अक्षर आकार:

श्रीशाकम्भरी तथा वनशङ्करीसहस्रनामस्तोत्रम्

Shri shAkambharI tathA vanasha~NkarI Sahasranamastotram

श्रीशाकम्भरी तथा वनशङ्करीसहस्रनामस्तोत्रम्

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा । श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ शूलं पाशकपालचापकुलिशान्बाणान्सृणिं खेटकां शङ्कं चक्रगदाहिखड्गमभयं खट्वाङ्गदण्डान्धराम् । वर्षाभाववशाद्धतान्मुनिगणान्शाकेन या रक्षति लोकानां जननीं महेशदयितां तां नौमि शाकम्भरीम् ॥ १॥ कैलासशिखरासीनं स्कन्दं मुनि गणान्वितम् । प्रणम्य शक्रः पप्रच्छ लोकानां हितकाम्यया ॥ २॥ शक्र उवाच - स्कन्द स्कन्द महाबाहो सर्वज्ञ शिवनन्दन । नाम्नां सहस्रमाचक्ष्व शाकम्भर्याः सुसिद्धिदम् ॥ ३॥ स्कन्द उवाच - या देवी शतवार्षिक्यामनावृष्ट्यां स्वदेहजैः । शाकैरबीभरत्सर्वानृषीन् शक्र शतं समाः ॥ ४॥ महासरस्वती सैव जाता शाकम्भरी शिवा । नाम्नां सहस्रं तस्यास्ते वक्ष्यामि श्रुणुभक्तितः ॥ ५॥ ॐ अस्य श्रीशाकम्भरीसहस्रनाममालामन्त्रस्य महादेवः ऋषिः । अनुष्टुप् छन्दः । शाकम्भरी देवता । सौः बीजं । क्लीं शक्तिः । ह्रीं कीलकं । मम श्री शाकम्भरीप्रसादसिद्ध्यर्थे तत्सहस्रनामपारायणे विनियोगः । करन्यासः ॥ ॐ सौः चामुण्डायै अङ्गुष्ठाभ्यां नमः । ॐ क्लीं शताक्ष्यै तर्जनीभ्यां नमः । ॐ ह्रीं शाकम्भर्यै मध्यमाभ्यां नमः । ॐ सौः चामुण्डायै अनामिकाभ्यां नमः । ॐ क्लीं शताक्ष्ये कनिष्ठिकाभ्यां नमः । ॐ ह्रीं शाकम्भर्यै करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ सौः क्लीं ह्रीं ॐ मन्त्रेण दिग्बन्धः । इति ॥ ॥ ध्यानम् ॥ सौवर्णसिंहासनसंस्थितां शिवां त्रिलोचना चन्द्रकलावतंसिकाम् । शूलं कपालं निजवामहस्तयोस्तदन्ययोः खड्गमभीतिमुद्रिकाम् ॥ पाण्योर्दधानां मणिभूषणाज्ज्वलां सुवाससं माल्यविलेपनाञ्चिताम् । प्रसन्नावक्त्रां परदेवता मुदा ध्यायामि भक्त्या वनशङ्करीं हृदि ॥ लमित्यादिपञ्चपूजा - ॐ सौः क्लीं ह्रीं ॐ । ॐ शाकम्भर्यै नमः । ह्रीं शाकम्भर्यै नमः । ॐ ह्रीं शाकम्भर्यै नमः । सौः क्लीं ह्रीं शाकम्भर्यै नमः । ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः । ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः ॐ । इत्येषु गुरूपदिष्टं मन्त्रं जपेत् । ॥ अथ सहस्रनामस्तोत्रम् ॥ ॐ शाकम्भरी शताक्षी च चामुण्डा रक्तदन्तिका । महाकाली महाशक्तिर्मधुकैटभनाशिनी ॥ १॥ ब्रह्मादितेजः सम्भूता महालक्ष्मीर्वरानना । अष्टादशभुजा सम्राण्महिषासुरमर्दिनी ॥ २॥ महामाया महादेवी सृष्टिस्थित्यन्तकारिणी । कान्तिः कामप्रदा काम्या कल्याणी करुणानिधिः ॥ सिंहस्थिता नारसिंही वैष्णवी विष्णुवल्लभा । भ्रामरी रक्तचामुण्डा रक्ताक्षी रक्तपायिनी ॥ ४॥ रक्तप्रिया सुरक्तोष्ठी रक्तबीजविनाशिनी । सुरक्तवसना रक्तमाल्या रक्तविभूषणा ॥ ५॥ रक्तपाणितला रक्तनखी रक्तोत्पलाङ्घ्रिका । रक्तचन्दनलिप्ताङ्गी रमणी रतिदायिनी ॥ ६॥ सुरभिः सुन्दरी बाला बगला भैरवी समित् । चन्द्रलाम्बा सुमङ्गल्या भीमा भयनिवारिणी ॥ ७॥ जागृतिः स्वप्नरूपा च सुषुप्तिसुखरूपिणी । तुर्योंन्मनी त्रिमात्रा च त्रयी त्रेता त्रिमूर्तिका ॥ ८॥ विष्णुमाया विष्णुशक्तिर्विष्णुजिह्वा विनोदिनी । छाया शान्तिः क्षमा क्षुत्तृट्तुष्टिः पुष्टिर्धृतिर्भृतिः ॥ ९॥ मतिर्मितिर्नतिर्नीतिः संयतिर्नियति कृतिः । स्फूर्तिः कीर्तिः स्तुतिर्जूतिः पूर्तिर्मूर्तिर्निजप्रदा ॥ १०॥ त्रिशूलधारिणी तीक्ष्णगदिनी खड्गधारिणी । पाशिनी त्रासिनी वामा वामदेवी वरानना ॥ ११॥ वामाक्षी वारुणीमत्ता वामोरुर्वासवस्तुता । ब्रह्मविद्या महाविद्या योगिनी योगपूजिता ॥ १२॥ त्रिकूटनिलया नित्या कल्पातीता च कल्पना । कामेश्वरी कामदात्री कामान्तककुटुम्बिनी ॥ १३॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । नानाद्रुमलताकीर्णगिरिमध्यनिवासिनी ॥ १४॥ शाकपोषितसर्वर्षिः पाकशासनपूजिता । क्लेदिनी भेदिनी भ्रान्तिर्भीतिदा भ्रान्तिनाशिनी ॥ १५॥ क्रान्तिः सङ्क्रान्तिरुत्क्रान्तिर्विक्रान्तिः क्रान्तिवर्जिता । डिण्डिमध्वनिसंहृष्टा भेरीनादविनोदिनी ॥ १६॥ सुतन्त्रीवादनरता स्वरभेदविचक्षणा । गान्धर्वशास्त्रनिपूणा नाट्यशास्त्रविशारदा ॥ १७॥ हावभावप्रमाणज्ञा चतुःषष्टिकलान्विता । पदवाक्यप्रमाणाब्धिपारीणा वादिभङ्गिनी ॥ १८॥ सर्वतन्त्रस्वतन्त्रा च मन्त्रशास्त्राब्धिपारगा । नानायन्त्र विधानज्ञा सौगतागमकोविदा ॥ १९॥ वैखानसाद्यागमज्ञा शैवागम विचक्षणा । वामदक्षिणमार्गज्ञा भैरवागमभेदवित् ॥ २०॥ पञ्चायतनतत्त्वज्ञा पञ्चाम्नायप्रपञ्चवित् । राजराजेश्वरी भट्टारिका त्रिपुरसुन्दरी ॥ २१॥ महादक्षिणकाली च मातङ्गी मद्यमांसभुक् । लुलायबलिसन्तुष्टा मेषच्छागबलिप्रिया ॥ २२॥ दीपिकाक्रीडनरता डमड्डमरुनादिनी । महाप्रदीपिकादेहलेहनाद्भुतशक्तिदा ॥ २३॥ निजावेशवदुन्मत्तभक्तोक्त फलदायिनी । उदोउदोमहाध्वान श्रवणासक्तमानसा ॥ २४॥ चौडेश्वरी चौडवाद्यप्रवादनपरायणा । कपर्दमालाभरणा कपर्दिप्राणवल्लभा ॥ २५॥ नग्रस्त्रीवीक्षणरता नग्निकोद्भिन्नयौवना । बाला बदरवक्षोजा मध्या बिल्वफलस्तनी ॥ २६॥ नारिकेलस्तनी प्रौढा प्रगल्भा च घटस्तनी । कात्यायनी नम्रकुचा प्रौढाद्भुतपराक्रमा । कदलीवनमध्यस्था कदम्बवनवासिनी ॥ २७॥ निजोपकण्ठसम्प्राप्तनदीमाहात्म्यवर्धिनी । कावेरी ताम्रपर्णी च कामाक्षी कामितार्थदा ॥ २८॥ मूकाम्बिका महाशक्तिः श्रीशैलभ्रमराम्बिका । जोगलाम्बा जगन्माता मातापुरनिवासिनी ॥ २९॥ जमदग्निप्रिया साध्वी तापसीवेषधारिणी । कार्तवीर्यमुखानेकक्षत्रविध्वंसकारिणी ॥ ३०॥ नानावतारसम्पन्ना नानाविधचरित्रकृत् । करवीरमहालक्ष्मीः कोल्हासुरविनाशिनी ॥ ३१॥ नागलिङ्गभगाङ्काढ्यमौलिः शक्रादिसंस्तुता । दुर्गमासुरसंहर्त्री दुर्गाऽनर्गलशासना ॥ ३२॥ नानाविधभयत्रात्री सुत्रामादिसुधाशना । नागपर्यंकशयना नागी नागाङ्गनार्चिता ॥ ३३॥ हाटकालङ्कृतिमती हाटकेशसभाजिता । वाग्देवतास्फूर्तिदात्री त्रातवाग्बीजजापका ॥ ३४॥ जप्या जपविधिज्ञा च जपसिद्धिप्रदायिनी । मन्त्रशक्तिर्मन्त्रविद्या सुमन्त्रा मान्त्रिकम्प्रिया ॥ ३५॥ इन्दुमण्डलपीठस्था सूर्यमण्डलपीठगा । चन्द्रशक्तिः सूर्यशक्तिर्ग्रहशक्तिर्ग्रहार्तिहा ॥ ३६॥ ग्रहपीडाहरी सौम्या शुभग्रहफलप्रदा । ज्योतिर्मण्डलसंस्थाना ग्रहताराधिदेवता ॥ ३७॥ सप्तविंशतियोगेशी बवादिकरणेश्वरी । प्रभवाद्यब्दशक्तिश्च कालचक्रप्रवर्तिनी ॥ ३८॥ सोहंमन्त्रजपाधारा ऊर्ध्वषट्चक्रदेवता । इडाख्या पिङ्गलाख्या च सुषुम्ना ब्रह्मरन्ध्रगा ॥ ३९॥ शिवशक्तिः कुण्डलिनी नाभिमण्डलनिद्रिता । योगोद्बुद्धा मुक्तिदात्री सहस्राराब्जपीठगा ॥ ४०॥ पीयूषवर्षिणी जीवशिवभेदतिनाशिनी । नाभौ परा च पश्यन्ती हृदये मध्यमा गले ॥ ४१॥ जिह्वाग्रे वैखरीवाणी पञ्चाशन्मातृकात्मिका । ओङ्काररूपिणी शब्दसूष्टिरूपाऽर्थरूपिणी ॥ ४२॥ मौनशक्तिर्मुनिध्येया मुनिमानससंस्थिता । व्यष्टिः समष्टिस्त्रिपुटी तापत्रयविनाशिनी ॥ ४३॥ गायत्री व्याहृतिः सन्ध्या सावित्री च पितृप्रसूः । नन्दा भद्रा जया रिक्ता पूर्णा विष्टिश्च वैधृतिः ॥ ४४॥ श्रुतिः स्मृतिश्च मीमांसा विद्याऽविद्या परावरा । सुमेरुश‍ृङ्गनिलया लोकालोकनिवासिनी ॥ ४५॥ मानसोत्तरगोत्रस्था पुष्करद्वीपदेवता । मन्दराद्रिकृतक्रीडा नीपोपवनवासिनी ॥ ४६॥ मणिद्वीपकृतावासा पीतवासः सुपूजिता । प्लक्षादिद्वीपगोत्रस्था तत्रत्यजनपूजिता ॥ ४७॥ सुराब्धि द्वीपनिलया सुरापानपरायण । एकपादेकहस्तैकदृगेकश्रुतिपार्श्विका ॥ ४८॥ अर्धनारीश्वरार्धाङ्गी स्यूतालोकोत्तराकृतिः । भक्तैकभक्ति संसाध्या ध्यानाधारा परार्हणा ॥ ४९॥ पञ्चकोशान्तरगता पञ्चकोशविवर्जिता । पञ्चभूतातरालस्था प्रपञ्चातीतवैभवा ॥ ५०॥ पञ्चीकृतमहाभूतनिर्मितानेकभौतिका । सर्वांतर्यामिणी शम्भुकामिनी सिंहगामिनी ॥ ५१॥ यामिनीकृतसञ्चारा शाकिन्यादिगणेश्वरी । खट्वाङ्गिनी खेटकिनी कुन्तिनी भिन्दिपालिनी ॥ ५२॥ वर्मिणी चर्मिणी चण्डी चण्डमुण्डप्रमाथिनी । अनीकिनी च ध्वजिनी मोहिन्येजत्पताकिनी ॥ ५३॥ अश्विनी गजिनी चाट्टहासिनी दैत्यनाशिनी । शुम्भघ्नी च निशुम्भघ्नी धूम्रलोचननाशिनी ॥ ५४॥ बहुशीर्षा बहुकुक्षिर्व्यादितास्याऽशितासुरा । दंष्ट्रासङ्कटसंलग्नदैत्यसास्रान्त्र मालिनी ॥ ५५॥ दैत्यासृङ्मांससन्तृप्ता क्रव्यादकृतवन्दना । लम्बकेशी प्रलम्बोष्ठी लम्बकुक्षिर्महाकटी ॥ ५६॥ लम्बस्तनी लम्बजिह्वा लम्बपाण्यङ्घ्रिजङ्घिका । लम्बोरुर्लम्बजघना कालिका कर्कशात्कृतिः ॥ ५७॥ भिन्नभेरीखररवा वारणग्रासकारिणी । प्रेतदेहपरीधाना रुण्डकुण्डलमण्डिता ॥ ५८॥ गण्डशैलस्पर्धिगण्डा शैलकन्दुकधारिणी । शिवदूती घोररूपा शिवाशतनिनादिनी ॥ ५९॥ नारायणी जगद्धात्री जगत्पात्री जगन्मयी । अल्लांम्बाक्का कामदुघाऽनल्पदा कल्पवल्लिका ॥ ६०॥ मल्लीमतल्लिका गुञ्जालङ्कृतिः शिवमोहिनी । गान्धर्वगानरसिका केकावाक्कीरपालिनी ॥ ६१॥ सिनीवाली कुहू राकाऽनुमतिः कौमुदी ककुप् । ब्रह्माण्डमण्डपस्थूणा ब्रह्माण्डगृहदेवता ॥ ६२॥ महागृहस्थमहिषी पशुपाशविमोचिनी । वीरस्थानगता वीरा वीरासनपरिग्रहा ॥ ६३॥ दीपस्थानगता दीप्ता दीपोत्सवकुतूहला । तीर्थपात्रप्रदा तीर्थकुम्भपूजनसंभ्रमा ॥ ६४॥ माहेश्वरजनप्रीता पशुलोकपराङ्मुखी । चतुःषष्टिमहातन्त्रप्रतिपाद्यागमाध्वगा ॥ ६५॥ शुद्धाचारा शुद्धपूज्या शुद्धपूजा जनाश्रिता । अष्टादशमहापीठा श्रीचक्रपरदेवता ॥ ६६॥ योगिनीपूजनप्रीता योगिनीचक्रवन्दिता । रणत्काञ्चीक्षुद्रघण्टा घण्टाध्वनिविनोदिनी ॥ ६७॥ तौर्यत्रिककलाभिज्ञा मनोज्ञा मञ्जुभाषिणी । शिववामाङ्कलसिता सुस्मिता ललितालसा ॥ ६८॥ लावण्यभूमिस्तल्लेशनिर्मितामरसुन्दरी । श्रीर्धीर्भीर्ह्रीर्नतिर्जातिरीज्याज्या पूज्यपादुका ॥ ६९॥ सुरस्रवन्ती यमुना तथा गुप्तसरस्वती । गोमती गण्डकी तापी शतद्रुश्च विपाशिका ॥ ७०॥ सरयूर्नर्मदा गोदा पयोष्णी च पुनः पुना । भीमा कृष्णा तुङ्गभद्रा नानातीर्थस्वरूपिणी ॥ ७१॥ द्वारका मधुरा माया काश्ययोध्या त्ववन्तिका । गया काञ्ची विशाला च मुक्तिक्षेत्रस्वरूपिणी ॥ ७२॥ मन्त्रदीक्षा यागदीक्षा योगदीक्षाऽक्षतव्रता । अक्षमालाविभेदज्ञाऽऽसनभेदविचक्षणा ॥ ७३॥ मातृकान्यासकुशला मन्त्रन्यासविशारदा । नानामुद्राप्रभेदज्ञा पञ्चोपास्तिप्रभेदवित् ॥ ७४॥ सर्वमन्त्रोपदेष्ट्री च व्याख्यात्री देशिकोत्तरा । वाग्वादिनी दुर्विवादिप्रौढवाक्स्तम्भकारिणी ॥ ७५॥ स्वतन्त्रयन्त्रणाशक्तिस्तद्यन्त्रितजगत्त्रयी । ब्रह्माद्याकर्षिणी शम्भुमोहिन्युच्चाटिनी द्विषाम् ॥ ७६॥ सुरासुराणां प्रद्वेषकारिणी दैत्यमारिणी । पूरिणी भक्तकामानां श्रितप्रत्यूहवारिणी ॥ ७७॥ साधारणी धारिणी च प्रौढवाग्धारिणी प्रधूः । प्रभूर्विभूः स्वयम्भूश्च निग्रहानुग्रहक्षमा ॥ ७८॥ क्षमाऽक्षमा क्षमाधारा धाराधरनिभद्युतिः । कादम्बिनी कालशक्तिः कर्षिणी वर्षिणीर्षिणी ॥ ७९॥ अदेवमातृका देवमातृका चोर्वरा कृषिः । कृष्टपच्याऽकृष्टपच्याऽनूषराऽधित्यका गुहा ॥ ८०॥ उपत्यका दरी वन्याऽरण्यानी शैलनिम्नगा । केदारभूमिर्व्रीहिला कमलर्धिर्महाफला ॥ ८१॥ इक्षुमत्यूर्जिता जम्बूपनसाम्रादिशालिनी । अष्टापदखनी रौप्यखनी रत्नखनिः खनिः ॥ ८२॥ रुचां भावखनिर्जीवखनिः सौभाग्यसत्खनिः । लावण्यस्य खनिर्धैर्यखनिः शौर्यखनिः खनिः ॥ ८३॥ गाम्भीर्यस्य विलासस्य खनिः साहित्यसत्खनिः । पक्षमासर्तुवर्षाणां खनिः खनिरनेहसाम् ॥ ८४॥ खनिश्च युगकल्पानां सूर्यचन्द्रमसोः खनिः । खनिर्मनूनामिन्द्राणां खनिः कौतुकसत्खनिः ॥ ८५॥ मषी लेखनिका पात्री वर्णपङ्क्तिर्लिपिः कथा । कविता काव्यकर्त्री च देशभाषा जनश्रुतिः ॥ ८६॥ रचना कल्पनाऽऽचारभटी धाटी पटीयसी । अपसव्यलिपिर्देवलिपी रक्षोलिपिर्लिपिः ॥ ८७॥ तुलजा रामवरदा शबरी बर्बरालका । ज्योतिर्लिङ्गमयी लिङ्गमस्तका लिङ्गधारिणी ॥ ८८॥ रुद्राक्षधारिणी भूतिधारिणी लैङ्गिकव्रता । विष्णुव्रतपरा विष्णुमुद्रिका प्रियवैष्णवी ॥ ८९॥ जैनी दैगम्बरी नानाविधवैदिक मार्गगा । पञ्चद्रविडसंसेव्या पञ्चगौडसमर्चिता ॥ ९०॥ हिङ्गुला शारदा ज्वालामुखी गञ्जाधिदेवता । मन्दुरादेवताऽऽलानदेवता गोष्ठदेवता ॥ ९१॥ गृहादिदेवतासौधदेवतोद्यानदेवता । श‍ृङ्गारदेवता ग्रामदेवता चैत्यदेवता ॥ ९२॥ पूर्देवता राजसभादेवताऽशोकदेवता । चतुर्दशानां लोकानां देवता परदेवता ॥ ९३॥ वापीकूपतडागादिदेवता वनदेवता । सृष्टिखेला क्षेमखेला प्रतिसंहारखेलना ॥ ९४॥ पुष्पपर्यङ्कशयना पुष्पवत्कुण्डलद्वयी । ताम्बूलचर्वणप्रीता गौरी प्रथमपुष्पिणी ॥ ९५॥ कल्याणीयुगसम्पन्ना कामसञ्जीवनी कला । कलाकलापकुशला कलातीता कलात्मिका ॥ ९६॥ महाजाङ्गलकी कालभुजङ्गविषनाशिनी । चिकित्सा वैद्यविद्या च नानामयनिदानवित् ॥ ९७॥ पित्तप्रकोपशमनी वातघ्नी कफनाशिनी । आमज्वरप्रकोपघ्नी नवज्वरनिवारिणी ॥ ९८॥ अर्शोघ्नी शूलशमनी गुल्मव्याधिनिवारिणी । ग्रहणीनिग्रहकरी राजयक्ष्मविनाशिनी ॥ ९९॥ मेहघ्नी पाण्डुरोगघ्नी क्षयापस्मारनाशिनी । उपदंशहरी श्वासकासच्छर्दिनिवारिणी ॥ १००॥ प्लीहप्रकोपसंहर्त्री पामाकण्डूविनाशिनी । दद्रुकुष्ठादिरोगघ्नी नानारोगविनाशिनी ॥ १०१॥ यक्षराक्षसवेतालकूष्माडग्रहभेदिनी । बालग्रहघ्नी चण्डालग्रहचण्डग्रहार्दिनी ॥ १०२॥ भूतप्रेतपिशाचघ्नी नानाग्रहविमर्दिनी । शाकिनीडाकिनीलामदस्त्रीग्रहनिषूदिनी ॥ १०३॥ अभिचारकदुर्बाधोन्मथिन्युन्मादनाशिनी । नानाविषार्तिसंहर्त्री दुष्टदृष्ट्यार्तिनाशिनी ॥ १०४॥ दुष्टस्थानस्थितार्कादिग्रहपीडाविनाशिनी । योगक्षेमकरी पुष्टिकरी तुष्टिकरीष्टदा ॥ १०५॥ धनदा धान्यदा गोदा वासोदा बहुमानदा । कामितार्थप्रदा शन्दा चतुर्विधतुमर्थदा ॥ १०६॥ ब्रह्ममान्या विष्णुमान्या शिवमान्येन्द्रमानिता । देवर्षिमान्या ब्रह्मर्षिमान्या राजर्षिमानिता ॥ १०७॥ जगन्मान्या जगद्धात्री त्र्यम्बका त्र्यम्बकाङ्गना । गुहेभवक्त्रजननी भद्रकाल्यमयङ्करी ॥ १०८॥ सती दाक्षायणी दक्षा दक्षाध्वरनिषूदिनी । उमा हिमाद्रिजाऽपर्णा कर्णपूराञ्चितानना ॥ १०९॥ क्षोणीधरनितम्बाम्बा बिम्बाभरदनच्छदा । कुन्दकोरकनीकाशरदपङ्क्तिः सुनासिका ॥ ११०॥ नासिकामौक्तिकमणिप्रभामलरदच्छदा । सुमन्दहसितालोकविमुह्यच्छम्भु मानसा ॥ १११॥ मानसौकोगतिः सिञ्जन्मञ्जीरादिविभूषणा । काञ्चीक्कणत्क्षुद्रघण्टा कलधौतघटस्तनी ॥ ११२॥ मुक्ताविद्रुमहारश्रीराजन्कुचतटस्थली । ताटङ्कयुगसत्कान्तिविलसद्गण्डदर्पणा ॥ ११३॥ धम्मिल्लप्रोत सौवर्णकेतकीदलमण्डिता । शिवार्पितस्वलावण्यतारुण्यकिलिकिञ्चिता ॥ ११४॥ सग्रैवेयकचिन्ताकविभ्राजत्कम्बुकन्धरा । सखीस्कन्धासक्तबाहुलतासुललिताङ्गिका ॥ ११५॥ नितम्बकुचभारार्तकृशमध्यसुमध्यमा । नाभीसरोवरोद्भूतरोमावलिविराजिता ॥ ११६॥ त्रिवलीराजललितगौरवर्णतलोदरी । चामरग्राहिणीवीज्यमानेन्दुद्युतिचामरा ॥ ११७॥ महाकुरबकाशोकपुष्पवचयलालसा । स्वतपःसुफलीभूतवरोत्तममहेश्वरी ॥ ११८॥ हिमाचलतपःपुण्यफलभूतसुताकृतिः । त्रैलोक्यरमणीरत्ना शिवचिच्चन्द्रचन्द्रिका ॥ ११९॥ कीर्तिज्योत्स्नाधवलितानेकब्रह्माण्डगोलिका । शिवजीवातुगुलिकालसदङ्गुलिमुद्रिका ॥ १२०॥ प्रीतिलालितसत्पुत्रगजाननषडानना । गङ्गासापत्न्यजनितेर्यायतेक्षणशोणिमा ॥ १२१॥ शिववामाङ्कपर्यंङ्ककृतासनपरिग्रहा । शिवदृष्टिचकोरीष्टमुखपूर्णेन्दुमण्डला ॥ १२२॥ उरोजशैलयुगलभ्रमच्छिवमनोमृगा । ब्रह्मविष्णुमुखाशेषवृन्दारकनभस्कृता ॥ १२३॥ अपाङ्गाङ्गणसन्तिष्ठन्निग्रहानुग्रहद्वयी । सनत्कुमारदुर्वासः प्रमुखोपासकार्थिता ॥ १२४॥ हादिकूटत्रयोपास्या कादिकूटत्रयार्चिता । मृद्वीकमधुपानाद्युद्बोधधूर्णितलोचना ॥ १२५॥ अव्यक्तभाषणा चेटीदत्तवीटीग्रहालसा । गायन्ती विलसन्ती च लिखन्ती प्रियलेखना ॥ १२६॥ उल्लसन्ती लसन्ती च दोलान्दोलनतुष्टिभाक् । विपञ्चीवादनरता सप्तस्वरविभेदवित् ॥ १२७॥ गन्धर्वीकिन्नरीविद्याधरीयक्षसुरीनुता । अमरीकबरीभृङ्गीस्थगिताङ्घ्रिसरोरुहा ॥ १२८॥ गन्धर्वगानश्रवणानन्दान्दोलितमस्तका । तिलोत्तमोर्वशीरम्भानृत्यदर्शनजातमुत् ॥ १२९॥ अचिन्त्यमहिमाऽचिन्त्यगरिमाऽचिन्त्यलाधवा । अचिन्त्यविभवाऽचिन्त्यविक्रमाऽचिन्त्यसद्गुणा ॥ १३०॥ स्तुतिः स्तव्या नतिर्नम्या गतिर्गम्या महासती । अनसूयाऽरुन्धती च लोपामुद्राऽदितिर्दितिः ॥ १३१॥ सप्तसंस्थास्वरूपा चारणिः स्रुग्वेदिका ध्रुवा । इडा प्रणीता पात्री च स्वधास्वाहाऽऽहुतिर्वपा ॥ १३२॥ कव्यरूपा हव्यरूपा यज्ञपात्रस्वरूपिणी । शङ्कराहोपुरुषिका गायत्रीगर्भवल्लभा ॥ १३३॥ चतुर्विंशत्यक्षरात्मपरोरजसिसावदोम् । वेदप्रसूर्वेदगर्भा विश्वामित्रर्षिपूजिता ॥ १३४॥ ऋग्यजुः सामत्रिपदा महासवितृदेवता । द्विजत्वसिद्धिदात्री च साङ्ख्यायनसगोत्रिका ॥ १३५॥ गातृदुर्गतिसंहर्त्री च गातृस्वर्गापवर्गदा । भृगुवल्ली ब्रह्मवल्ली कठवल्ली परात्परा ॥ १३६॥ कैवल्पोपनिषद्ब्रह्मोपनिषन्मुण्डकोपनिषत् । छान्दोग्योपनिषच्चैव सर्वोपनिषदात्मिका ॥ १३७॥ तत्त्वमादिमहावाक्यरूपाखण्डार्थबोधकृत् । उपक्रमादिषड्लिङ्गमहातात्पर्यबोधिनी ॥ १३८॥ जहत्स्वार्थाजहत्स्वार्थभागत्यागाख्यलक्षणा । असत्ख्यातिश्च सत्ख्यातिर्मिथ्याख्यातिः प्रभाऽप्रभा ॥ १३९॥ अस्तिभातिप्रियात्मा च नामरूपस्वरूपिणी । षण्मतस्थापनाचार्यमहादेवकुटुम्बिनी ॥ १४०॥ भ्रान्तिर्भान्तिहरी भ्रान्तिदायिनी भ्रान्तिकारिणी । विकृतिर्निकृतिश्चापि कृतिश्चोपकृतिस्तथा ॥ १४१॥ सकृतिः सत्कृतिः पापकृतिः सुकृतिरुत्कृतिः । आकृतिर्व्याकृतिः प्रायश्चित्तिर्वित्तिः स्थितिर्गतिः ॥ १४२॥ नवकुण्डी पञ्चकुण्डी चतुष्कुण्ड्येककुण्डिका । देवसेनादैत्यसेनारक्षः सेनादिभेदभाक् ॥ १४३॥ महिषास्योद्गतोद्दण्डदैत्यवेतण्डरुण्डहृत् । दैत्यसेनातृणारण्यज्वाला ज्योतिःस्वरूपिणी ॥ १४४॥ चण्डमुण्ड महादैत्यरुण्डडकन्दुकखेलकृत् । पशुदेहासृक्पललतृप्ता दक्षिणकालिका ॥ १४५॥ तदञ्चत्प्रेततद्रुण्डमाला व्यालविभूषणा । हलदंष्ट्रा शङ्कुरदा पीतानेकसुराघटा ॥ १४६॥ नेत्रभ्रमिपराभूतरथचक्रद्वयभ्रमिः । व्यायामाग्राह्यवक्षोजन्यक्कृतेभेन्द्रकुम्भिका ॥ १४७॥ मातृमण्डलमध्यस्था मातृमण्डलपूजिता । घण्टाघणघणध्वानप्रीता प्रेतासनस्थिता ॥ १४८॥ महालसा च मार्तण्डभैरवप्राणवल्लभा । राजविद्या राजसती राजस्त्री राजसुन्दरी ॥ १४९॥ गजराजादिरलकापुरीस्था यक्षदेवता । मत्स्यमूर्तिः कूर्ममूर्तिः स्वीकृतक्रोडविग्रहा ॥ १५०॥ नृसिंहमूर्तिर्रत्युग्रा धृतवामनविग्रहा । श्रीजामदग्न्यमूर्तिश्च श्रीराममूर्तिर्हतास्रपा ॥ १५१॥ कृष्णमूर्तिर्बुद्धमूर्तिः कल्किमूर्तिरमूर्तिका । विराण्मूर्तिर्जगन्मूर्तिर्जगज्जन्मादिकारिणी ॥ १५२॥ आधाराधेयसम्बन्धहीना तदुभयात्मिका । निर्गुणा निष्क्रियाऽसङ्गा धर्माधर्मविवर्जिता ॥ १५३॥ मायासम्बन्धरहितासच्चिदानन्दविग्रहा । जगत्तरङ्गजलधिरूपा चीत्कृतिभेदभाक् ॥ १५४॥ महातत्त्वात्मिका वैकाराहङ्कारस्वरूपिणी । रजोहङ्काररूपा च तमोहङ्काररूपिणी ॥ १५५॥ आकाशरूपिणी वायुरूपिण्यग्निस्वरूपिणी । अम्बात्मिका भूस्वरूपा पञ्चज्ञानेन्द्रियात्मिका ॥ १५६॥ कर्मेन्द्रियात्मिका प्राणापानव्यानादिरूपिणी । नागकूर्मादिरूपा च सर्वनाडीविहारिणी ॥ १५७॥ आधारचक्राधिष्ठात्री स्वाधिष्ठानप्रतिष्ठिता । मणिपूरकसंस्थानाऽनाहताब्जाधिदेवता ॥ १५८॥ विशुद्धचक्रपीठस्थाऽऽज्ञाचक्रपरमेश्वरी । द्विपत्री षोडशदली तथा द्वादशपत्रिका ॥ १५९॥ प्रदलद्दशपत्री च षड्दली च चतुर्दली । वासान्तमातृका बादिलान्तवर्णाधिदेवता ॥ १६०॥ डादिफान्ताक्षरवती कादिठान्ताक्षरेश्वरी । षोडशस्वरबीजेशी स्पर्शोष्मान्तःस्थदेवता ॥ १६१॥ हक्षाक्षरद्वयीरूपा पञ्चाशन्मातृकेश्वरी । सहस्राराब्जपीठस्था शिवशक्तिर्विमुक्तिदा ॥ १६२॥ पञ्चाम्नायशिवप्रोक्ता मन्त्रबीजाधिदेवता । सौःक्लींह्रींबीजफलदा महाप्लक्षसरस्वती ॥ १६३॥ नवार्णवा सप्तशती मालामन्त्रस्वरूपिणी । अर्गलेशी कीलकेशी कवचेशी त्रिमूर्तिका ॥ १६४॥ सकारादिहकारान्तमहमन्त्राधिदेवता । सकृत्सप्तशतीपाठप्रीता प्रोक्तफलप्रदा ॥ १६५॥ कुमारीपूजनोद्यन्मुच्चिरण्टीपूजनोत्सुका । विप्रपूजनसन्तुष्टा नित्यश्रीर्नित्यमङ्गला ॥ १६६॥ जयदादिमचारित्रा श्रीद मध्यचरित्रिका । विद्यादोत्तमचारित्रा कामितार्थप्रदायिका ॥ १६७॥ इष्टकृष्णाष्टमी चेष्टनवमी भूतपूर्णिमा । इष्टशुक्रारदिवसा धूतदीपद्वयोत्सुका ॥ १६८॥ नवरात्रोत्सवासक्ता पूजाहोमबलिप्रिया । इष्टेक्षुकूष्माण्डफलाहूतिरिष्टफलाहुतिः ॥ १६९॥ प्रतिमासूत्कृष्टपुण्या च महायन्त्रार्चनाविधिः । कात्यायनी कामदोग्ध्री खेचरी खड्गचर्मधृक् ॥ १७०॥ गजास्यमाता घटिका चण्डिका चक्रधारिणी । छाया छविमयी छन्ना जरामृत्युविवर्जिता ॥ १७१॥ झल्लीझङ्कारमुदिता झञ्झावातझणत्कृतिः । टङ्कहस्ता टणच्चापठद्वयी पल्लवोन्मनुः ॥ १७२॥ डमरुध्वानमुदिता डाकिनीशाकिनीश्वरी । ढुण्ढिराजस्य जननी ढकावाद्यविलासिनी ॥ १७३॥ तरिका तारिका तारा तन्वङ्गी तनुमध्यमा । धूपीकृतासुरा दीर्घवेणी दृप्ता सुरार्तिहृत् ॥ १७४॥ धूम्रवर्णा धूम्रकेशी धूम्राक्षप्राणहारिणी । नगेशतनया नारी मतल्ली पट्टिहेतिका ॥ १७५॥ पाताललोकाधिष्ठात्री फेरूकृतमहासुरा । फणीन्द्रशयना बोधदायिनी बहुरूपिणी ॥ १७६॥ भामिनी भासिनी भ्रान्तिकरी भ्रान्तिविनाशिनी । मातङ्गी मदिरामत्ता माधवी माधवप्रिया ॥ १७७॥ यायजूकार्चिता योगिध्येया योगीशवल्लभा । राकाचन्द्रमुखी रामा रेणुका रेणुकात्मजा ॥ १७८॥ लोकाक्षी लोहिता लज्जा वामाक्षी वास्तुशान्तिदा । शातोदरी शाश्वतिका शातकुम्भविभूषणा ॥ १७९॥ षडास्यमाता षट्चक्रवासिनी सर्वमङ्गला । स्मेरानना सुप्रसन्ना हरवामाङ्कसंस्थिता ॥ १८०॥ हारिवन्दितपादाब्जा ह्रींबीजभुवनेश्वरी । क्षौमाम्बरेन्दुगोक्षीरधवला वनशङ्करी ॥ १८१॥ (॥ षडङ्गन्यासध्यान मानसोपचार पूजनम् ॥) अथ फलश्रुतिः । इतीदं वनशङ्कर्याः प्रोक्तं नामसहस्रकम् । शान्तिदं पुष्टिदं पुण्यं महाविपत्तिनाशनम् ॥ १॥ दारिद्र्यदुःखशमनं नानारोगनिवारणम् । इदं स्तोत्रं पठेद्भक्त्या यस्त्रिसन्ध्यं नरः शुचिः ॥ २॥ नारी वा नियता भक्त्या सर्वान्कामानवाप्नुयात् । अस्य स्तोत्रस्य सततं यत्र पाठः प्रवर्तते ॥ ३॥ तस्मिन्नगृहे महालक्ष्मीः स्वभर्त्रा सह मोदते । नानेन सदृशं स्तोत्रं भुक्तिमुक्तिप्रदायकम् ॥ ४॥ विद्यतेऽन्यसत्यमेतत् शक्र वच्मि पुनः पुनः । बकवन्ध्या काकवन्ध्या नारीस्तोत्रमिदं पठेत् ॥ ५॥ वषेणैकेन सा पुत्रं लभेन्नात्रास्ति संशयः । सामान्यकार्यसिद्धिस्तु शतावर्तनतो भवेत् ॥ ६॥ महाकार्यस्य सिद्धिस्तु सहस्रावर्तनाद्ध्रुवम् । न तत्र पीडा जायेत भूतप्रेतग्रहोद्भवा ॥ ७॥ लोकवश्यं राजवश्यं स्तोत्रस्य पठनाद्भवेत् । शत्रवः संक्षयं यान्ति दस्यवः पिशुनास्तथा ॥ ८॥ नैव शाकम्भरीभक्ताः सीदन्ति बलसूदन । शाकम्भरी स्वभक्तानामवित्री जननी यथा ॥ ९॥ यद्यत्कार्यं समुद्दिश्य ध्यायन् शाकम्भरीं हृदि । स्तोत्रमेतत्पठेत्तस्य तत्कार्यं च प्रसिद्ध्यति ॥ १०॥ मुच्यते बन्धनाद्बद्धो रोगी मुच्येत रोगतः । ऋणवानृणतो मुच्येन्नात्र कार्या विचारणा ॥ ११॥ पौषे मासि सिते पक्षे प्रारभ्य तिथिमष्टमीम् । देव्याः आराधनं कुर्यादन्वहं पूर्णिमावधि ॥ १२॥ सशाकैरुत्तमान्नैश्च ब्राह्मणांश्च सुवासिनीः । सन्तर्पयेद्यथाशक्ति देवीं सम्पूज्य भक्तितः ॥ १३॥ वित्तशाठ्यं न कुर्वीत शाकम्भर्याः समर्चने । तस्मै प्रसन्ना भक्ताय दद्यात्कामानभीप्सितान् ॥ १४॥ विद्यार्थी प्राप्नुयाद्विद्यां धनार्थी चाप्नुयाद्धनम् । दारार्थी प्राप्नुयाद्दारानपत्यार्थी तदाप्नुयात् ॥ १५॥ आप्नुयान्मन्दबुद्धिस्तु ग्रन्थधारणपाटवम् । अस्य स्तोत्रस्य पाठेन प्राप्नुयाद्यद्यदीप्सितम् ॥ १६॥ अयुतावर्तनादस्य स्तोत्रस्य बलसूदन । पश्येच्छाकम्भरीं साक्षात्तद्भक्तो नात्र संशयः ॥ १७॥ होमं च कुर्याद्विधिवत्पायसेन ससर्पिषा । सौभाग्यद्रव्ययुक्तेन सेक्षुकूष्माण्डकेन च ॥ १८॥ सुवासिनीः कुमारीश्च ब्राह्मणांश्च दिने दिने । सम्भोजयेत्सदन्नेन ससितामधुसर्पिषा ॥ १९॥ दद्यात्तेभ्यश्च ताभ्यश्च वस्त्रालङ्कारदक्षिणाः । तस्मै शाकम्भरी दद्यात्पुरुषार्थचतुष्टयम् ॥ २०॥ आचन्द्रार्कं तस्य वशः स्थास्यत्यत्र गुणी सुखी । शाकम्भर्यै नम इति यस्तु मन्त्रं षडक्षरम् ॥ २१॥ भक्त्या जपेन्नरस्तस्य सर्वत्र जयमङ्गलम् । शाकम्भर्या इदं शक्र दिव्यं नामसहस्रकम् ॥ २२॥ गुरुभक्ताय शान्ताय देयं श्रद्धालवे त्वया । त्वमप्याखण्डल सदा पठेदं स्तोत्रमुत्तमम् ॥ २३॥ शत्रून् जेष्यसि सङ्ग्रामे सर्वान्कामानवाप्स्यसि । इति श्रुत्वा स्कन्दवाक्यं शक्रः सन्तुष्टमानसः ॥ २४॥ प्रणम्य गुहमापृष्ट्वा सगणः स्वदिवं ययौ ॥ २५॥ सूत उवाच - दुर्भिक्षे ऋषिपोषिण्याः शाकम्भर्याः प्रकीर्तितम् । इदं नामसहस्रं वः किं भूयः श्रोतुमिच्छथ ॥ २६॥ ॥ इति श्रीस्कन्दपुराणे शाकम्भरी तथा वनशङ्करी सहस्रनामस्तोत्रं सम्पूर्णम् ॥