु शारदायाः प्रसादतः । इत्थं चिन्तयतस्तस्य शाण्डिल्यस्य महामुनेः ॥ १०३॥ विस्मितस्य महादेवि पितरो दृष्टिमागताः । दृष्ट्वा पितृगणांस्तत्र शाण्डिल्यः पुरतः स्थितान् ॥ १०४॥ उवाच विस्मितः के वै भवन्तः पुरतः स्थिताः । किमर्थमागता यूयं ब्रूतागमनकारणम् ॥ १०५॥ भवतां किङ्करश्चास्मि अविलम्बेन सत्तमाः । ब्रूतागमनकृत्यं मे समुद्युक्तोऽस्मि तत्कृते ॥ १०६॥ पितर ऊचुः । वयं ते पितरः पुत्र क्षीणाः स्मोऽथ चिरंसमाः । वर्णसङ्करजाद्दोषाच्छुद्धवर्णोऽसि सांप्रतम् ॥ १०७॥ अधुना पातुमिच्छामस्त्वत्त एव जलाञ्जलीन् । दातुमर्हसि नः पुत्र सिन्धौ श्राद्धमनुत्तमम् ॥ १०८॥ जलाञ्जलिमपीदानीमस्माकं तृप्तिकारणम् । योऽर्हः सन्नैव पितॄणां ददाति जलतर्पणम् ॥ १०९॥ श्राद्धं वापि मुनिश्रेष्ठ स दरिद्रः प्रजायते । निरपत्यः कुलच्छेदकारकश्चैव पुत्रक ॥ ११०॥ तस्मादार्यैः सदा देयः पितृभ्यस्तु जलाञ्जलिः । श्राद्धं मधुघृतैर्वापि फलैर्वा गुडपायसैः ॥ १११॥ तूष्णीं बभूवुर्देवेशि मुनिं प्रोच्य प्रहर्षिताः । पितरस्ते तदा सर्वे शाण्डिल्यं प्राञ्जलिं स्थितम् ॥ ११२॥ भैरव उवाच । श्रुत्वा तेषां वचः सौम्यं शाण्डिल्यश्चातिविस्मितः । उवाच पितॄन्संस्तुत्य वाचा परमया मुदा ॥ ११३॥ अधुनैव पितृगणाः सिन्धौ दास्यामि वो जलम् । वपनं तु करिष्यामि पितॄणां श्राद्धशुद्धये ॥ ११४॥ कृत्वा हि वपनं तत्र श्राद्धं कुर्वन्ति ये नराः । तृप्ताः स्युः पितरस्तेषां कर्तॄणां च महाफलम् ॥ ११५॥ इत्येवमुक्त्वा पितृभ्यस्तान्सन्तोष्य महातपाः । कृत्वा तु वपनं तत्र शाण्डिल्यो मुनिसत्तमः ॥ ११६॥ चकार विधिवच्छ्राद्धं पितृभ्यस्तृप्तिहेतवे । शाण्डिल्यश्चैव देवेभ्यः पितृभ्यश्च ददौ जलम् ॥ ११७॥ शाण्डिल्यहस्ताद्देवेशि महासिन्धुजलं तदा । क्षौद्रमेव बभूवाशु पितॄणां तृप्तिकारणम् ॥ ११८॥ सिन्धोः स्रोतो महादेवि मुनिहस्तगतं यदा । अर्धं क्षौद्रमयं जातं पितॄणां तृप्तिहेतवे ॥ ११९॥ यदाप्रभृति शाण्डिल्यः पितॄन्सन्तृप्तवान् जलैः । ततः सिन्धुप्रवाहस्य नामाभून्मधुमत्यपि ॥ १२०॥ सुवर्णो जगदीशानि शाण्डिल्यो नाम वै मुनिः । बभूव परमप्रीतः पितॄणां तृप्तिकारणम् ॥ १२१॥ ततोऽग्रे मधुमत्याश्च सिन्धोः सङ्गम एव च । स्नात्वा च वपनं कृत्वा श्राद्धं कृत्वा महेश्वरि ॥ १२२॥ साक्षाद्भूता महादेवी शाण्डिल्यमिदमब्रवीत् । भ्राजमानतनुं त्वां ये वनेऽमुष्मिन्प्रतिष्ठितम् ॥ १२३॥ मां चापि त्रिविधां चात्र ये पश्यन्ति नरोत्तमाः । ते सिद्धाः कथिताः पुत्र पापमुक्ता न संशयः ॥ १२४॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । क्षेत्रं पीठेश्वराख्यं च दृष्ट्वा मुच्येत किल्बिषैः ॥ १२५॥ इत्युक्त्वा तं मुनिं देवी तूष्णीमास महेश्वरि । तस्मात्सर्वप्रयत्नेन शारदावनमाश्रयेत् ॥ १२६॥ घोषं गत्वा च नुत्वा च घोषावासाञ्जनानपि । उपोष्य रजनीमेकां षट्‍तिस्रो द्वादशैव वा ॥ १२७॥ आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् । संपूज्य भोजयित्वा च मङ्गलोच्चारपूर्वकम् ॥ १२८॥ सुवर्णाङ्गं ततो गत्वा तेजनीसिन्धुसङ्गमे । वपनं विधिवत्कृत्वा श्राद्धं चैव यथाविधि ॥ १२९॥ शाण्डिल्यमधुमत्योश्च सङ्गमे लोकविश्रुते । षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ॥ १३०॥ कुर्वन्ति संनिधानं च मासि भाद्रपदे सदा । शुक्लपक्षे चतुर्थ्यां च तथान्यासु च सर्वदा ॥ १३१॥ चतुर्दश्यां च शुक्लायां त्वत्प्रसादान्महेश्वरि । गोस्तम्भनमथाभ्यर्च्य प्रविशेन्मुनिकाननम् ॥ १३२॥ मुनिं दृष्ट्वा ततो देवि शारदां त्रिविधात्मिकाम् । संपूज्य परया भक्त्या धूपैः कुसुमचन्दनैः ॥ १३३॥ क्षीरखण्डाज्यधूपैश्च दीपैः कर्पूरवर्तिकैः । नैवेद्यैर्घृतपक्वैश्च बलिदानैरनेकशः ॥ १३४॥ पूजयेद्विधिना देवीं वस्त्रालङ्कारभूषणैः । कुमारीः पूजयेच्चापि तथा ब्राह्मणपूजनैः ॥ १३५॥ गोदानैरश्वदानैश्च कन्थावस्त्रान्नभूषणैः । अक्षयं फलमाप्नोति सत्यं सत्यं वरानने ॥ १३६॥ अपुत्रिणः पुत्रान्योग्यान्निर्धनाश्च धनं बहु । मूर्खश्च शोभनां विद्यां रोगिणः स्वास्थ्यमाप्नुयुः ॥ १३७॥ स्वर्गं च नरकाद्भीतास्तथा मोक्षं मुमुक्षवः । शारदां गन्तुकामस्य गृहात्प्रभृति सुन्दरि ॥ १३८॥ पदानि क्रममाणस्य यावन्तो भूमिरेणवः । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ १३९॥ उपोष्य रजनीमेकां तिस्रः षड्द्वादशैव वा । आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् ॥ १४०॥ नृत्तगीतैस्तथा वाद्यैर्भोगैर्दानैस्तथा गृहैः । हस्त्यश्वरथयानैश्च वासोभिः शयनैस्तथा ॥ १४१॥ शारदाक्षेत्रमाहात्म्यं नालं वक्तुं चतुर्मुखः । शेषो नालं फलं वक्तुं प्रभावं चापि सुन्दरि ॥ १४२॥ इति तत्कथितं तुभ्यं यत्पृष्टोऽहमिति त्वया । अधुना देवदेवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १४३॥ इत्येष पटलो गुह्यो महापातकहा कलौ । श्रुत्वा पठित्वा मुच्येत कोटिजन्मभवादघात् ॥ १४४॥ इति श्रीभृङ्गीशसंहितायामुत्तरविषयोपजाततीर्थसङ्ग्रहे शारदामाहात्म्यं समाप्तम् ॥ Shankara processed.