अक्षर आकार:

श्रीशाकम्भरी आरती १

shrIshAkambharI AratI 1

श्रीशाकम्भरी आरती १

जय शङ्करि शाकम्भरी सुतिलकवनगेहे । वितरय करुणापाङ्गं निजमिह मम देहे ॥ ध्रु०॥ दुर्घटहटदुर्गासुरभटसंहृतितोषे । अत्युत्कटसङ्कटनतखेटोत्करपोषे । कटितटसङ्घटपिङ्गटपटुसद्वटुवेषे । कुटिलालकपटलस्फुटकटकादिकमूषे ॥ १॥ लक्षाधिकरक्षोगणशिक्षाकृतदीक्षे । दाक्षायणि यक्षाधिपलक्ष्मिदिक्कटाक्षे । साक्षात्कृतमोक्षोदयभिक्षुकजनरक्षे । रक्षां कुरु रक्षां कुरु मम पूर्णापेक्षे ॥ २॥ चिन्तकजनचर्चित फलचितामणि चरणे । सन्तापत्रयहरणे मत्सन्ततिशरणे । दान्तश्रीमद्रामानदान्तःकरणे । सन्तोषय सन्तोषय मातः सुखकरणे ॥ ३॥