अक्षर आकार:

शान्तिप्रार्थना

ShAnti Prarthana A Prayer for Peace

शान्तिप्रार्थना

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम ॥ १॥ स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥ २॥ मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् । देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥ ३॥ जनिविपरीतक्रमतो बुद्‍ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥ ४॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन । पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥ ५॥ त्वमहमभिमानविहीनो मोदितनानाजनाचारः । बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥ ६॥ अवधूतकर्मजालो जडबधिरान्धोपमाचारः । आत्मारामो यतवागकुतश्चनवसतिरासीय ॥ ७॥ चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया । निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥ ८॥ सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा । अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥ ९॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥ १०॥ त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि । तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥ ११॥ इति शान्तिप्रार्थना समाप्ता ।