अक्षर आकार:

श्रीशाकम्भरीप्रातःस्मरणस्तोत्रम्

Shri Shakambhari Pratahsmaranastotram

श्रीशाकम्भरीप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि तव शङ्करि वक्त्रपद्मं कान्तालकं मधुरमन्दहसं प्रसन्नम् । काश्मीरदर्पमृगनाभिलसल्ललाटं लोकत्रयाभयदचारुविलोचनाढ्यम् ॥ १॥ प्रातर्भजामि तव शङ्करि हस्तवृन्दं माणिक्यहेमवलयादिविभूषणाढ्यम् । घण्टात्रिशूलकरवालसुपुस्तखेट- पात्रोत्तमाङ्गडमरूल्लसितं मनोज्ञम् ॥ २॥ प्रातर्नमामि तव शङ्करि पादपद्मं पद्मोभवादिसुमनोगणसेव्यमानम् । मञ्जुक्वणत्कनकनूपुरराजमानं नन्दारुवृन्दसुरवीरुधमार्यहृद्यम् ॥ ३॥ प्रातः स्तुवे च तव शङ्करि दिव्यमूर्तिं कादम्बकाननगतां करुणारसाद्रीम् । कल्याणधाम नवनीरदनीलभासां पञ्चास्ययानलसितां परमार्तिहन्त्रीम् ॥ ४॥ प्रातर्वदामि तव शङ्करि दिव्यनाम शाकम्भरीति ललितेति शतेक्षणेति । दुर्गेति दुर्गममहासुरनाशिनीति श्रीमङ्गलेति कमलेति महेश्वरीति ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते शाकम्भरीप्रियकरं दुरितौघनाशम् । तस्मै ददाति शिवदा वनशङ्करी सा विद्यां प्रजां श्रियमुदारमतिं सुकीर्तिम् ॥ ६॥ इति श्रीशाकम्भरीप्रातःस्मरणस्तवः सम्पूर्णः ॥