अक्षर आकार:

शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनामस्तोत्र

shAkinIsadAshivastavanama~NgalAShTottarasahasranAmastotra

शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनामस्तोत्र

श्रीगणेशाय नमः । श्रीआनन्दभैरवी उवाच । कैलासशिखरारूढ पञ्चवक्त्र त्रिलोचन । अभेद्यभेदकप्राणवल्लभ श्रीसदाशिव ॥ १ ॥ भवप्राणप्ररक्षाय कालकूटहराय च । प्रत्यङ्गिरापादुकाय दान्तं शब्दमयं प्रियम् ॥ २ ॥ इच्छामि रक्षणार्थाय भक्तानां योगिनां सदाम् । अवश्यं कथयाम्यत्र सर्वमङ्गललक्षणम् ॥ ३ ॥ अष्टोत्तरसहस्राख्यं सदाशिवसमन्वितम् । महाप्रभावजननं दमनं दुष्टचेतसाम् ॥ ४ ॥ सर्वरक्षाकरं लोके कण्ठपद्मप्रसिद्धये । अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥ ५ ॥ योगसिद्धिकरं साक्षाद् अमृतानन्दकारकम् । विषज्वालादिहरणं मन्त्रसिद्धिकरं परम् ॥ ६ ॥ नाम्नां स्मरणमात्रेण योगिनां वल्लभो भवेत् । सदाशिवयुतां देवीं सम्पूज्य संस्मरेद् यदि ॥ ७ ॥ मासान्ते सिद्धिमाप्नोति खेचरीमेलनं भवेत् । आकाशगामिनीसिद्धिः पठित्वा लभ्यते ध्रुवम् ॥ ८ ॥ धनं रत्नं क्रियासिद्धिं विभूतिसिद्धिमां लभेत् । पठनाद् धारणाद्योगी महादेवः सदाशिवः ॥ ९ ॥ विष्णुश्चक्रधरः साक्षाद् ब्रह्मा नित्यं तपोधनः । योगिनः सर्वदेवाश्च मुनयश्चापि योगिनः ॥ १० ॥ सिद्धाः सर्वे सञ्चरन्ति धृत्वा च पठनाद् यतः । ये ये पठन्ति नित्यं तु ते सिद्धा विष्णुसम्भवाः ॥ ११ ॥ किमन्यत् कथनेनापि भुक्तिं मुक्तिं क्षणाल्लभेत् ॥ १२ ॥ अस्य श्रीभुवनमङ्गलमहास्तोत्राष्टोत्तरसहस्रनाम्नः , श्रीसदाशिवऋषिः , गायत्रीच्छन्दः , श्रीसदाशिवशाकिनीदेवता , पुरुषार्थाष्टसिद्धिसमययोगसमृद्धये विनियोगः । ॐ शाकिनी पीतवस्त्रा सदाशिव उमापतिः । शाकम्भरी महादेवी भवानी भुवनप्रियः ॥ १३ ॥ योगिनी योगधर्मात्मा योगात्मा श्रीसदाशिवः । युगाद्या युगधर्मा च योगविद्या सुयोगिराट् ॥ १४ ॥ योगिनी योगजेताख्यः सुयोगा योगशङ्करः । योगप्रिया योगविद्वान् योगदा योगषड्भुविः ॥ १५ ॥ त्रियोगा जगदीशात्मा जापिका जपसिद्धिदः । यत्नी यत्नप्रियानन्दो विधिज्ञा वेदसारवित् ॥ १६ ॥ सुप्रतिष्ठा शुभकरो मदिरा मदनप्रियः । मधुविद्या माधवीशः क्षितिः क्षोभविनाशनः ॥ १७ ॥ वीतिज्ञा मन्मथघ्नश्च चमरी चारुलोचनः । एकान्तरा कल्पतरुः क्षमाबुद्धो रमासवः ॥ १८ ॥ वसुन्धरा वामदेवः श्रीविद्या मन्दरस्थितः । अकलङ्का निरातङ्कः उतङ्का शङ्कराश्रयः ॥ १९ ॥ निराकारा निर्विकल्पो रसदा रसिकाश्रयः । रामा रामननाथश्च लक्ष्मी नीलेषुलोचनः ॥ २० ॥ विद्याधरी धरानन्दः कनका काञ्चनाङ्गधृक् । शुभा शुभकरोन्मत्तः प्रचण्डा चण्डविक्रमः ॥ २१ ॥ सुशीला देवजनकः काकिनी कमलाननः । कज्जलाभा कृष्णदेहः शूलिनी खड्गचर्मधृक् ॥ २२ ॥ गतिग्राह्यः प्रभागौरः क्षमा क्षुब्धः शिवा शिवः । जवा यतिः परा हरिर्हराहरोऽक्षराक्षरः ॥ २३ ॥ सनातनी सनातनः श्मशानवासिनीपतिः । जयाक्षयो धराचरः समागतिः प्रमापतिः ॥ २४ ॥ कुलाकुलो मलाननो वलीवला मलामलः । प्रभाधरः परापरः सरासरः कराकरः ॥ २५ ॥ मयामयः पयापयः पलापलो दयादयः । भयाभयो जयाजयो गयागयः फलान्वयः ॥ २६ ॥ समागमो धमाधमो रमारमो वमावमः । वराङ्गणा धराधरः प्रभाकरो भ्रमाभ्रमः ॥ २७ ॥ सती सुखी सुलक्षणा कृपाकरो दयानिधिः । धरापतिः प्रियापतिवीरागिणी मनोन्मनः ॥ २८ ॥ प्रधाविनी सदाचलः प्रचञ्चलातिचञ्चलः । कटुप्रिया महाकटुः पटुप्रिया महापटुः ॥ २९ ॥ धनावली गणागणी खराखरः फणिः क्षणः । प्रियान्विता शिरोमणिस्तु शाकिनी सदाशिवः ॥ ३० ॥ रुणारुणो घनाघनो हयी हयो लयी लयः । सुदन्तरा सुदागमः खलापहा महाशयः ॥ ३१ ॥ चलत्कुचा जवावृतो घनान्तरा स्वरान्तकः । प्रचण्डघर्घरध्वनिः प्रिया प्रतापवह्निगः ॥ ३२ ॥ प्रशान्तिरुन्दुरुस्थिता महेश्वरी महेश्वरः । महाशिवाविनी घनी रणेश्वरी रणेश्वरः ॥ ३३ ॥ प्रतापिनी प्रतापनः प्रमाणिका प्रमाणवित् । विशुद्धवासिनी मुनिविशुद्धविन्मधूत्तमा ॥ ३४ ॥ तिलोत्तमा महोत्तमः सदामया दयामयः । विकारतारिणी तरुः सुरासुरोऽमरागुरुः ॥ ३५ ॥ प्रकाशिका प्रकाशकः प्रचण्डिका विभाण्डकः । त्रिशूलिनी गदाधरः प्रवालिका महाबलः ॥ ३६ ॥ क्रियावती जरापतिः प्रभाम्बरा दिगम्बरः । कुलाम्बरा मृगाम्बरा निरन्तरा जरान्तरः ॥ ३७ ॥ श्मशाननिलया शम्भुर्भवानी भीमलोचनः । कृतान्तहारिणीकान्तः कुपिता कामनाशनः ॥ ३८ ॥ चतुर्भुजा पद्मनेत्रो दशहस्ता महागुरुः । दशानना दशग्रीवः क्षिप्ताक्षी क्षेपनप्रियः ॥ ३९ ॥ वाराणसी पीठवासी काशी विश्वगुरुप्रियः । कपालिनी महाकालः कालिका कलिपावनः ॥ ४० ॥ रन्ध्रवर्त्मस्थिता वाग्मी रती रामगुरुप्रभुः । सुलक्ष्मीः प्रान्तरस्थश्च योगिकन्या कृतान्तकः ॥ ४१ ॥ सुरान्तका पुण्यदाता तारिणी तरुणप्रियः । महाभयतरा तारास्तारिका तारकप्रभुः ॥ ४२ ॥ तारकब्रह्मजननी महादृप्तः भवाग्रजः । लिङ्गगम्या लिङ्गरूपी चण्डिका वृषवाहनः ॥ ४३ ॥ रुद्राणी रुद्रदेवश्च कामजा काममन्थनः । विजातीया जातितातो विधात्री धातृपोषकः ॥ ४४ ॥ निराकारा महाकाशः सुप्रविद्या विभावसुः । वासुकी पतितत्राता त्रिवेणी तत्त्वदर्शकः ॥ ४५ ॥ पताका पद्मवासी च त्रिवार्ता कीर्तिवर्धनः । धरणी धारणाव्याप्तो विमलानन्दवर्धनः ॥ ४६ ॥ विप्रचित्ता कुण्डकारी विरजा कालकम्पनः । सूक्ष्माधारा अतिज्ञानी मन्त्रसिद्धिः प्रमाणगः ॥ ४७ ॥ वाच्या वारणतुण्डश्च कमला कृष्णसेवकः । दुन्दुभिस्था वाद्यभाण्डो नीलाङ्गी वारणाश्रयः ॥ ४८ ॥ वसन्ताद्या शीतरश्मिः प्रमाद्या शक्तिवल्लभः । खड्गना चक्रकुन्ताढ्यः शिशिराल्पधनप्रियः ॥ ४९ ॥ दुर्वाच्या मन्त्रनिलयः खण्डकाली कुलाश्रयः । वानरी हस्तिहाराद्यः प्रणया लिङ्गपूजकः ॥ ५० ॥ मानुषी मनुरूपश्च नीलवर्णा विधुप्रभः । अर्धश्चन्द्रधरा कालः कमला दीर्घकेशधृक् ॥ ५१ ॥ दीर्घकेशी विश्वकेशी त्रिवर्गा खण्डनिर्णयः । गृहिणी ग्रहहर्ता च ग्रहपीडा ग्रहक्षयः ॥ ५२ ॥ पुष्पगन्धा वारिचरः क्रोधादेवी दिवाकरः । अञ्जना क्रूरहर्ता च केवला कातरप्रियः ॥ ५३ ॥ पद्यामयी पापहर्ता विद्याद्या शैलमर्दकः । कृष्णजिह्वा रक्तमुखो भुवनेशी परात्परः ॥ ५४ ॥ वदरी मूलसम्पर्कः क्षेत्रपाला बलानलः । पितृभूमिस्थिताचार्यो विषया बादरायणिः ॥ ५५ ॥ पुरोगमा पुरोगामी वीरगा रिपुनाशकः । महामाया महान्मायो वरदः कामदान्तकः ॥ ५६ ॥ पशुलक्ष्मीः पशुपतिः पञ्चशक्तिः क्षपान्तकः । व्यापिका विजयाच्छन्नो विजातीया वराननः ॥ ५७ ॥ कटुमूतीः शाकमूतीस्त्रिपुरा पद्मगर्भजः । अजाब्या जारकः प्रक्ष्या वातुलः क्षेत्रबान्धवा ॥ ५८ ॥ अनन्तानन्तरूपस्थो लावण्यस्था प्रसञ्चयः । योगज्ञो ज्ञानचक्रेशो बभ्रमा भ्रमणस्थितः ॥ ५९ ॥ शिशुपाला भूतनाशो भूतकृत्या कुटुम्बपः । तृप्ताश्वत्थो वरारोहा वटुकः प्रोटिकावशः ॥ ६० ॥ श्रद्धा श्रद्धान्वितः पुष्टिः पुष्टो रुष्टाष्टमाधवा । मिलिता मेलनः पृथ्वी तत्त्वज्ञानी चारुप्रिया ॥ ६१ ॥ अलब्धा भयहन्त्या दशनः प्राप्तमानसा । जीवनी परमानन्दो विद्याढ्या धर्मकर्मजः ॥ ६२ ॥ अपवादरताकाङ्क्षी विल्वानाभद्रकम्बलः । शिविवाराहनोन्मत्तो विशालाक्षी परन्तपः ॥ ६३ ॥ गोपनीया सुगोप्ता च पार्वती परमेश्वरः । श्रीमातङ्गी त्रिपीठस्थो विकारी ध्याननिर्मलः ॥ ६४ ॥ चातुरी चतुरानन्दः पुत्रिणी सुतवत्सलः । वामनी विषयानन्दः किङ्करी क्रोधजीवनः ॥ ६५ ॥ चन्द्रानना प्रियानन्दः कुशला केतकीप्रियः । प्रचला तारकज्ञानी त्रिकर्मा नर्मदापतिः ॥ ६६ ॥ कपाटस्था कलापस्थो विद्याज्ञा वर्धमानगः । त्रिकूटा त्रिविधानन्दो नन्दना नन्दनप्रियः ॥ ६७ ॥ विचिकित्सा समाप्ताङ्गो मन्त्रज्ञा मनुवर्धनः । मन्निका चाम्बिकानाथो विवाशी वंशवर्धनः ॥ ६८ ॥ वज्रजिह्वा वज्रदन्तो विक्रिया क्षेत्रपालनः । विकारणी पार्वतीशः प्रियाङ्गी पञ्चचामरः ॥ ६९ ॥ आंशिका वामदेवाद्या विमायाढ्या परापरः । पायाङ्गी परमैश्वर्या दाता भोक्त्री दिवाकरः ॥ ७० ॥ कामदात्री विचित्राक्षो रिपुरक्षा क्षपान्तकृत् । घोरमुखी घर्घराख्यो विलज्वा ज्वालिनीपतिः ॥ ७१ ॥ ज्वालामुखी धर्मकर्ता श्रीकर्त्री कारणात्मकः । मुण्डाली पञ्चचूडाश्च त्रिशावर्णा स्थिताग्रजः ॥ ७२ ॥ विरूपाक्षी बृहद्गर्भो राकिनी श्रीपितामहः । वैष्णवी विष्णुभक्तश्च डाकिनी डिण्डिमप्रियः ॥ ७३ ॥ रतिविद्या रामनाथो राधिका विष्णुलक्षणः । चतुर्भुजा वेदहस्तो लाकिनी मीनकुन्तलः ॥ ७४ ॥ मूर्धजा लाङ्गलीदेवः स्थविरा जीर्णविग्रहः । लाकिनीशा लाकिनीशः प्रियाख्या चारुवाहनः ॥ ७५ ॥ जटिला त्रिजटाधारी चतुराङ्गी चराचरः । त्रिश्रोता पार्वंतीनाथो भुवनेशी नरेश्वरः ॥ ७६ ॥ पिनाकिनी पिनाकी च चन्द्रचूडा विचारवित् । जाड्यहन्त्री जडात्मा च जिह्वायुक्तो जरामरः ॥ ७७ ॥ अनाहताख्या राजेन्द्रः काकिनी सात्त्विकस्थितः । मरुन्मूर्ति पद्महस्तो विशुद्धा शुद्धवाहनः ॥ ७८ ॥ वृषली वृषपृष्ठस्थो विभोगा भोगवर्धनः । यौवनस्था युवासाक्षी लोकाद्या लोकसाक्षिणी ॥ ७९ ॥ बगला चन्द्रचूडाख्यो भैरवी मत्तभैरवः । क्रोधाधिपा वज्रधारी इन्द्राणी वह्निवल्लभः ॥ ८० ॥ निर्विकारा सूत्रधारी मत्तपाना दिवाश्रयः । शब्दगर्भा शब्दमयो वासवा वासवानुजः ॥ ८१ ॥ दिक्पाला ग्रहनाथश्च ईशानी नरवाहनः । यक्षिणीशा भूतिनीशो विभूतिर्भूतिवर्धनः ॥ ८२ ॥ जयावती कालकारी कल्क्यविद्या विधानवित् । लज्जातीता लक्षणाङ्गो विषपायी मदाश्रयः ॥ ८३ ॥ विदेशिनी विदेशस्थोऽपापा पापवर्जितः । अतिक्षोभा कलातीतो निरिन्द्रियगणोदया ॥ ८४ ॥ वाचालो वचनग्रन्थिमन्दरो वेदमन्दिरा । पञ्चमः पञ्चमीदुर्गो दुर्गा दुर्गतिनाशनः ॥ ८५ ॥ दुर्गन्धा गन्धराजश्च सुगन्धा गन्धचालनः । चार्वङ्गी चर्वणप्रीतो विशङ्का मरलारवित् ॥ ८६ ॥ अतिथिस्था स्थावराद्या जपस्था जपमालिनी । वसुन्धरसुता तार्क्षी तार्कीकः प्राणतार्कीकः ॥ ८७ ॥ तालवृक्षावृतोन्नासा तालजाया जटाधरः । जटिलेशी जटाधारी सप्तमीशः प्रसप्तमी ॥ ८८ ॥ अष्टमीवेशकृत् काली सर्वः सर्वेश्वरीश्वरः । शत्रुहन्त्री नित्यमन्त्री तरुणी तारकाश्रयः ॥ ८९ ॥ धर्मगुप्तिः सारगुप्तो मनोयोगा विषापहः । वज्रावीरः सुरासौरी चन्द्रिका चन्द्रशेखरः ॥ ९० ॥ विटपीन्द्रा वटस्थानी भद्रपालः कुलेश्वरः । चातकाद्या चन्द्रदेहः प्रियाभार्या मनोयवः ॥ ९१ ॥ तीर्थपुण्या तीर्थयोगी जलजा जलशायकः । भूतेश्वरप्रियाभूतो भगमाला भगाननः ॥ ९२ ॥ भगिनी भगवान् भोग्या भवती भीमलोचनः । भृगुपुत्री भार्गवेशः प्रलयालयकारणः ॥ ९३ ॥ रुद्राणी रुद्रगणपो रौद्राक्षी क्षीणवाहनः । कुम्भान्तका निकुम्भारिः कुम्भान्ती कुम्भिनीरगः ॥ ९४ ॥ कूष्माण्डी धनरत्नाढ्यो महोग्राग्राहकः शुभा । शिविरस्था शिवानन्दः शवासनकृतासनी ॥ ९५ ॥ प्रशंसा समनः प्राज्ञा विभाव्या भव्यलोचनः । कुरुविद्या कौरवंशः कुलकन्या मृणालधृक् ॥ ९६ ॥ द्विदलस्था परानन्दो नन्दिसेव्या बृहन्नला । व्याससेव्या व्यासपूज्यो धरणी धीरलोचनः ॥ ९७ ॥ त्रिविधारण्या तुलाकोटिः कार्पासा खार्पराङ्गधृक् । वशिष्ठाराधिताविष्टो वशगा वशजीवनः ॥ ९८ ॥ खड्गहस्ता खड्गधारी शूलहस्ता विभाकरः । अतुला तुलनाहीनो विविधा ध्याननिर्णयः ॥ ९९ ॥ अप्रकाश्या विशोध्यश्च चामुण्डा चण्डवाहनः । गिरिजा गायनोन्मत्तो मलामाली चलाधमः ॥ १०० ॥ पिङ्गदेहा पिङ्गकेशोऽसमर्था शीलवाहनः । गारुडी गरुडानन्दो विशोका वंशवर्धनः ॥ १०१ ॥ वेणीन्द्रा चातकप्रायो विद्याद्या दोषमर्दकः । अट्टहासा अट्टहासो मधुभक्षा मधुव्रतः ॥ १०२ ॥ मधुरानन्दसम्पन्ना माधवो मधुनाशिका । माकरी मकरप्रेमो माघस्था मघवाहनः ॥ १०३ ॥ विशाखा सुसखा सूक्ष्मा ज्येष्ठो ज्येष्ठजनप्रिया । आषाढनिलयाषाढो मिथिला मैथिलीश्वरः ॥ १०४ ॥ शीतशैत्यगतो वाणी विमलालक्षणेश्वरः । अकार्यकार्यजनको भद्रा भाद्रपदीयकः ॥ १०५ ॥ प्रवरा वरहंसाख्यः पवशोभा पुराणवित् । श्रावणी हरिनाथश्च श्रवणा श्रवणाङ्कुरः ॥ १०६ ॥ सुकर्त्री साधनाध्यक्षो विशोध्या शुद्धभावनः । एकशेषा शशिधरो धरान्तः स्थावराधरः ॥ १०७ ॥ धर्मपुत्री धर्ममात्रो विजया जयदायकः । दासरक्षादि विदशकलापो विधवापतिः ॥ १०८ ॥ विधवाधवलो धूर्तः धूर्ताढ्यो धूर्तपालिका । शङ्करः कामगामी च देवला देवमायिका ॥ १०९ ॥ विनाशो मन्दराच्छन्ना मन्दरस्थो महाद्वया । अतिपुत्री त्रिमुण्डी च मुण्डमाला त्रिचण्डिका ॥ ११० ॥ कर्कटीशः कोटरश्च सिंहिका सिंहवाहनः । नारसिंही नृसिंहश्च नर्मदा जाह्नवीपतिः ॥ १११ ॥ त्रिविधस्त्री त्रिसर्गास्त्रो दिगम्बरो दिगम्बरी । मुञ्चानो मञ्चभेदी च मालञ्चा चञ्चलाग्रजः ॥ ११२ ॥ कटुतुङ्गी विकाशात्मा ऋद्धिस्पष्टाक्षरोऽन्तरा । विरिञ्चः प्रभवानन्दो नन्दिनी मन्दराद्रिधृक् ॥ ११३ ॥ कालिकाभा काञ्चनाभो मदिराद्या मदोदयः । द्रविडस्था दाडिमस्थो मज्जातीता मरुद्गतिः ॥ ११४ ॥ क्षान्तिप्रज्ञो विधिप्रज्ञा वीतिज्ञोत्सुकनिश्चया । अभावो मलिनाकारा कारागारा विचारहा ॥ ११५ ॥ शब्दः कटाहभेदात्मा शिशुलोकप्रपालिका । अतिविस्तारवदनो विभवानन्दमानसा ॥ ११६ ॥ आकाशवसनोन्मादी मेपुरा मांसचर्वणः । अतिकान्ता प्रशान्तात्मा नित्यगुह्या गभीरगः ॥ ११७ ॥ त्रिगम्भीरा तत्त्ववासी राक्षसी पूतनाक्षरः । अभोगगणिका हस्ती गणेशजननीश्वरः ॥ ११८ ॥ कुण्डपालककर्ता च त्रिरूण्डा रुण्डभालधृक् । अतिशक्ता विशक्तात्मा देव्याङ्गी नन्दनाश्रयः ॥ ११९ ॥ भावनीया भ्रान्तिहरः कापिलाभा मनोहरः । आर्यादेवी नीलवर्णा सायको बलवीर्यदा ॥ १२० ॥ सुखदो मोक्षदाताऽतो जननी वाञ्छितप्रदः । चातिरूपा विरूपस्थो वाच्या वाच्यविवर्जितः ॥ १२१ ॥ महालिङ्गसमुत्पन्ना काकभेरी नदस्थितः । आत्मारामकलाकायः सिद्धिदाता गणेश्वरी ॥ १२२ ॥ कल्पद्रुमः कल्पलता कुलवृक्षः कुलद्रुमा । सुमना श्रीगुरुमयी गुरुमन्त्रप्रदायकः ॥ १२३ ॥ अनन्तशयनाऽनन्तो जलेशी जह्नजेश्वरः । गङ्गा गङ्गाधरः श्रीदा भास्करेशो महाबला ॥ १२४ ॥ गुप्ताक्षरो विधिरता विधानपुरुषेश्वरः । सिद्धकलङ्का कुण्डाली वाग्देवः पञ्चदेवता ॥ १२५ ॥ अल्पातीता मनोहारी त्रिविधा तत्त्वलोचना । अमायापतिर्भूभ्रान्तिः पाञ्चजन्यधरोऽग्रजा ॥ १२६ ॥ अतितप्तः कामतप्ता मायामोहविवर्जितः । आर्या पुत्रीश्वरः स्थाणुः कृशानुस्था जलाप्लुतः ॥ १२७ ॥ वारुणी मदिरामत्तो मांसप्रेमदिगम्बरा । अन्तरस्थो देहसिद्धा कालानलसुराद्रिपः ॥ १२८ ॥ आकाशवाहिनी देवः काकिनीशो दिगम्बरी । काकचञ्चुपुटमधुहरो गगनमाब्धिपा ॥ १२९ ॥ मुद्राहारी महामुद्रा मीनपो मीनभक्षिणी । शाकिनी शिवनाथेशः काकोर्ध्वेशी सदाशिवः ॥ १३० ॥ कमला कण्ठकमलः स्थायुकः प्रेमनायिका । मृणालमालाधारी च मृणालमालामालिनी ॥ १३१ ॥ अनादिनिधना तारा दुर्गतारा निरक्षरा । सर्वाक्षरा सर्ववर्णा सर्वमन्त्राक्षमालिका ॥ १३२ ॥ आनन्दभैरवो नीलकण्ठो ब्रह्माण्डमण्डितः । शिवो विश्वेश्वरोऽनन्तः सर्वातीतो निरञ्जनः ॥ १३३ ॥ इति ते कथितं नाथ त्रैलोक्यसारमङ्गलम् । भुवनमङ्गलं नाम महापातकनाशनम् ॥ १३४ ॥ अस्य प्रपठनेऽपि च यत्फलं लभते नरः । तत्सर्वं कथितुं नालं कोटिवर्षशतैरपि ॥ १३५ ॥ तथापि तव यत्नेन फलं श‍ृणु दयार्णव । राजद्वारे नदीतीरे सङ्ग्रामे विजनेऽनले ॥ १३६ ॥ शून्यागारे निर्जने वा घोरान्धकाररात्रिके । चतुष्टये श्मशाने वा पठित्वा षोडशे दले ॥ १३७ ॥ रक्ताम्भोजैः पूजयित्वा मनसा कामचिन्तयन् । घृताक्तैर्जुहुयान्नित्यं नाम प्रत्येकमुच्चरन् ॥ १३८ ॥ मूलमन्त्रेण पुटितमाज्यं वह्नौ समर्पयेत् । अन्तरे स्वसुखे होमः सर्वसिद्धिसुखप्रदः ॥ १३९ ॥ सद्योमधुयुतैर्मांसैः सुसुखे मन्त्रमुच्चरन् । प्रत्येकं नामपुटितं हुत्वा पुनर्मुखाम्बुजे ॥ १४० ॥ कुण्डलीरसजिह्वायां जीवन्मुक्तो भवेन्नरः । धृत्वा वापि पठित्वा वा स्तुत्वा वा विधिना प्रभो ॥ १४१ ॥ महारुद्रो भवेत्साक्षान्मम देहान्वितो भवेत् । योगी ज्ञानी भवेत् सिद्धः सारसङ्केतदर्शकः ॥ १४२ ॥ अपराजितः सर्वलोके किमन्यत् फलसाधनम् । धृत्वा राजत्वमाप्नोति कण्ठे पृथ्वीश्वरो भवेत् ॥ १४३ ॥ दक्षहस्ते तथा धृत्वा धनवान् गुणवान् भवेत् । अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥ १४४ ॥ हुत्वा राजेन्द्रनाथश्च महावाग्मी सदाऽभयः । सर्वेषां मथनं कृत्वा गणेशो मम कार्तीकः ॥ १४५ ॥ देवनामधिपो भूत्वा सर्वज्ञो भवति प्रभो । यथा तथा महायोगी भ्रमत्येव न संशयः ॥ १४६ ॥ प्रातःकाले पठेद् यस्तु मस्तके स्तुतिधारकः । जलस्तम्भं करोत्येव रसस्तम्भं तथैव च ॥ १४७ ॥ राज्यस्तम्भं नरस्तम्भं वीर्यस्तम्भं तथैव च विद्यास्तम्भं सुखस्तम्भं क्षेत्रस्तम्भं तथैव च ॥ १४८ ॥ राजस्तम्भं धनस्तम्भं ग्रामस्तम्भं तथैव च मध्याह्ने च पठेद् यस्तु वह्निस्तम्भं करोत्यपि ॥ १४९ ॥ कालस्तम्भं वयःस्तम्भं श्वासस्तम्भं तथैव च । रसस्तम्भं वायुस्तम्भं बाहुस्तम्भं करोत्यपि ॥ १५० ॥ सायाह्ने च पठेद् यस्तु कण्ठोदरे च धारयन् । मन्त्रस्तम्भं शिलास्तम्भं शास्त्रस्तम्भं करोत्यपि ॥ १५१ ॥ हिरण्यरजतस्तम्भं वज्रस्तम्भं तथैव च । अकालत्वादिसंस्तम्भं वातस्तम्भं करोत्यपि ॥ १५२ ॥ पारदस्तम्भनं शिल्पकल्पना ज्ञानस्तम्भनम् । आसनस्तम्भनं व्याधिस्तम्भनं बन्धनं रिपोः ॥ १५३ ॥ षट्पद्मस्तम्भनं कृत्वा योगी भवति निश्चितम् । वन्ध्या नारी लभेत् पुत्रं सुन्दरं सुमनोहरम् ॥ १५४ ॥ भ्रष्टो मनुष्यो राजेन्द्रः किमन्ये साधवो जनाः । श्रवणान्मकरे लग्ने चित्रायोगे च पर्वणि ॥ १५५ ॥ हिरण्ययोगे वायव्यां लिखित्वा माघमासके । वैशाखे राजयोगे वा रोहिण्याख्या विशेषतः ॥ १५६ ॥ श्रीमद्भुवनमङ्गलं नाम यशोदातृ भवेद् ध्रुवम् । जायन्ते राजवल्लभा अमराः खेचरा लिखनेन ॥ १५७ ॥ धर्मार्थकाममोक्षं च प्राप्नुवन्ति च पाठकाः । कीर्तिरात्मदृष्टिपातं लभते नात्र संशयः ॥ १५८ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनाम सम्पूर्णम् ॥