अक्षर आकार:

श्रीशारदादशकम्

Shri Sharada Dashakam

श्रीशारदादशकम्

(श्रीकालटिक्षेत्रे) करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य । कथयाशु तत्करोम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १॥ गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया । तान्ताद्याप्यसमाप्तेर्निश्चलतां पाणिपङ्कजे धत्से ॥ २॥ विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति । तेषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३॥ गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रेभ्यः । यतिनाथसेवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४॥ जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् । नीलेन्दीवरनयनां बालेन्दुकचां नमामि विधिजायाम् ॥ ५॥ भारो भारति न स्याद्वसुधायास्तद्वदम्ब कुरु शीघ्रम् । नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशे ॥ ६॥ निकटेवसन्तमनिशं पक्षिणमपि पालयामि करतोऽहम् । किमु भक्तियुक्तलोकानिति बोधार्थं करे शुकं धत्से ॥ ७॥ श‍ृङ्गाद्रिस्थितजनतामनेकरोगैरुपद्रुतां वाणि । विनिवार्य सकलरोगान्पालय करुणार्द्रदृष्टिपातेन ॥ ८॥ मद्विरहादतिभीतान्मदेकशरणानतीव दुःखार्तान् । मयि यदि करुणा तव भो पालय श‍ृङ्गाद्रिवासिनो लोकान् ॥ ९॥ सदनमहेतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् । मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलये ॥ १०॥ var मदनरिपुसहोत्थां इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशारदादशकं सम्पूर्णम् ।