अक्षर आकार:

शारदाषट्कस्तोत्रम्

shAradAShaTkastotram

शारदाषट्कस्तोत्रम्

श्रीगणेशाय नमः ॥ वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभूश्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम् । तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥ १॥ यः कश्चिद्बुद्धिहीनोऽन्यविदितनमनध्यानपूजाविधानः कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य । चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥ २॥ सेवापूजानमनविधयः सन्तु दूरे नितान्तं कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब । मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा लक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥ ३॥ दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोकान् दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य तद्वत्सुदूरम् । कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोवत् सौख्यं चायुर्यथाब्जं विकसति वचसां देवि श‍ृङ्गाद्रिवासे ॥ ४॥ त्वत्पादाबुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनः स्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम् । कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनैर्दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम् ॥ ५॥ त्वत्पादाम्बुरुहं हृदाख्यसरसि स्याद्रूढमूलं यदा वक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला । कीर्तिर्यास्यति दिक्तटानपि नृपैः सम्पूजिता स्यात्तदा वादे सर्वनयेष्वपि प्रतिभटान्दूरे करोत्येव हि ॥ ६॥ इति श्रीजगद्गुरुनृसिंहभारतीस्वामिविरचितं शारदाषट्कस्तोत्रं सम्पूर्णम् ।