अक्षर आकार:

सतीपञ्चकम्

satIpanchakam

सतीपञ्चकम्

सतीनां सतीं शम्भुमान्यां भवानीं महाशक्तिपीठे विभिन्नाङ्गभूत्या । लसन्तीं सुखज्ञानवैराग्यभक्ति- प्रभादां शुभामादिशक्तिं भजामि ॥ १॥ पुरा दक्षयज्ञस्य नाशाय कार्यां निमित्तां तथा कारणां दक्षपुत्रीम् । शिवस्नेहधाराज्वलन्तीं शिवाङ्गीं नताभीष्टदामीशपत्नीं भजामि ॥ २॥ कुकर्मप्रलिप्तप्रकामिप्रमत्त- प्रचण्डान्धकारावरुद्धस्य जन्तोः । पुरा स्नेहवात्सल्यधाराप्रदात्रीं शिवां मातरं भक्तवन्द्यां भजामि ॥ ३॥ न भूते भविष्ये तथा वर्तमाने न लोके विलोके तथान्यत्र देवि । कृपापूर्णदृष्टिस्तवाक्षस्य साम्या जगन्मातरं धातृदेवीं भजामि ॥ ४॥ शिवामन्दिरं पुत्रगेहं तु मन्ये नितान्तं शिवे तस्य गेहस्य द्वारे । निवासं प्रयच्छ प्रभापूर्णबिम्बे सतीं शक्तिपीठस्फुरन्तीं भजामि ॥ ५॥ इति सतीपञ्चकं सम्पूर्णम् ।