अक्षर आकार:

शाकिनीसदाशिवार्चनम्

Shakinisadashivarchanam

शाकिनीसदाशिवार्चनम्

अथ पञ्चषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि समुदायफलोदयम् । कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं श‍ृणु प्रभो ॥ ६५-१॥ शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम् । मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः ॥ ६५-२॥ ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् । ततो ध्यानं प्रवक्ष्यामि वीरनाथ श‍ृणु प्रभो ॥ ६५-३॥ आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे । द्वयोरभेदबुद्ध्या च कामजेता स्वयं भवेत् ॥ ६५-४॥ वन्दे नित्यां सुशीलां त्रिभुवनवरदां शाकिनीं पीतवस्त्रां वेदाद्यां वेदमातां सुखमयललितां वेदहस्तोज्ज्वलाङ्गीम् । ध्याये पीयूषधारामलघटसुधया स्निग्धदेहां हसन्तीं मायां शम्भोर्ललाटे विधुकिरणकरां श्रीसदानन्दयुक्ताम् ॥ ६५-५॥ अम्भोजास्त्रादिमुद्रासिवरदजटा धारयन्तीं करालं श्यामां पीनस्तनाढ्यां त्रिनयनकमलां प्रेतलिङ्गासनस्थाम् । सर्वाङ्गालङ्कृतां श्रीं विधुशतवदनाम्भोजशोभां वहन्तीं शम्भोरानन्दकर्त्रीं चरमगुणपदां स्थूलसूक्ष्मस्वरूपाम् ॥ ६५-६॥ एवं ध्यायेन्महायोगी स्थूलसूक्ष्मस्वरूपिणीम् । अभेद्यभेदकरणीं शङ्कर प्रेमवल्लभ ॥ ६५-७॥ या विद्या वाग्भवाढ्या हरिवधुकमला केवले निष्फलन्ते मायालक्ष्मीस्त्रिकूटं शशिमुखितदधः शाकिनी क्षेत्रपालम् । वक्षद्वन्द्वं त्रिकूटं वधुमधरमिवासिद्धिमिष्टां विधेहि स्वाहान्तोऽयं महेशत्रिभुवनभविकाह्लादहेतोः प्रकाशः ॥ ६५-८॥ प्रणवं पूर्वमुद्धृत्य वाग्भवं तदनन्तरम् । शाकिनी त्वं तदन्ते तु मम दोषान् विनाशय ॥ ६५-९॥ युगलं वह्निकान्तां च मन्त्रार्थाः सारदाः स्मृताः । कामराजं समुद्धृत्य हिरण्याक्षि सनातनि ॥ ६५-१०॥ शाकिन्यन्ते महामाये मायावह्निश्रिया युतम् । एषा मन्त्रात्मिका विद्या कण्ठाम्भोजप्रकाशिनी ॥ ६५-११॥ शाकम्भरी महाविद्या तस्य वामे विभाति च । तस्य मन्त्रं प्रवक्ष्यामि ज्ञात्वैव योगवित् प्रभुः ॥ ६५-१२॥ महामन्त्रस्य माहात्म्यं कथितुं नैव शक्यते । भावमात्रेण सिद्धिः स्यात् किं पुनर्मोक्षसाधनम् ॥ ६५-१३॥ विद्यां कामकलां विचित्रवसनां पद्मासनस्थां शिवां कामाख्यां सकलान् स्वरान् त्रिजगतां शाकैर्महायोगिनी । नित्यं या परिपाल्यते भगवतीं शाकम्भरीं तां भजे सा योगाधिप-रक्षका निशि दिशि श्रीकण्ठपद्मे प्रभा ॥ ६५-१४॥ अद्यापि प्रियकण्ठपद्मनिकरे सम्भाति शाकम्भरी विद्यावाक्कमलायुतं स्मितमुखि प्रान्ते च शाकम्भरि । वह्निर्वारुणवायुबीजमनलद्वन्द्वं हि वक्षद्वयं वह्निप्रेमकलान्वितो मनुवरः साक्षाज्जगत्क्षोभकृत् ॥ ६५-१५॥ शाकम्भरीं महामायां पूजयेद् द्वारदेवताम् । तदन्ते सर्वदेवाश्च शक्रादीन् परिपूजयेत् ॥ ६५-१६॥ ध्यात्वा च शाकिनीं देवीं शाकम्भर्याश्च दक्षिणे । पूजयेत् परया भक्त्या पूर्वोक्तविधिना प्रभो ॥ ६५-१७॥ शाकम्भरीं त्रिनयनां सूर्येन्दुवह्नियोजिताम् । रक्तपद्मस्थितां श्यामां वेदबाहुश्रियोज्ज्वलाम् ॥ ६५-१८॥ वराभयकरां खड्गकपालकमलान्विताम् । नानालङ्कारशोभाङ्गी मुक्तकुन्तलभूषिताम् ॥ ६५-१९॥ प्रसन्नवदनाम्भोजस्मितहास्यविराजिताम् । साधकाभीष्टदां नित्यां महाविद्यां भजाम्यहम् ॥ ६५-२०॥ ततो मानसपूजाञ्च ध्यानान्ते तु समाचरेत् । पुनर्ध्यानं ततः कृत्वा चित्तावाहनमाचरेत् ॥ ६५-२१॥ पाद्याद्यैः पूजयेन्नित्यं भक्त्या च योगसिद्धये । ततो जपेच्छतं वापि चाष्टोत्तरसहस्रकम् ॥ ६५-२२॥ एवं लक्षसमाप्ते तु कण्ठे देवीं प्रपश्यति । होमादीन् क्रमशः कुर्याद् ब्राह्मणानां तु भोजनम् ॥ ६५-२३॥ तदन्ते शाकिनीपूजा प्रथमे वापि कारयेत् । तत्प्रकारं श‍ृणु प्राणवल्लभे कामसुन्दरि ॥ ६५-२४॥ आदौ जलं शोधयित्वा हस्तौ पादौ च विग्रहम् । क्षालयित्वा द्विराचम्य मूलमन्त्रेण साधकः ॥ ६५-२५॥ शिखाबन्धनमाकृत्य चासनं परिशोधयेत् । ततोऽर्घ्यस्थापनं कृत्वा पीठं निर्माय यत्नतः ॥ ६५-२६॥ पीठचक्रं शोधयित्वा पीठपूजां समाचरेत् । ततो ध्यानं भूतशुद्धिं न्यासजालं समाचरेत् ॥ ६५-२७॥ पुनः प्राणायामयुग्मं कृत्वा देहं दृढं नयेत् । ततो ध्यानं मानसार्चा मुद्रादर्शनमेव च ॥ ६५-२८॥ ततः पाद्यं तथार्घ्यं तु चारुशङ्खेन कारयेत् । आचमनीयं ततः स्नानं पुनराचमनं तथा ॥ ६५-२९॥ गन्धं पुष्पाणि सर्वाणि बिल्वपत्राणि दापयेत् । निजावरणदेवांश्च पूजयित्वा क्रमेण तु ॥ ६५-३०॥ धूपदीपौ निवेद्याथ नैवेद्यं पानकं ततः । पुनराचमनं दत्वा बलिद्रव्याणि दापयेत् ॥ ६५-३१॥ बलिं दत्वा जपेन्मन्त्रं सहस्रं वा शताष्टकम् । दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् ॥ ६५-३२॥ जपं समर्पयेद् विद्वान् गुह्यातिगुह्यमन्त्रकैः । प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम् ॥ ६५-३३॥ स्तोत्रञ्च कवचं नित्यं सहस्रनाममङ्गलम् । पठेद् भक्त्या कण्ठपद्मे कायकल्पनकृन्नरः ॥ ६५-३४॥ एवं विधिविधानेन पूजयित्वा सदाशिवम् । अस्मिञ्छास्त्रे क्रिया गुप्ता गुप्तनारी प्रपूजनम् ॥ ६५-३५॥ अथवा मनसा सर्वं पूजायागजपं चरेत् । यथा देव्यास्तथा शम्भोर्जपयागः समीरितः ॥ ६५-३६॥ एवं क्रमेण पूज्याश्च बाह्यस्था मुनयः क्रमात् । पूज्या वर्णकला नाथ तद्बाह्यस्थानं प्रपूजयेत् ॥ ६५-३७॥ एवं हि मासकार्येण वरं सिद्धिं समाप्नुयात् ॥ ६५-३८॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे शाकिनीसदाशिवार्चनं नाम पञ्चषष्टितमः पटलः ॥ ६५॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.