अक्षर आकार:

श्रीशाकम्भरी आरती २

shrIshAkambharI AratI 2

श्रीशाकम्भरी आरती २

जय देवि जय देवि जय जगदाधारे । शाकम्भरि विश्वेश्वरि जय तिलकागारे ॥ ध्रु०॥ वर्षाभावान्मातः शतवर्षम्भुवनम् । अन्नाभावाज्जातं कामदभिपन्नम् । चक्षुःशतकाद्वर्षं वर्षन्त्या भुवनम् । शताक्षिरक्षितमेतद्दत्वा पूर्णान्नम् ॥ १॥ निजतनुसम्भवशाकैरक्षितमितिभुवनम् । शाकम्भरीतिनाम प्राप्तं त्वघशमनम् । लोकत्रयपीडाकर दुर्गासुर हननात् । दुर्गेत्याख्या जाता शिवसुन्दरि मान्या ॥ २॥ त्वमेव माया प्रकृतिर्जननी त्वं शान्ता । त्वमेव बाला बगला दुर्गा त्वं ललिता । त्वमेव भीमा त्वमेव हिमवद्गिरिजाता । त्वमेव वाणी लक्ष्मीस्त्वं रघुसुतमाता ॥ ३॥