अक्षर आकार:

श्रीशारदाभुजङ्गप्रयातस्तुतिः

Shri Sharada Bhujangaprayatastutih

श्रीशारदाभुजङ्गप्रयातस्तुतिः

(कालटीक्षेत्रे) स्मितोद्धूतराकानिशानायकायै कपोलप्रभानिर्जितादर्शकायै । स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थसत्यै नमः शारदायै ॥ १॥ भवाम्भोधिपारं नयन्त्यै स्वभक्ता- न्विनायासलेशं कृपानौकयैव । भवाम्भोजनेत्रादिसंसेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥ २॥ सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै । क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥ ३॥ नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरन्त्यै । स्मितेनेन्दुदर्पं च तोषं व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥ ४॥ नतालीयदारिद्र्यदुःखापहन्त्र्यै तथा भीतिभूतादिबाधाहरायै । फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥ ५॥ सुधाकुम्भमुद्राक्षमालाविराज- त्करायै कराम्भोजसम्मर्दितायै सुराणां वराणां सदा मानिनीनां मुदा सर्वदा ते नमः शारदायै ॥ ६॥ समस्तैश्च वेदैः सदा गीतकीर्त्यै निराशान्तरङ्गाम्बुजातस्थितायै । पुरारातिपद्माक्षपद्मोद्भवाद्यै- र्मुदा पूजितायै नमः शारदायै ॥ ७॥ अविद्याऽऽपदुद्धारबद्धादरायै तथा बुद्धिसम्पत्प्रदानोत्सुकायै । नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यवत्यै नमः शारदायै ॥ ८॥ var पुण्यतत्यै पदाम्भोजनम्रान्कृते भीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान्विधातुम् । सुधापूर्णकुम्भं करे किं विधत्से द्रुतं पाययित्वा यथातृप्ति वाणि ॥ ९॥ महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः । इति ख्यापनायानतानां कृपाब्धे सरोजान्यसङ्ख्यानि धत्से किमम्ब ॥ १०॥ शरच्चन्द्रनीकाशवस्त्रेण वीता कनद्भर्मयष्टेरहङ्कारभेत्त्री । किरीटं सताटङ्कमत्यन्तरम्यं वहन्ती हृदब्जे स्फुरत्वम्ब मूर्तिः ॥ ११॥ निगृह्याक्षवर्गं तपो वाणि कर्तुं न शक्नोमि यस्मादवश्याक्षवर्गः । ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥ १२॥ कवित्वं पवित्वं द्विषच्छैलभेदे रवित्वं नतस्वान्तहृद्‍ध्वान्तभेदे । शिवत्वं च तत्त्वप्रबोधे ममाम्ब त्वदङ्घ्र्यब्जसेवापटुत्वं च देहि ॥ १३॥ विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् । यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रं मदम्बाम् ॥ १४॥ पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ श‍ृङ्गपूर्वे प्रतिष्ठाप्य चक्रे । समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रं मदम्बाम् ॥ १५॥ भवाम्भोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् । भवद्भव्यभूताघविध्वंसदक्षां भजे शारदाम्बामजस्रं मदम्बाम् ॥ १६॥ वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि । इति त्वं गिरां देवि मा ब्रूहि यस्मा- दघारण्यदावानलेति प्रसिद्धा ॥ १७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशारदाभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।